Click on words to see what they mean.

कैलासं लङ्घयित्वाथ दशग्रीवः सराक्षसः ।आससाद महातेजा इन्द्रलोकं निशाचरः ॥ १ ॥
तस्य राक्षससैन्यस्य समन्तादुपयास्यतः ।देवलोकं ययौ शब्दो भिद्यमानार्णवोपमः ॥ २ ॥
श्रुत्वा तु रावणं प्राप्तमिन्द्रः संचलितासनः ।अब्रवीत्तत्र तान्देवान्सर्वानेव समागतान् ॥ ३ ॥
आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान् ।सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ॥ ४ ॥
एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि ।संनह्यन्त महासत्त्वा युद्धश्रद्धासमन्विताः ॥ ५ ॥
स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति ।विष्णोः समीपमागत्य वाक्यमेतदुवाच ह ॥ ६ ॥
विष्णो कथं करिष्यामो महावीर्यपराक्रम ।असौ हि बलवान्रक्षो युद्धार्थमभिवर्तते ॥ ७ ॥
वरप्रदानाद्बलवान्न खल्वन्येन हेतुना ।तच्च सत्यं हि कर्तव्यं वाक्यं देव प्रजापतेः ॥ ८ ॥
तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ ।त्वन्मतं समवष्टभ्य यथा दग्धास्तथा कुरु ॥ ९ ॥
न ह्यन्यो देव देवानामापत्सु सुमहाबल ।गतिः परायणं वास्ति त्वामृते पुरुषोत्तम ॥ १० ॥
त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः ।त्वयाहं स्थापितश्चैव देवराज्ये सनातने ॥ ११ ॥
तदाख्याहि यथातत्त्वं देवदेव मम स्वयम् ।असिचक्रसहायस्त्वं युध्यसे संयुगे रिपुम् ॥ १२ ॥
एवमुक्तः स शक्रेण देवो नारायणः प्रभुः ।अब्रवीन्न परित्रासः कार्यस्ते श्रूयतां च मे ॥ १३ ॥
न तावदेष दुर्वृत्तः शक्यो दैवतदानवैः ।हन्तुं युधि समासाद्य वरदानेन दुर्जयः ॥ १४ ॥
सर्वथा तु महत्कर्म करिष्यति बलोत्कटः ।रक्षः पुत्रसहायोऽसौ दृष्टमेतन्निसर्गतः ॥ १५ ॥
ब्रवीषि यत्तु मां शक्र संयुगे योत्स्यसीति ह ।नैवाहं प्रतियोत्स्ये तं रावणं राक्षसाधिपम् ॥ १६ ॥
अनिहत्य रिपुं विष्णुर्न हि प्रतिनिवर्तते ।दुर्लभश्चैष कामोऽद्य वरमासाद्य राक्षसे ॥ १७ ॥
प्रतिजानामि देवेन्द्र त्वत्समीपं शतक्रतो ।राक्षसस्याहमेवास्य भविता मृत्युकारणम् ॥ १८ ॥
अहमेनं वधिष्यामि रावणं ससुतं युधि ।देवतास्तोषयिष्यामि ज्ञात्वा कालमुपस्थितम् ॥ १९ ॥
एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये ।तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ॥ २० ॥
अथ युद्धं समभवद्देवराक्षसयोस्तदा ।घोरं तुमुलनिर्ह्रादं नानाप्रहरणायुधम् ॥ २१ ॥
एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः ।युद्धार्थमभ्यधावन्त सचिवा रावणाज्ञया ॥ २२ ॥
मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ ।अकम्पनो निकुम्भश्च शुकः सारण एव च ॥ २३ ॥
संह्रादिर्धूमकेतुश्च महादंष्ट्रो महामुखः ।जम्बुमाली महामाली विरूपाक्षश्च राक्षसः ॥ २४ ॥
एतैः सर्वैर्महावीर्यैर्वृतो राक्षसपुंगवः ।रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह ॥ २५ ॥
स हि देवगणान्सर्वान्नानाप्रहरणैः शितैः ।विध्वंसयति संक्रुद्धः सह तैः क्षणदाचरैः ॥ २६ ॥
एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः ।सावित्र इति विख्यातः प्रविवेश महारणम् ॥ २७ ॥
ततो युद्धं समभवत्सुराणां राक्षसैः सह ।क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ॥ २८ ॥
ततस्ते राक्षसाः शूरा देवांस्तान्समरे स्थितान् ।नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ॥ २९ ॥
सुरास्तु राक्षसान्घोरान्महावीर्यान्स्वतेजसा ।समरे विविधैः शस्त्रैरनयन्यमसादनम् ॥ ३० ॥
एतस्मिन्नन्तरे शूरः सुमाली नाम राक्षसः ।नानाप्रहरणैः क्रुद्धो रणमेवाभ्यवर्तत ॥ ३१ ॥
देवानां तद्बलं सर्वं नानाप्रहरणैः शितैः ।विध्वंसयति संक्रुद्धो वायुर्जलधरानिव ॥ ३२ ॥
ते महाबाणवर्षैश्च शूलैः प्रासैश्च दारुणैः ।पीड्यमानाः सुराः सर्वे न व्यतिष्ठन्समाहिताः ॥ ३३ ॥
ततो विद्राव्यमाणेषु त्रिदशेषु सुमालिना ।वसूनामष्टमो देवः सावित्रो व्यवतिष्ठत ॥ ३४ ॥
संवृतः स्वैरनीकैस्तु प्रहरन्तं निशाचरम् ।विक्रमेण महातेजा वारयामास संयुगे ॥ ३५ ॥
सुमत्तयोस्तयोरासीद्युद्धं लोके सुदारुणम् ।सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः ॥ ३६ ॥
ततस्तस्य महाबाणैर्वसुना सुमहात्मना ।महान्स पन्नगरथः क्षणेन विनिपातितः ॥ ३७ ॥
हत्वा तु संयुगे तस्य रथं बाणशतैः शितैः ।गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ॥ ३८ ॥
तां प्रदीप्तां प्रगृह्याशु कालदण्डनिभां शुभाम् ।तस्य मूर्धनि सावित्रः सुमालेर्विनिपातयत् ॥ ३९ ॥
तस्य मूर्धनि सोल्काभा पतन्ती च तदा बभौ ।सहस्राक्षसमुत्सृष्टा गिराविव महाशनिः ॥ ४० ॥
तस्य नैवास्थि कायो वा न मांसं ददृशे तदा ।गदया भस्मसाद्भूतो रणे तस्मिन्निपातितः ॥ ४१ ॥
तं दृष्ट्वा निहतं संख्ये राक्षसास्ते समन्ततः ।दुद्रुवुः सहिताः सर्वे क्रोशमाना महास्वनम् ॥ ४२ ॥
« »