Click on words to see what they mean.

सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् ।विद्रुतं चापि स्वं सैन्यं लक्षयित्वार्दितं शरैः ॥ १ ॥
ततः स बलवान्क्रुद्धो रावणस्य सुतो युधि ।निवर्त्य राक्षसान्सर्वान्मेघनादो व्यतिष्ठत ॥ २ ॥
स रथेनाग्निवर्णेन कामगेन महारथः ।अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥ ३ ॥
ततः प्रविशतस्तस्य विविधायुधधारिणः ।विदुद्रुवुर्दिशः सर्वा देवास्तस्य च दर्शनात् ॥ ४ ॥
न तत्रावस्थितः कश्चिद्रणे तस्य युयुत्सतः ।सर्वानाविध्य वित्रस्तान्दृष्ट्वा शक्रोऽभ्यभाषत ॥ ५ ॥
न भेतव्यं न गन्तव्यं निवर्तध्वं रणं प्रति ।एष गच्छति मे पुत्रो युद्धार्थमपराजितः ॥ ६ ॥
ततः शक्रसुतो देवो जयन्त इति विश्रुतः ।रथेनाद्भुतकल्पेन संग्राममभिवर्तत ॥ ७ ॥
ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् ।रावणस्य सुतं युद्धे समासाद्य व्यवस्थिताः ॥ ८ ॥
तेषां युद्धं महदभूत्सदृशं देवरक्षसाम् ।कृते महेन्द्रपुत्रस्य राक्षसेन्द्रसुतस्य च ॥ ९ ॥
ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः ।सारथौ पातयामास शरान्काञ्चनभूषणान् ॥ १० ॥
शचीसुतस्त्वपि तथा जयन्तस्तस्य सारथिम् ।तं चैव रावणिं क्रुद्धः प्रत्यविध्यद्रणाजिरे ॥ ११ ॥
ततः क्रुद्धो महातेजा रक्षो विस्फारितेक्षणः ।रावणिः शक्रपुत्रं तं शरवर्षैरवाकिरत् ॥ १२ ॥
ततः प्रगृह्य शस्त्राणि सारवन्ति महान्ति च ।शतघ्नीस्तोमरान्प्रासान्गदाखड्गपरश्वधान् ।सुमहान्त्यद्रिशृङ्गाणि पातयामास रावणिः ॥ १३ ॥
ततः प्रव्यथिता लोकाः संजज्ञे च तमो महत् ।तस्य रावणपुत्रस्य तदा शत्रूनभिघ्नतः ॥ १४ ॥
ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् ।बहुप्रकारमस्वस्थं तत्र तत्र स्म धावति ॥ १५ ॥
नाभ्यजानंस्तदान्योन्यं शत्रून्वा दैवतानि वा ।तत्र तत्र विपर्यस्तं समन्तात्परिधावितम् ॥ १६ ॥
एतस्मिन्नन्तरे शूरः पुलोमा नाम वीर्यवान् ।दैतेयस्तेन संगृह्य शचीपुत्रोऽपवाहितः ॥ १७ ॥
गृहीत्वा तं तु नप्तारं प्रविष्टः स महोदधिम् ।मातामहोऽर्यकस्तस्य पौलोमी येन सा शची ॥ १८ ॥
प्रणाशं दृश्य तु सुरा जयन्तस्यातिदारुणम् ।व्यथिताश्चाप्रहृष्टाश्च समन्ताद्विप्रदुद्रुवुः ॥ १९ ॥
रावणिस्त्वथ संहृष्टो बलैः परिवृतः स्वकैः ।अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ॥ २० ॥
दृष्ट्वा प्रणाशं पुत्रस्य रावणेश्चापि विक्रमम् ।मातलिं प्राह देवेन्द्रो रथः समुपनीयताम् ॥ २१ ॥
स तु दिव्यो महाभीमः सज्ज एव महारथः ।उपस्थितो मातलिना वाह्यमानो मनोजवः ॥ २२ ॥
ततो मेघा रथे तस्मिंस्तडिद्वन्तो महास्वनाः ।अग्रतो वायुचपला गच्छन्तो व्यनदंस्तदा ॥ २३ ॥
नानावाद्यानि वाद्यन्त स्तुतयश्च समाहिताः ।ननृतुश्चाप्सरःसंघाः प्रयाते वासवे रणम् ॥ २४ ॥
रुद्रैर्वसुभिरादित्यैः साध्यैश्च समरुद्गणैः ।वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ॥ २५ ॥
निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ ।भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ॥ २६ ॥
एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् ।आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ॥ २७ ॥
पन्नगैः सुमहाकायैर्वेष्टितं लोमहर्षणैः ।येषां निश्वासवातेन प्रदीप्तमिव संयुगम् ॥ २८ ॥
दैत्यैर्निशाचरैः शूरै रथः संपरिवारितः ।समराभिमुखो दिव्यो महेन्द्रमभिवर्तत ॥ २९ ॥
पुत्रं तं वारयित्वासौ स्वयमेव व्यवस्थितः ।सोऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ॥ ३० ॥
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह ।शस्त्राभिवर्षणं घोरं मेघानामिव संयुगे ॥ ३१ ॥
कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः ।नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ॥ ३२ ॥
दन्तैर्भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः ।येन केनैव संरब्धस्ताडयामास वै सुरान् ॥ ३३ ॥
ततो रुद्रैर्महाभागैः सहादित्यैर्निशाचरः ।प्रयुद्धस्तैश्च संग्रामे कृत्तः शस्त्रैर्निरन्तरम् ॥ ३४ ॥
ततस्तद्राक्षसं सैन्यं त्रिदशैः समरुद्गणैः ।रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ॥ ३५ ॥
केचिद्विनिहताः शस्त्रैर्वेष्टन्ति स्म महीतले ।वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ॥ ३६ ॥
रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगांस्तथा ।शिंशुमारान्वराहांश्च पिशाचवदनांस्तथा ॥ ३७ ॥
तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रिताः ।देवैस्तु शस्त्रसंविद्धा मम्रिरे च निशाचराः ॥ ३८ ॥
चित्रकर्म इवाभाति स तेषां रणसंप्लवः ।निहतानां प्रमत्तानां राक्षसानां महीतले ॥ ३९ ॥
शोणितोदक निष्यन्दाकङ्कगृध्रसमाकुला ।प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥ ४० ॥
एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् ।निरीक्ष्य तद्बलं सर्वं दैवतैर्विनिपातितम् ॥ ४१ ॥
स तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम् ।त्रिदशान्समरे निघ्नञ्शक्रमेवाभ्यवर्तत ॥ ४२ ॥
ततः शक्रो महच्चापं विस्फार्य सुमहास्वनम् ।यस्य विस्फारघोषेण स्वनन्ति स्म दिशो दश ॥ ४३ ॥
तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि ।निपातयामास शरान्पावकादित्यवर्चसः ॥ ४४ ॥
तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः ।शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥ ४५ ॥
प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः ।नाज्ञायत तदा किंचित्सर्वं हि तमसा वृतम् ॥ ४६ ॥
« »