<?xml version='1.0' encoding='UTF-8'?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
  <teiHeader>
    <fileDesc>
      <titleStmt>
        <title type="main">श्री अखिलाण्डनायिकादण्डकः</title>
        <title type="sub">A machine-readable edition</title>
        <principal>Arun Prasad</principal>
        <respStmt>
          <persName>Arun Prasad</persName>
          <resp>Creation of machine-readable version.</resp>
        </respStmt>
      </titleStmt>
      <publicationStmt>
        <authority>Ambuda (https://ambuda.org)</authority>
        <availability>
          <p>Distributed by Ambuda under a Creative Commons CC0 1.0 Universal Licence (public domain)</p>
        </availability>
        <date>2026-05-10</date>
      </publicationStmt>
      <notesStmt>
        <note>This text has been created by direct export from Ambuda's proofing environment.</note>
      </notesStmt>
      <sourceDesc>
        <bibl>
          <title>स्तोत्रार्णवः</title>
          <editor>
            <name>V. Chandrasekaran, M.A., L.T.</name>
          </editor>
          <publisher>Government Oriental Manuscripts Library</publisher>
          <pubPlace>Madras</pubPlace>
          <date>1961</date>
        </bibl>
      </sourceDesc>
    </fileDesc>
    <encodingDesc>
      <projectDesc>
        <p>Ambuda is an online library of Sanskrit literature.</p>
      </projectDesc>
      <editorialDesc>
        <normalization>
          <p>Normalization of whitespace around dandas and other punctuation marks.</p>
        </normalization>
      </editorialDesc>
    </encodingDesc>
    <revisionDesc/>
  </teiHeader>
  <text xml:id="shriakhilandanayikadandaka" xml:lang="sa">
    <body>
      <title n="title">१३.॥ अथ श्री अखिलाण्डनायिकादण्डकः ॥</title>
      <title type="sub" n="subtitle">भास्करकविकृतः</title>
      <lg n="1">
        <l>कदम्बतरुमञ्जरीकलितकर्णपूरोज्ज्वलं</l>
        <l>कलक्वणविपञ्चिकाकलनदत्तकर्णोत्सवम् ।</l>
        <l>करस्फुरितशारिकं कठिनपीनतुङ्गस्तनं</l>
        <l>जगत्त्रितयमङ्गलं जयति मन्मनोमन्दिरे ॥ १ ॥</l>
      </lg>
      <p n="2">जय जय जगदेकमातः शिवे देवि जम्बूपतीशानहृन्मोदकृन्मारसञ्जीवनोद्दामशोभाभिरामाखिलाङ्गोज्ज्वले चम्पकाशोकपुन्नागसालासनश्रीफलोदुम्बराश्वत्थजम्बूलसच्चन्दनाद्युर्वराजातराजीनिरस्तारूणाभापदस्वीयवेलासमुद्भासिसह्यात्मजापूरयोर्मध्यगे वारिजातावलीगर्भनिर्यत्ननिर्यन्मधुरखादहृष्यद्द्विरेफाङ्गनाचारुसङ्गीतवन्मञ्जुशाखासुडोलाविहारप्रियस्वप्रियायुक्प्रियस्वानवन्याप्रियस्वादुकेकालसत्केकिषण्डाकुले, चण्डभानुद्विषच्चण्डरामाब्जभूचन्द्रकुम्भोद्भवश्रीमदिन्द्राग्निजम्बूमहातीर्थराजावलीतीरभूमल्लिकायूथिकामालतीपूर्ववीरुत्समुद्भूतपुष्पोत्क<add rend="brackets">र</add>स्मेरगन्धाभिरामातिबालानिलस्वैरसञ्चारसञ्जातसम्मोददिव्याङ्गनालीलसद्गोपुरालङ्कृते,<pb n="669"/>सिद्धवेषस्फुरद्भूतिदायीश्वरस्वान्तसन्तोषकृत्सालवर्यावृते, सन्ततं दन्तिकान्तारदेशे कृताशे दयाशेवधौ शेवधीशेडिते, वेधसा वैदिकैरागमैर्बोधितैरर्चनासत्पथैरद्भुतैः पूजि<unclear>ते</unclear>, चारुजम्बूतरोर्मूलदेशोल्लसद्रत्नगेहान्तरालङ्क्रियाकारणे, दन्तिना लुतया चारुसंसेविते, नीरलिङ्गाकृतौ देवदेवे हरे लोकरक्षाकृते, तत्सपर्यां विधातुं भवानि स्वयंव्यक्तरूपोज्ज्वले, पद्मया हस्तपङ्केरुहात्तामलस्फारमुक्ताफलालङ्कृतच्छत्रया पद्मभूकान्तया कच्छपीनिर्गलद्दिव्यगान्धारनादानुकूलीभवद्गेयया निर्जराधीशवामभ्रुवा चित्तभूपङ्कजाक्ष्या च हस्ते धृतस्वर्णदण्डस्फुरच्चामराभ्यां सदा पार्श्वयोरुर्वशीमुख्यदिव्याङ्गनाभिश्चलत्कुन्तलोरोजभारालसाभिर्मुदा लास्यभेदैः पुरस्ताच्च संसेविते ॥ २ ॥</p>
      <p n="3">निखिलभुवनरक्षणे, सक्षणोत्क्षिप्तकौक्षेयसत्पक्षिराजध्वजाध्यक्षिते स्वर्धुरीणाद्रिसर्वामराधीशकोटीरकोटीमणीकान्तिनीराजिताङ्घ्रिद्वयीपद्मकोशोदरोद्गीर्णमुक्ताफलस्तोमभास्वन्नखश्रेणिकाभासुरे शम्भुहृद्धीरतासन्मृगीयन्त्रणाकृन्मनोभूनिषङ्गस्फुरज्जङ्घिके, बालरम्भातिशायीशविज्ञातसौभाग्यकोरुद्वये, देहशोभासरोघूर्णदम्भोभ्रमभ्रान्तिकृन्नाभिगम्भीरताभासुरे, नीलरोमावलीवल्लरीसत्फलोरोजभारानमन्मध्यदेशे, दयानद्धदेहे, शुभे, कुम्भिकुम्भद्वयीधिक्कियादक्षवक्षोरुहद्वंद्वसंवर्धितेशानहृन्मोदभारे, नतेष्वेकदा धर्मकामार्थमोक्षप्रदानैकदक्षैर्लसत्कल्पवल्लीसमैः बाहुभिः पङ्कजे भीतिनोदक्षमामिष्टदां मुद्रिकां चादधाने, हरामोदधानाकृते, सिन्धुराधीश्वरारण्यवासीश्वरेणादरात् बद्धमाङ्गल्यसूत्रस्फुरत्कम्बुजित्कन्धराराजिते, पार्विकस्वच्छचन्द्राभिरामानने नूत्नसद्विद्रुमारक्तदन्तच्छदालङ्कृते कुन्दवृन्दोल्लसद्दन्तपङ्क्त्या युते,देहशोभातमालावलीसञ्चरच्चन्द्रिकामन्दहासाभिरामे मनोहारिहीराङ्कुरैर्निस्तुमौक्तिकैः बद्धताटङ्कभाराजितश्रोत्रयुग्मान्तरे, चारुचाम्पेयगर्वौघसर्वङ्कषोदारमुक्ताफलोद्भासिनासायुते, मन्दवातागतिप्रेङ्खदिन्दीवरद्वन्द्वजिल्लोचने, मारकोदण्डरुग्भङ्गकृच्चिल्लिके, शर्वरीनाथखण्डाभिरामालिके, कामजित्स्वान्तवातायुषो मोहकृत्केशपाशप्रभाभासुरे, मञ्जुले, देहसौन्दर्यविश्रान्तिकृद्रेखिकाबुद्धिदस्वच्छशीतांशुरेखायुते पद्मरागादिभी रत्नवर्यैः कनद्दिव्यकोटीरहारावलीकङ्कणैर्मञ्जुमाणिक्यसन्नद्धशिञ्जन्मणीकाञ्चिदामारुणस्वच्छचीनांशुकेनापि शिञ्जानमञ्जीरयुग्मेन चालङ्कृते शोभमानाकृते ॥ ३ ॥</p>
      <p n="4">अकृतकवचनानि सर्वाणि योगीन्द्रसन्मानसैः साकमप्राप्य यस्मान्निवृत्तानि तं ते परानन्दमम्ब, त्वदीहाबलाद्ये लभन्ते न ते कुत्रचित् बिभ्यति स्वच्छबुद्धीनमून्न स्पृशत्युग्रसंसारजं कर्मजातं, पुरा यो विधिं सृष्टवानद्भुतान् वेदराशीनमुष्मै पुनर्दत्तवानात्मबुद्धिप्रकाशं मुमुक्षुः जनो यं सदा सेवते यश्च सूर्ये विभात्यानखाग्रात् पुमान् स्वर्णवर्णोज्ज्वलो यश्च पुंसां हृदाकाशगः सच्चिदानन्दरूपः शिवस्तस्य शक्तिरत्वमस्युत्तमा तन्मयी तत्त्वमस्यम्बिके त्वद्भिया मारुतो वाति<pb n="670"/>सूर्यानलौ तारकानायकोऽप्यन्धकारं निरस्यानिशं जङ्गमं स्थावरं चाभितः पालयन्ते जगत्पन्नगाधीश्वरोऽप्युन्नमत्कन्धरं भूतलं सावलम्बं करोत्यम्बरे मेघपङ्क्तिर्जलैः सिञ्चति क्ष्मातलं देवि मे सत्पथेऽत्यन्तसक्तिं कुरु त्वं हि बुद्धिप्रदा सर्वहृत्पङ्कजे सन्निविष्टा न चेद्दुष्कृतं यत्करोम्यद्य तन्निष्कृतावेष भारस्त्वयि ॥ ४ ॥</p>
      <p n="5">सुललितपदपङ्कजे ते सदा यः सदा सेवते तं नराधीश्वराः प्रार्थयन्तेतरामम्बुवाहोपमैर्बद्धघण्टाझणात्कारसंपूरिताशातटैर्हस्तिभिः वातवेगैर्हयैरुत्तमैर्हारकेयूररुक्माङ्गदैः कुण्डलैर्मण्डयन्त्यस्य गेहे सदा पद्महस्ता वसत्येतदीयानने गद्यपद्यात्मिका भारती नृत्यति स्वैरमेणीदृशां पुष्पधन्वायते सोऽवनौ पुत्रपौत्रादिभिर्बन्धुवर्गैः सह क्रीडति स्वच्छकीर्त्या जगच्छादयत्यम्बिके त्वत्कृपावत्कटाक्षावलीगोचरस्येह वामुत्र वा दुर्लभं किं भवेत् सर्वलोकेश्वरि त्वत्पदं स्वल्पवागल्पताचोदितः स्तोतुमारब्धवानस्म्यथाप्यादरात् बाललीलावचो मातुरत्यन्तमोदं विधत्ते शिवे तन्मया बालिशेनानिशं गुम्भितं चापराधं क्षमस्वाखिलाण्डेश्वरि त्वं सदा पाहि मां दीनमीशप्रिये देवि तुभ्यं नमो देवि तुभ्यं नमः॥५॥</p>
      <lg n="6">
        <l>शिवसूर्यदीक्षितगुरोर्भास्करनाम्ना तनूभुवा रचितः ।</l>
        <l>अखिलाण्डनायिकायाः कुर्याच्चिरमेष दण्डकः प्रमदम् ॥ ६ ॥</l>
      </lg>
    </body>
  </text>
</TEI>