१ शिवोपनिषत् This text does not support clickable word meanings. कैलासशिखरासीनम् अशेषामरपूजितम् कालघ्नं श्रीमहाकालम् ईश्वरं ज्ञानपारगम् ॥ ▼ Permalink Bookmark संपूज्य विधिवद् भक्त्या ऋष्यात्रेयः सुसंयतः सर्वभूतहितार्थाय पप्रच्छेदं महामुनिः ॥ ▼ Permalink Bookmark ज्ञानयोगं न विन्दन्ति ये नरा मन्दबुद्धयः ते मुच्यन्ते कथं घोराद् भगवन् भवसागरात् ॥ ▼ Permalink Bookmark एवं पृष्टः प्रसन्नात्मा ऋष्य् आत्रेयेण धीमता मन्दबुद्धिविमुक्त्यर्थं महाकालः प्रभाषते ॥ ▼ Permalink Bookmark ▼ Permalink Bookmark पुरा रुद्रेण गदिताः शिवधर्माः सनातनाः देव्याः सर्वगणानां च संक्षेपाद् ग्रन्थकोटिभिः ॥ ▼ Permalink Bookmark आयुः प्रज्ञां तथा शक्तिं प्रसमीक्ष्य नॄणाम् इह तापत्रयप्रपीडां च भोगतृष्णाविमोहिनीम् ॥ ▼ Permalink Bookmark ते धर्माः स्कन्दनन्दिभ्याम् अन्यैश् च मुनिसत्तमैः सारमादाय निर्दिष्टाः सम्यक्प्रकरणान्तरैः ॥ ▼ Permalink Bookmark साराद् अपि महासारं शिवोपनिषदं परम् अल्पग्रन्थं महार्थं च प्रवक्ष्यामि जगद्धितम् ॥ ▼ Permalink Bookmark शिवः शिव इमे शान्तनाम चाद्यं मुहुर्मुहुः उच्चारयन्ति तद् भक्त्या ते शिवा नात्र संशयः ॥ ▼ Permalink Bookmark अशिवाः पाशसंयुक्ताः पशवः सर्वचेतनाः यस्माद् विलक्षणास् तेभ्यस् तस्माद् ईशः शिवः स्मृतः ॥ ▼ Permalink Bookmark गुणो बुद्धिर् अहंकारस् तन्मात्राणीन्द्रियानि च भूतानि च चतुर्विंशद् इति पाशाः प्रकीर्तिताः ॥ ▼ Permalink Bookmark पञ्चविंशकम् अज्ञानं सहजं सर्वदेहिनाम् पाशाजालस्य तन् मूलं प्रकृतिः कारणाय नः ॥ ▼ Permalink Bookmark सत्यज्ञाने निबध्यन्ते पुरुषाः पाशबन्धनैः मद्भावाच् च विमुच्यन्ते ज्ञानिनः पाशपञ्जरात् ॥ ▼ Permalink Bookmark षड्विंशकश् च पुरुषः पशुर् अज्ञः शिवागमे सप्तविंश इति प्रोक्तः शिवः सर्वजगत्पतिः ॥ ▼ Permalink Bookmark यस्माच् छिवः सुसंपूर्णः सर्वज्ञः सर्वगः प्रभुः तस्मात् स पाशहरितः स विशुद्धः स्वभावतः ॥ ▼ Permalink Bookmark पशुपाशपरः शान्तः परमज्ञानदेशिकः शिवः शिवाय भूतानां तं विज्ञाय विमुच्यते ॥ ▼ Permalink Bookmark एतद् एव परं ज्ञानं शिव इत्य् अक्षरद्वयम् विचाराद् याति विस्तारं तैलबिन्दुर् इवाम्भसि ॥ ▼ Permalink Bookmark सकृद् उच्चारितं येन शिव इत्य् अक्षरद्वयम् बद्धः परिकरस् तेन मोक्षोपगमनं प्रति ॥ ▼ Permalink Bookmark द्व्यक्षरः शिवमन्त्रो ऽयं शिवोपनिषदि स्मृतः एकाक्षरः पुनश् चायम् ॐ इत्य् एवं व्यवस्थितः ॥ ▼ Permalink Bookmark नामसंकीर्तणाद् एव शिवस्याशेषपातकैः यतः प्रमुच्यते क्षिप्रं मन्त्रो ऽयं द्व्यक्षरः परः ॥ ▼ Permalink Bookmark यः शिवं शिवम् इत्य् एवं द्व्यक्षरं मन्त्रम् अभ्यसेत् एकाक्षरं वा सततं स याति परमं पदम् ॥ ▼ Permalink Bookmark मित्रस्वजनबन्धूनां कुर्यान् नाम शिवात्मकम् अपि तत् कीर्तनाद् याति पापमुक्तः शिवं पुरम् ॥ ▼ Permalink Bookmark विज्ञेयः स शिवः शान्तो नरस् तद्भावभावितः आस्ते सदा निरुद्विग्नः स देहान्ते विमुच्यते ॥ ▼ Permalink Bookmark हृद्य् अन्तःकरणं ज्ञेयं शिवस्य आयतनं परम् हृत्पद्मं वेदिका तत्र लिङ्गम् ओंकारम् इष्यते ॥ ▼ Permalink Bookmark पुरुषः स्थापको ज्ञेयः सत्यं संमार्जनं स्मृतम् अहिंसा गोमयं प्रोक्तं शान्तिश् च सलिलं परम् ॥ ▼ Permalink Bookmark कुर्यात् संमार्जनं प्राज्ञो वैराग्यं चन्दनं स्मृतम् पूजयेद् ध्यानयोगेन संतोषैः कुसुमैः सितैः ॥ ▼ Permalink Bookmark धूपश् च गुग्गुलुर् देयः प्राणायामसमुद्भवः प्रत्याहारश् च नैवेद्यम् अस्तेयं च प्रदक्षिणम् ॥ ▼ Permalink Bookmark इति दिव्योपचारैश् च संपूज्य परमं शिवम् जपेद् ध्यायेच् च मुक्त्यर्थं सर्वसङ्गविवर्जितः ॥ ▼ Permalink Bookmark ज्ञानयोगविनिर्मुक्तः कर्मयोगसमावृत्तः मृतः शिवपुरं गच्छेत् स तेन शिवकर्मणा ॥ ▼ Permalink Bookmark तत्र भुक्त्वा महाभोगान् प्रलये सर्वदेहिनाम् शिवधर्माच् छिवज्ञानं प्राप्य मुक्तिम् अवाप्नुयात् ॥ ▼ Permalink Bookmark ज्ञानयोगेन मुच्यन्ते देहपाताद् अनन्तरम् भोगान् भुक्त्वा च मुच्यन्ते प्रलये कर्मयोगिनः ॥ ▼ Permalink Bookmark तस्माज् ज्ञानविदो योगात् तथाज्ञाः कर्मयोगिनः सर्व एव विमुच्यन्ते ये नराः शिवम् आश्रिताः ॥ ▼ Permalink Bookmark स भोगः शिवविद्यार्थं येषां कर्मास्ति निर्मलम् ते भोगान् प्राप्य मुच्यन्ते प्रलये शिवविद्यया ॥ ▼ Permalink Bookmark विद्या संकीर्तनीया हि येषां कर्म न विद्यते ते चावर्त्य विमुच्यन्ते यावत् कर्म न तद् भवेत् ॥ ▼ Permalink Bookmark शिवज्ञानविदं तस्मात् पूजयेद् विभवैर् गुरुम् विद्यादानं च कुर्वीत भोगमोक्षजिगीषया ॥ ▼ Permalink Bookmark शिवयोगी शिवज्ञानी शिवजापी तपोऽधिकः क्रमशः कर्मयोगी च पञ्चैते मुक्तिभाजनाः ॥ ▼ Permalink Bookmark कर्मयोगस्य यन् मूलं तद् वक्ष्यामि समासतः लिङ्गम् आयतनं चेति तत्र कर्म प्रवर्तते ॥ ▼ Permalink Bookmark ॥ इति शिवोपनिषदि मुक्तिनिर्देशाध्यायः प्रथमः ॥ ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha