४ शिवोपनिषत् This text does not support clickable word meanings. अथैकभिन्नाविच्छिन्नं पुरतः शान्तिमण्डपम् पूर्वापराष्टहस्तं स्याद् द्वादशोत्तरदक्षिणे ॥ ▼ Permalink Bookmark तद् द्वारभित्तिसंबद्धं कपिच्छुकसमावृतम् पटद्वयं भवेत् स्थाप्य स्रुवाद्यावारहेतुना ॥ ▼ Permalink Bookmark द्वारं त्रिशाखं विज्ञेयं नवत्यङ्गुलम् उच्छ्रितम् तदर्धेन च विस्तीर्णं सत्कवाटं शिवालये ॥ ▼ Permalink Bookmark दीर्घं पञ्चनवत्या च पञ्चशाखासुशोभितम् सत्कवाटद्वयोपेतं श्रीमद् वाहनमण्टपम् ॥ ▼ Permalink Bookmark द्वारं पश्चान्मुखं ज्ञेयम् अशेषार्थप्रसाधकम् अभावे प्राङ्मुखं कार्यम् उदग्दक्षिणतो न च ॥ ▼ Permalink Bookmark गवाक्षकद्वयं कार्यम् अपिधानं सुशोभनम् धूमनिर्गमनार्थाय दक्षिणोत्तरकुड्ययोः ॥ ▼ Permalink Bookmark आग्नेयभागात् परितः कार्या जालगवाक्षकाः ऊर्ध्वस्तूपिकया युक्ता ईषच्छिद्रपिधानया ॥ ▼ Permalink Bookmark शिवाग्निहोत्रकुण्डं च वृत्तं हस्तप्रमाणतः चतुरश्रवेदि(का) श्रीमन् मेखलात्रयभूषितम् ॥ ▼ Permalink Bookmark कुड्यं द्विहस्तविस्तीऋणं पञ्चहस्तसमुच्छ्रितम् शिवाग्निहोत्रशरणं कर्तव्यम् अतिशोभनम् ॥ ▼ Permalink Bookmark जगतीस्तम्भपट्टाद्यं सप्तसंख्यं च कल्पयेत् बन्धयोगविनिर्मुक्तं तुल्यस्थानपदान्तरम् ॥ ▼ Permalink Bookmark ऐष्टकं कल्पयेद् यत्नाच् छिवाग्न्यायतनं महत् चतुःप्रेगीवकोपेतम्(?) एकप्रेगीवकेन वा(?) ॥ ▼ Permalink Bookmark सुधाप्रलिप्तं कर्तव्यं पञ्चाण्डकबिभूषितम् शिवाग्निहोत्रशरणं चतुरण्डकसंयुतम् ॥ ▼ Permalink Bookmark बहिस् तद् एव जगती त्रिहस्ता वा सुकुट्टिमा तावद् एव च विस्तीर्णा मेखलादिविभूषिता ॥ ▼ Permalink Bookmark कर्तव्या चात्र जगती तस्याश् चाधः समन्ततः द्विहस्तमात्रविस्तीर्णा तदर्धार्धसमुच्छ्रिता ॥ ▼ Permalink Bookmark अन्या वृत्ता प्रकर्तव्या रुद्रवेदी सुशोभना दशहस्तप्रमाणा च चतुरङ्गुलम् उच्छ्रिता ॥ ▼ Permalink Bookmark रुद्रमातृगणानां च दिक्पतीनां च सर्वदा सर्वाग्रपाकसंयुक्तं तासु नित्यबलिं हरेत् ॥ ▼ Permalink Bookmark वेद्य् अन्या सर्वभूतानां बहिः कार्या द्विहस्तिका वृषस्थानं च कर्तव्यं शिवालोकनसंमुखम् ॥ ▼ Permalink Bookmark अग्रार्षसवितुर् व्योम वृषः कार्यश् च पश्चिमे व्योम्नश् चाधस् त्रिगर्भं स्यात् पितृतर्पणवेदिका ॥ ▼ Permalink Bookmark प्राकारान्तर्बहिः कार्यं श्रीमद् गोपुरभूषितम् पुष्पारामजलोपेतं प्राकारान्तं च कारयेत् ॥ ▼ Permalink Bookmark मृद्दारुजं तृणच्छन्नं प्रकुर्वीत शिवालयम् भूमिकाद्वयविन्यासाद् उत्क्षिप्तं कल्पयेद् बुधः ॥ ▼ Permalink Bookmark शिवदक्षिणतः कार्यं तभुक्तेर् योग्यम् आलयम् शय्यासनसमायुक्तं वास्तुविद्याविनिर्मितम् ॥ ▼ Permalink Bookmark ध्वजसिंहौ वृषगजौ चत्वारः शोभनाः स्मृताः धूमश्वगर्दभध्वाङ्क्षाश् चत्वारश् चार्थनाशकाः ॥ ▼ Permalink Bookmark गृहस्यायामविस्तारं कृत्वा त्रिगुणम् आदितः अष्टभिः शोधयेद् आपैः शेषश् च गृहम् आदिशेत् ॥ ▼ Permalink Bookmark इति शान्तिगृहं कृत्वा रुद्राग्निं यः प्रवर्तयेत् अप्य् एकं दिवसं भक्त्या तस्य पुण्यफलं शृणु ॥ ▼ Permalink Bookmark कलत्रपुत्रमित्राद्यैः स भृत्यैः परिवारितः कुलैकविंशद् उत्तार्य देवलोकम् अवाप्नुयात् ॥ ▼ Permalink Bookmark नीलोत्पलदलश्यामाः पीनवृत्तपयोधराः हेमवर्णाः स्त्रियश् चान्याः सुन्दर्यः प्रियदर्शनाः ॥ ▼ Permalink Bookmark ताभिः सार्धं महाभोगैर् विमानैः सार्वकामिकैः इच्छया क्रीडते तावद् यावद् आभूतसंप्लवम् ॥ ▼ Permalink Bookmark ततः कल्पाग्निना सार्धं दह्यमानं सुविह्वलम् दृष्ट्वा विरज्यते भूयो भवभोगमहार्णवात् ॥ ▼ Permalink Bookmark ततः संपृच्छते रुद्रांस् तत्रस्थान् ज्ञानपारगान् तेभ्यः प्राप्य शिवज्ञानं शान्तं निर्वाणम् आप्नुयात् ॥ ▼ Permalink Bookmark अविरक्तश् च भोगेभ्यः सप्त जन्मानि जायते पृथिव्यधिपतिः श्रीमान् इच्छया वा द्विजोत्तमः ॥ ▼ Permalink Bookmark सप्तमाज् जन्मनश् चान्ते शिवज्ञानम् अनाप्नुयात् ज्ञानाद् विरक्तः संसाराच् छुद्धः खान्य् अधितिष्ठति ॥ ▼ Permalink Bookmark इत्य् एतद् अखिलं कार्यं फलम् उक्तं समासतः उत्सवे च पुनर् ब्रूमः प्रत्येकं द्रव्यजं फलम् ॥ ▼ Permalink Bookmark सद्गन्धगुटिकाम् एकां लाक्षां प्राण्यङ्गवर्जिताम् कर्पासास्थिप्रमाणं च हुत्वाग्नौ शृणुयात् फलम् ॥ ▼ Permalink Bookmark यावत् सत्गन्धगुटिका शिवाग्नौ संख्यया हुता तावत्कोट्यस् तु वर्षाणि भोगान् भुङ्क्ते शिवे पुरे ॥ ▼ Permalink Bookmark एकाङ्गुलप्रमाणेन हुत्वाग्नौ चन्दनाहुतिम् वर्षकोटिद्वयं भोगैर् दिव्यैः शिवपुरे वसेत् ॥ ▼ Permalink Bookmark यावत्केसरसंख्यानं कुसुमस्यानले हुतम् तावद्युगसहस्राणि शिवलोके महीयते ॥ ▼ Permalink Bookmark नागकेसरपुष्पं तु कुङ्कुमार्धेन कीर्तितम् यत् फलं चन्दनस्योक्तम् उशीरस्य तदर्धकम् ॥ ▼ Permalink Bookmark यत् पुष्पधूपभष्यान्नदधिक्षीरघृतादिभिः पुण्यलिङ्गार्चने प्रोक्तं तद् धोमस्य दशाधिकम् ॥ ▼ Permalink Bookmark हुत्वाग्नौ समिधस् तिस्रौ शिवोमास्कन्दनामभिः पश्चाद् दद्यात् तिलान्नानि होमयीत यथाक्रमम् ॥ ▼ Permalink Bookmark पलाशाअङ्कुरजारिष्टपालाल्यः(?) समिधः शुभाः पृषदाज्यप्लुता हुत्वा शृणु यत् फलम् आप्नुयात् ॥ ▼ Permalink Bookmark पलाशाङ्कुरसंख्यानां यावद् अग्नौ हुतं भवेत् तावत्कल्पान् महाभोगैः शिवलोके महीयते ॥ ▼ Permalink Bookmark तल्लक्ष्यमध्यसंभूतं हुत्वाग्नौ समिधः शुभाः कल्पार्धसंमितं कालं भोगान् भुङ्क्ते शिवे पुरे ॥ ▼ Permalink Bookmark शमीसमित्फलं देयम् अब्दान् अपि च लक्षकम् शम्यर्धफलवच्छेषाः समिधः क्षीरवृक्षजाः ॥ ▼ Permalink Bookmark तिलसंख्यांस् तिलान् हुत्वा ह्य् आज्याक्ता(?) यावती भवेत् तावत् स वर्षलक्षांस् तु भोगान् भुङ्क्ते शिवे पुरे ॥ ▼ Permalink Bookmark यावत् सुरौषधीरज्ञस्(?) तिलतुल्यफलं स्मृतम् इतरेभ्यस् तिलेभ्यश् च कृष्णानां द्विगुणं फलम् ॥ ▼ Permalink Bookmark लाजाक्षताः सगोधूमाः वर्षलक्षफलप्रदाः दशसाहस्रिका ज्ञेयाः शेषाः स्युर् बीजजातयः ॥ ▼ Permalink Bookmark पलाशेन्धनजे वह्नौ होमस्य द्विगुणं फलम् क्षीरवृक्षसमृद्धे ऽग्नौ फलं सार्धार्धिकं भवेत् ॥ ▼ Permalink Bookmark असमिद्धे सधूमे च होमकर्म निरर्थकम् अन्धश् च जायमानः स्याद् दारिद्र्योपहतस् तथा ॥ ▼ Permalink Bookmark न च कण्टकिभिर् वृक्षैर् अग्निं प्रज्वाल्य होमयेत् शुष्कैर् नवैः प्रशस्तैश् च काष्ठैर् अग्निं समिन्धयेत् ॥ ▼ Permalink Bookmark एवम् आज्याहुतिं हुत्वा शिवलोकम् अवाप्नुयात् तत्र कल्पशतं भोगान् भुङ्क्ते दिव्यान् यथेप्सितान् ॥ ▼ Permalink Bookmark स्रुचैकाहितमात्रेण व्रतस्यापूरितेन च याहुतिर् दीयते वह्नौ सा पूर्णाहुतिर् उच्यते ॥ ▼ Permalink Bookmark एकां पूर्णाहुतिं हुत्वा शिवेन शिवभावितः सर्वकामम् अवाप्नोति शिवलोके व्यवस्थितः ॥ ▼ Permalink Bookmark अशेषकुलजैर् सार्धं स भृत्यैः परिवारितः आभूतसंप्लवं यावद् भोगान् भुङ्क्ते यथेप्सितान् ॥ ▼ Permalink Bookmark ततश् च प्रलये प्राप्ते संप्राप्य ज्ञानम् उत्तमम् प्रसादाद् ईश्वरस्यैव मुच्यते भवसागरात् ॥ ▼ Permalink Bookmark शिवपूर्णाहुतिं वह्नौ पतन्तीं यः प्रपश्यति सो ऽपि पापरि नरः सर्वैर् मुक्तः शिवपुरं व्रजेत् ॥ ▼ Permalink Bookmark शिवाग्निधूमसंस्पृष्टा जीवाः सर्वे चराचराः ते ऽपि पापविनिर्मुक्ताः स्वर्गं यान्ति न संशयः ॥ ▼ Permalink Bookmark शिवयज्ञमहावेद्या जायते ये न सन्ति वा ते ऽपि यान्ति शिवस्थानं जीवाः स्थावरजङ्गमाः ॥ ▼ Permalink Bookmark पूर्णाहुतिं घृताभावे क्षीरतैलेन कल्पयेत् होमयेद् अतसीतैलं तिलतैलं विना नरः ॥ ▼ Permalink Bookmark सर्षपेङ्गुडिकाशाम्रकरञ्जमधुकाक्षजम् प्रियङ्गुबिल्वपैप्पल्यनालिकेरसमुद्भवम्(?) ॥ ▼ Permalink Bookmark इत्य् एवम् आदिकं तैलम् आज्याभावे प्रकल्पयेत् दूर्वया बिल्वपत्त्रैर् वा समिधः संप्रकीर्तिताः ॥ ▼ Permalink Bookmark अन्नार्थं होमयेत् क्षीरं दधि मूलफलानि वा तिलार्थं तण्डुलैः कुर्याद् दर्भार्थं हरितैस् तृणैः ॥ ▼ Permalink Bookmark परिधीनाम् अभावेन शरैर् वंशैश् च कल्पयेत् इन्धनानाम् अभावेन दीपयेत् तृणगोमयैः ॥ ▼ Permalink Bookmark गोमयानाम् अभावेन महत्य् अम्भसि होमयेत् अपाम् असंभवे होमं भूमिभागे मनोहरे ॥ ▼ Permalink Bookmark विप्रस्य दक्षिणे पाणाव् अश्वत्थे तदभावतः छागस्य दक्षिणे कर्णे कुशमूले च होमयेत् ॥ ▼ Permalink Bookmark स्वात्माग्नौ होमयेत् प्राज्ञः सर्वाग्नीनाम् असंभवे अभावे न त्यजेत् कर्म कर्मयोगविधौ स्थितः ॥ ▼ Permalink Bookmark आपत्काले ऽपि यः कुर्याच् छिवाग्नेर् मनसार्चनम् स मोहकञ्चुकं त्यक्त्वा परां शान्तिम् अवाप्नुयात् ॥ ▼ Permalink Bookmark प्राणाग्निहोत्रं कुर्वन्ति परमं शिवयोगिनः बाह्यकर्मविनिर्मुक्ता ज्ञानध्यानसमाकुलाः ॥ ▼ Permalink Bookmark ॥ इति शिवोपनिषदि शान्तिगृहाग्निकार्याध्यायश् चतुर्थः ॥ ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha