Click on words to see what they mean.

अपृच्छत ततो रामो दक्षिणाशालयं मुनिम् ।प्राञ्जलिर्विनयोपेत इदमाह वचोऽर्थवत् ॥ १ ॥
अतुलं बलमेताभ्यां वालिनो रावणस्य च ।न त्वेतौ हनुमद्वीर्यैः समाविति मतिर्मम ॥ २ ॥
शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् ।विक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥ ३ ॥
दृष्ट्वोदधिं विषीदन्तीं तदैष कपिवाहिनीम् ।समाश्वास्य कपीन्भूयो योजनानां शतं प्लुतः ॥ ४ ॥
धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तथा ।दृष्ट्वा संभाषिता चापि सीता विश्वासिता तथा ॥ ५ ॥
सेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः ।एते हनुमता तत्र एकेन विनिपातिताः ॥ ६ ॥
भूयो बन्धाद्विमुक्तेन संभाषित्वा दशाननम् ।लङ्का भस्मीकृता तेन पावकेनेव मेदिनी ॥ ७ ॥
न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च ।कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ ८ ॥
एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः ।प्राप्तो मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥ ९ ॥
हनूमान्यदि मे न स्याद्वानराधिपतेः सखा ।प्रवृत्तमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥ १० ॥
किमर्थं वाली चैतेन सुग्रीवप्रियकाम्यया ।तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥ ११ ॥
न हि वेदितवान्मन्ये हनूमानात्मनो बलम् ।यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥ १२ ॥
एतन्मे भगवन्सर्वं हनूमति महामुने ।विस्तरेण यथातत्त्वं कथयामरपूजित ॥ १३ ॥
राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्ततः ।हनूमतः समक्षं तमिदं वचनमब्रवीत् ॥ १४ ॥
सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः ।न बले विद्यते तुल्यो न गतौ न मतौ परः ॥ १५ ॥
अमोघशापैः शापस्तु दत्तोऽस्य ऋषिभिः पुरा ।न वेदिता बलं येन बली सन्नरिमर्दनः ॥ १६ ॥
बाल्येऽप्येतेन यत्कर्म कृतं राम महाबल ।तन्न वर्णयितुं शक्यमतिबालतयास्य ते ॥ १७ ॥
यदि वास्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव ।समाधाय मतिं राम निशामय वदाम्यहम् ॥ १८ ॥
सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः ।यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥ १९ ॥
तस्य भार्या बभूवेष्टा ह्यञ्जनेति परिश्रुता ।जनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥ २० ॥
शालिशूकसमाभासं प्रासूतेमं तदाञ्जना ।फलान्याहर्तुकामा वै निष्क्रान्ता गहने चरा ॥ २१ ॥
एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः ।रुरोद शिशुरत्यर्थं शिशुः शरभराडिव ॥ २२ ॥
ततोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् ।ददृशे फललोभाच्च उत्पपात रविं प्रति ॥ २३ ॥
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् ।ग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः ॥ २४ ॥
एतस्मिन्प्लवमाने तु शिशुभावे हनूमति ।देवदानवसिद्धानां विस्मयः सुमहानभूत् ॥ २५ ॥
नाप्येवं वेगवान्वायुर्गरुडो न मनस्तथा ।यथायं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥ २६ ॥
यदि तावच्छिशोरस्य ईदृशौ गतिविक्रमौ ।यौवनं बलमासाद्य कथं वेगो भविष्यति ॥ २७ ॥
तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः ।सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ॥ २८ ॥
बहुयोजनसाहस्रं क्रमत्येष ततोऽम्बरम् ।पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥ २९ ॥
शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः ।कार्यं चात्र समायत्तमित्येवं न ददाह सः ॥ ३० ॥
यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः ।तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥ ३१ ॥
अनेन च परामृष्टो राम सूर्यरथोपरि ।अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥ ३२ ॥
स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः ।अब्रवीद्भ्रुकुटीं कृत्वा देवं देवगणैर्वृतम् ॥ ३३ ॥
बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव ।किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ॥ ३४ ॥
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः ।अथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥ ३५ ॥
स राहोर्वचनं श्रुत्वा वासवः संभ्रमान्वितः ।उत्पपातासनं हित्वा उद्वहन्काञ्चनस्रजम् ॥ ३६ ॥
ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् ।शृङ्गारकारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥ ३७ ॥
इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् ।प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ॥ ३८ ॥
अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् ।अनेन च स वै दृष्ट आधावञ्शैलकूटवत् ॥ ३९ ॥
ततः सूर्यं समुत्सृज्य राहुमेवमवेक्ष्य च ।उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥ ४० ॥
उत्सृज्यार्कमिमं राम आधावन्तं प्लवंगमम् ।दृष्ट्वा राहुः परावृत्य मुखशेषः पराङ्मुखः ॥ ४१ ॥
इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः ।इन्द्र इन्द्रेति संत्रासान्मुहुर्मुहुरभाषत ॥ ४२ ॥
राहोर्विक्रोशमानस्य प्रागेवालक्षितः स्वरः ।श्रुत्वेन्द्रोवाच मा भैषीरयमेनं निहन्म्यहम् ॥ ४३ ॥
ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि ।फलं तं हस्तिराजानमभिदुद्राव मारुतिः ॥ ४४ ॥
तदास्य धावतो रूपमैरावतजिघृक्षया ।मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ॥ ४५ ॥
एवमाधावमानं तु नातिक्रुद्धः शचीपतिः ।हस्तान्तेनातिमुक्तेन कुलिशेनाभ्यताडयत् ॥ ४६ ॥
ततो गिरौ पपातैष इन्द्रवज्राभिताडितः ।पतमानस्य चैतस्य वामो हनुरभज्यत ॥ ४७ ॥
तस्मिंस्तु पतिते बाले वज्रताडनविह्वले ।चुक्रोधेन्द्राय पवनः प्रजानामशिवाय च ॥ ४८ ॥
विण्मूत्राशयमावृत्य प्रजास्वन्तर्गतः प्रभुः ।रुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥ ४९ ॥
वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः ।संधिभिर्भज्यमानानि काष्ठभूतानि जज्ञिरे ॥ ५० ॥
निःस्वधं निर्वषट्कारं निष्क्रियं धर्मवर्जितम् ।वायुप्रकोपात्त्रैलोक्यं निरयस्थमिवाबभौ ॥ ५१ ॥
ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः ।प्रजापतिं समाधावन्नसुखार्ताः सुखैषिणः ॥ ५२ ॥
ऊचुः प्राञ्जलयो देवा दरोदरनिभोदराः ।त्वया स्म भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥ ५३ ॥
त्वया दत्तोऽयमस्माकमायुषः पवनः पतिः ।सोऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम ॥ ५४ ॥
रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः ।तस्मात्त्वां शरणं प्राप्ता वायुनोपहता विभो ॥ ५५ ॥
वायुसंरोधजं दुःखमिदं नो नुद शत्रुहन् ॥ ५६ ॥
एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः ।कारणादिति तानुक्त्वा प्रजाः पुनरभाषत ॥ ५७ ॥
यस्मिन्वः कारणे वायुश्चुक्रोध च रुरोध च ।प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ॥ ५८ ॥
पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः ।राहोर्वचनमाज्ञाय राज्ञा वः कोपितोऽनिलः ॥ ५९ ॥
अशरीरः शरीरेषु वायुश्चरति पालयन् ।शरीरं हि विना वायुं समतां याति रेणुभिः ॥ ६० ॥
वायुः प्राणाः सुखं वायुर्वायुः सर्वमिदं जगत् ।वायुना संपरित्यक्तं न सुखं विन्दते जगत् ॥ ६१ ॥
अद्यैव च परित्यक्तं वायुना जगदायुषा ।अद्यैवेमे निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ॥ ६२ ॥
तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि वः ।मा विनाशं गमिष्याम अप्रसाद्यादितेः सुतम् ॥ ६३ ॥
ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजंगगुह्यकः ।जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥ ६४ ॥
ततोऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः ।चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवसिद्धर्षिभुजंगराक्षसः ॥ ६५ ॥
« »