Click on words to see what they mean.

ततस्तमसि संजाते राक्षसा दैवतैः सह ।अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ॥ १ ॥
ततस्तु देवसैन्येन राक्षसानां महद्बलम् ।दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥ २ ॥
तस्मिंस्तु तमसा नद्धे सर्वे ते देवराक्षसाः ।अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ॥ ३ ॥
इन्द्रश्च रावणश्चैव रावणिश्च महाबलः ।तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ॥ ४ ॥
स तु दृष्ट्वा बलं सर्वं निहतं रावणो रणे ।क्रोधमभ्यागमत्तीव्रं महानादं च मुक्तवान् ॥ ५ ॥
क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह ।परसैन्यस्य मध्येन यावदन्तं नयस्व माम् ॥ ६ ॥
अद्यैतांस्त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् ।नानाशस्त्रैर्महासारैर्नाशयामि नभस्तलात् ॥ ७ ॥
अहमिन्द्रं वधिष्यामि वरुणं धनदं यमम् ।त्रिदशान्विनिहत्याशु स्वयं स्थास्याम्यथोपरि ॥ ८ ॥
विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ।द्विः खलु त्वां ब्रवीम्यद्य यावदन्तं नयस्व माम् ॥ ९ ॥
अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् ।नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ॥ १० ॥
तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान् ।आदिदेशाथ शत्रूणां मध्येनैव च सारथिः ॥ ११ ॥
तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा ।रथस्थः समरस्थांस्तान्देवान्वाक्यमथाब्रवीत् ॥ १२ ॥
सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते ।जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ॥ १३ ॥
एष ह्यतिबलः सैन्ये रथेन पवनौजसा ।गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ॥ १४ ॥
न ह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः ।तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ॥ १५ ॥
यथा बलिं निगृह्यैतत्त्रैलोक्यं भुज्यते मया ।एवमेतस्य पापस्य निग्रहो मम रोचते ॥ १६ ॥
ततोऽन्यं देशमास्थाय शक्रः संत्यज्य रावणम् ।अयुध्यत महातेजा राक्षसान्नाशयन्रणे ॥ १७ ॥
उत्तरेण दशग्रीवः प्रविवेशानिवर्तितः ।दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ॥ १८ ॥
ततः स योजनशतं प्रविष्टो राक्षसाधिपः ।देवतानां बलं कृत्स्नं शरवर्षैरवाकिरत् ॥ १९ ॥
ततः शक्रो निरीक्ष्याथ प्रविष्टं तं बलं स्वकम् ।न्यवर्तयदसंभ्रान्तः समावृत्य दशाननम् ॥ २० ॥
एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः ।हा हताः स्मेति तं दृष्ट्वा ग्रस्तं शक्रेण रावणम् ॥ २१ ॥
ततो रथं समारुह्य रावणिः क्रोधमूर्छितः ।तत्सैन्यमतिसंक्रुद्धः प्रविवेश सुदारुणम् ॥ २२ ॥
स तां प्रविश्य मायां तु दत्तां गोपतिना पुरा ।अदृश्यः सर्वभूतानां तत्सैन्यं समवाकिरत् ॥ २३ ॥
ततः स देवान्संत्यज्य शक्रमेवाभ्ययाद्द्रुतम् ।महेन्द्रश्च महातेजा न ददर्श सुतं रिपोः ॥ २४ ॥
स मातलिं हयांश्चैव ताडयित्वा शरोत्तमैः ।महेन्द्रं बाणवर्षेण शीघ्रहस्तो ह्यवाकिरत् ॥ २५ ॥
ततः शक्रो रथं त्यक्त्व विसृज्य च स मातलिम् ।ऐरावतं समारुह्य मृगयामास रावणिम् ॥ २६ ॥
स तु माया बलाद्रक्षः संग्रामे नाभ्यदृश्यत ।किरमाणः शरौघेन महेन्द्रममितौजसं ॥ २७ ॥
स तं यदा परिश्रान्तमिन्द्रं मेनेऽथ रावणिः ।तदैनं मायया बद्ध्वा स्वसैन्यमभितोऽनयत् ॥ २८ ॥
तं दृष्ट्वाथ बलात्तस्मिन्माययापहृतं रणे ।महेन्द्रममराः सर्वे किं न्वेतदिति चुक्रुशुः ।न हि दृश्यति विद्यावान्मायया येन नीयते ॥ २९ ॥
एतस्मिन्नन्तरे चापि सर्वे सुरगणास्तदा ।अभ्यद्रवन्सुसंक्रुद्धा रावणं शस्त्रवृष्टिभिः ॥ ३० ॥
रावणस्तु समासाद्य वस्वादित्यमरुद्गणान् ।न शशाक रणे स्थातुं न योद्धुं शस्त्रपीडितः ॥ ३१ ॥
तं तु दृष्ट्वा परिश्रान्तं प्रहारैर्जर्जरच्छविम् ।रावणिः पितरं युद्धेऽदर्शनस्थोऽब्रवीदिदम् ॥ ३२ ॥
आगच्छ तात गच्छावो निवृत्तं रणकर्म तत् ।जितं ते विदितं भोऽस्तु स्वस्थो भव गतज्वरः ॥ ३३ ॥
अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः ।स गृहीतो मया शक्रो भग्नमानाः सुराः कृताः ॥ ३४ ॥
यथेष्टं भुङ्क्ष्व त्रैलोक्यं निगृह्य रिपुमोजसा ।वृथा ते किं श्रमं कृत्वा युद्धं हि तव निष्फलम् ॥ ३५ ॥
स दैवतबलात्तस्मान्निवृत्तो रणकर्मणः ।तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेता दशाननः ॥ ३६ ॥
अथ रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः ।भवनमभि ततो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ॥ ३७ ॥
अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् ।यदमरसमविक्रम त्वया त्रिदशपतिस्त्रिदशाश्च निर्जिताः ॥ ३८ ॥
त्वरितमुपनयस्व वासवं नगरमितो व्रज सैन्यसंवृतः ।अहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ॥ ३९ ॥
अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः ।स्वभवनमुपगम्य राक्षसो मुदितमना विससर्ज राक्षसान् ॥ ४० ॥
« »