Click on words to see what they mean.

तां कथामिलसंबद्धां रामेण समुदीरिताम् ।लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥ १ ॥
तौ रामं प्राञ्जलीभूत्वा तस्य राज्ञो महात्मनः ।विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥ २ ॥
कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिम् ।पुरुषो वा यदा भूतः कां वृत्तिं वर्तयत्यसौ ॥ ३ ॥
तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् ।कथयामास काकुत्ष्ठस्तस्य राज्ञो यथा गतम् ॥ ४ ॥
तमेव प्रथमं मासं स्त्रीभूत्वा लोकसुन्दरी ।ताभिः परिवृता स्त्रीभिर्येऽस्य पूर्वं पदानुगाः ॥ ५ ॥
तत्काननं विगाह्याशु विजह्रे लोकसुन्दरी ।द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ॥ ६ ॥
वाहनानि च सर्वाणि संत्यक्त्वा वै समन्ततः ।पर्वताभोगविवरे तस्मिन्रेमे इला तदा ॥ ७ ॥
अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः ।सरः सुरुचिरप्रख्यं नानापक्षिगणायुतम् ॥ ८ ॥
ददर्श सा इला तस्मिन्बुधं सोमसुतं तदा ।ज्वलन्तं स्वेन वपुषा पूर्णं सोममिवोदितम् ॥ ९ ॥
तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् ।यशक्सरं कामगमं तारुण्ये पर्यवस्थितम् ॥ १० ॥
सा तं जलाशयं सर्वं क्षोभयामास विस्मिता ।सह तैः पूर पुरुषैः स्त्रीभूतै रघुनन्दन ॥ ११ ॥
बुधस्तु तां निरीक्ष्यैव कामबाणाभिपीडितः ।नोपलेभे तदात्मानं चचाल च तदाम्भसि ॥ १२ ॥
इलां निरीक्षमाणः स त्रैलोक्याभ्यधिकां शुभाम् ।चिन्तां समभ्यतिक्रामत्का न्वियं देवताधिका ॥ १३ ॥
न देवीषु न नागीषु नासुरीष्वप्सरःसु च ।दृष्टपूर्वा मया काचिद्रूपेणैतेन शोभिता ॥ १४ ॥
सदृशीयं मम भवेद्यदि नान्यपरिग्रहा ।इति बुद्धिं समास्थाय जलात्स्थलमुपागमत् ॥ १५ ॥
स आश्रमं समुपागम्य चतस्रः प्रमदास्ततः ।शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ॥ १६ ॥
स ताः पप्रच्छ धर्मात्म कस्यैषा लोकसुन्दरी ।किमर्थमागता चेह सत्यमाख्यात माचिरम् ॥ १७ ॥
शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् ।श्रुत्वा तु ताः स्त्रियः सर्वा ऊचुर्मधुरया गिरा ॥ १८ ॥
अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा ।अपतिः काननान्तेषु सहास्माभिरटत्यसौ ॥ १९ ॥
तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य तु ।विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ॥ २० ॥
सोऽर्थं विदित्वा निखिलं तस्य राज्ञो यथागतम् ।सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुंगवः ॥ २१ ॥
अत्र किं पुरुषा भद्रा अवसञ्शैलरोधसि ।वत्स्यथास्मिन्गिरौ यूयमवकाशो विधीयताम् ॥ २२ ॥
मूलपुत्रफलैः सर्वा वर्तयिष्यथ नित्यदा ।स्त्रियः किम्पुरुषान्नाम भर्तॄन्समुपलप्स्यथ ॥ २३ ॥
ताः श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः ।उपासां चक्रिरे शैलं बह्व्यस्ता बहुधा तदा ॥ २४ ॥
« »