२ शिवोपनिषत् This text does not support clickable word meanings. अथ पूर्वस्थितो लिङ्गे गर्भः स त्रिगुणो भवेत् गर्भाद् वापि विभागेन स्थाप्य लिङ्गं शिवालये ॥ ▼ Permalink Bookmark यावल् लिङ्गस्य दैर्घ्यं स्यात् तावद् वेद्याश् च विस्तरः लिङ्गतृतीयभागेन भवेद् वेद्याः समुच्छ्रयः ॥ ▼ Permalink Bookmark भागम् एकं न्यसेद् भूमौ द्वितीयं वेदिमध्यतः तृतीयभागे पूजा स्वाद् इति लिङ्गं त्रिधा स्थितम् ॥ ▼ Permalink Bookmark भूमिस्थं चतुरश्रं स्वाद् अष्टाश्रं वेदिमध्यतः पूजार्थं वर्तुलं कार्यं दैर्घ्यात् त्रिगुणविस्तरम् ॥ ▼ Permalink Bookmark अधोभागे स्थितः स्कन्दः स्थिता देवी च मध्यतः ऊर्ध्वं रुद्रः क्रमाद् वापि ब्रह्मविष्णुमहेश्वराः ॥ ▼ Permalink Bookmark एत एव त्रयो लोका एत एव त्रयो गुणाः एत एव त्रयो वेदा एतच् चान्यत् स्थितं त्रिधा ॥ ▼ Permalink Bookmark नवहस्तः स्मृतो ज्येष्ठः षड्ढस्तश् चापि मध्यमः विद्यात् कनीयस् त्रैहस्तं लिङ्गमानम् इदं स्मृतम् ॥ ▼ Permalink Bookmark गर्भस्यानतः प्रविस्तारस् तदूनश् च न शस्यते गर्भस्यानतः प्रविस्ताराद् तदुपर्य् अपि संस्थितम् ॥ ▼ Permalink Bookmark प्रासादं कल्पयेच् छ्रीमान् विभजेत त्रिधा पुनः भाग एको भवेज् जङ्घा द्वौ भागौ मञ्जरी स्मृता ॥ ▼ Permalink Bookmark मञ्जर्या अर्धभागस्थं शुकनासं प्रकल्पयेत् गर्भाद् अर्धेन विस्तारम् आयामं च सुशोभनम् ॥ ▼ Permalink Bookmark गर्भाद् वापि त्रिभागेन शुकनासं प्रकल्पयेत् गर्भाद् अर्धेन विस्तीर्णा गर्भाच् च द्विगुणायता ॥ ▼ Permalink Bookmark जङ्घाभिश् च भवेत् कार्या मञ्जर्यङ्गुलराशिना प्रासादार्धेन विज्ञेयो मण्डपस् तस्य वामतः ॥ ▼ Permalink Bookmark मण्डपात् पादविस्तीर्णा जगती तावदुच्छ्रिता प्रासादस्य प्रमाणेन जगत्या सार्धम् अङ्गणम् ॥ ▼ Permalink Bookmark प्राकारं तत्समन्ताच् च गुपुराद् आलभूषितम् प्राकारान्तः स्थितं कार्यं वृषस्थानं समुच्छ्रितम् ॥ ▼ Permalink Bookmark नन्दीश्वरमहाकालौ द्वारशाखाव्यवस्थितौ प्राकाराद् दक्षिणे कार्यं सर्वोपकरणान्वितम् ॥ ▼ Permalink Bookmark पञ्चभौमं त्रिभौमं वा योगीन्द्रावसथं महत् प्राकारगुप्तं तत् कार्यं मैत्रस्थानसमन्वितम् ॥ ▼ Permalink Bookmark स्थानाद् दशसमायुक्तं भव्यवृक्षजलान्वितम् तन् महानसम् आग्नेय्यां पूर्वतः सत्त्रमण्डपम् ॥ ▼ Permalink Bookmark स्थानं चण्डेशम् ऐशान्यां पुष्पारामं तथोत्तरम् कोष्ठागारं च वायव्यां वारुण्यां वरुणालयम् ॥ ▼ Permalink Bookmark शमीन्धनकुशस्थानम् आयुधानां च नैरृतम् सर्वलोकोपकाराय नगरस्थं प्रकल्पयेत् ॥ ▼ Permalink Bookmark श्रीमदायतनं शम्भोर् योगिनां विजने वने शिवस्यायतने यावत् समेताः परमाणवः ॥ ▼ Permalink Bookmark मन्वन्तराणि तावन्ति कर्तुर् भोगाः शिवे पुरे महाप्रतिमलिङ्गानि महान्त्य् आयतनानि च ॥ ▼ Permalink Bookmark कृत्वाप्नोति महाभोगान् अन्ते मुक्तिं च शाश्वतीम् लिङ्गप्रतिष्ठां कुर्वीत यदा तल्लक्षणं कृती ॥ ▼ Permalink Bookmark पञ्चगव्येन संशोध्य पूजयित्वाधिवासयेत् पालाशोदुम्बराश्वत्थपृषदाज्यतिलैर् यवैः ॥ ▼ Permalink Bookmark अग्निकार्यं प्रकुर्वीत दद्यात् पूर्णाहुतित्रयम् शिवस्याष्टशतं हुत्वा लिङ्गमूलं स्पृशेद् बुधः ॥ ▼ Permalink Bookmark एवं मध्ये ऽवसाने तन् मूर्तिमन्त्रैश् च मूर्तिषु अष्टौ मूर्तीश्वराः कार्याः नवमः स्थापकः स्मृतः ॥ ▼ Permalink Bookmark प्रातः संस्थापयेल् लिङ्गं मन्त्रैस् तु नवभिः क्रमात् महास्नापनपूजां च स्थाप्य लिङ्गं प्रपूजयेत् ॥ ▼ Permalink Bookmark गुरोर् मूर्तिधराणां च दद्याद् उत्तमदक्षिणाम् यतीनां च समस्तानां दद्यान् मध्यमदक्षिणाम् ॥ ▼ Permalink Bookmark दीनान्धकृपणेभ्यश् च सर्वासाम् उपकल्पयेत् सर्वभक्ष्यान्नपानाद्यैर् अनिषिद्धं च भोजनम् ॥ ▼ Permalink Bookmark कल्पयेद् आगतानां च भूतेभ्यश् च बलिं हरेत् रात्रौ मातृगणानां च बलिं दद्याद् विशेषतः ॥ ▼ Permalink Bookmark एवं यः स्थापयेल् लिङ्गं तस्य पुण्यफलं शृणु कुलत्रिंशकम् उद्धृत्य भृत्यैश् च परिवारितः ॥ ▼ Permalink Bookmark कलत्रपुत्रमित्राद्यैः सहितः सर्वबान्धवैः विमुच्य पापकलिलं शिवलोकं व्रजेन् नरः तत्र भुक्त्वा महाभोगान् प्रलये मुक्तिम् आप्नुयात् ॥ ▼ Permalink Bookmark ॥ इति शिवोपनिषदि लिङ्गायतनाध्यायो द्वितीयः ॥ ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha