Click on words to see what they mean.

प्रविष्टायां हुताशं तु वेदवत्यां स रावणः ।पुष्पकं तत्समारुह्य परिचक्राम मेदिनीम् ॥ १ ॥
ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः ।उशीरबीजमासाद्य ददर्श स तु राक्षसः ॥ २ ॥
संवर्तो नाम ब्रह्मर्षिर्भ्राता साक्षाद्बृहस्पतेः ।याजयामास धर्मज्ञः सर्वैर्ब्रह्मगणैर्वृतः ॥ ३ ॥
दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् ।तां तां योनिं समापन्नास्तस्य धर्षणभीरवः ॥ ४ ॥
इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः ।कृकलासो धनाध्यक्षो हंसो वै वरुणोऽभवत् ॥ ५ ॥
तं च राजानमासाद्य रावणो राक्षसाधिपः ।प्राह युद्धं प्रयच्चेति निर्जितोऽस्मीति वा वद ॥ ६ ॥
ततो मरुत्तो नृपतिः को भवानित्युवाच तम् ।अवहासं ततो मुक्त्वा राक्षसो वाक्यमब्रवीत् ॥ ७ ॥
अकुतूहलभावेन प्रीतोऽस्मि तव पार्थिव ।धनदस्यानुजं यो मां नावगच्छसि रावणम् ॥ ८ ॥
त्रिषु लोकेषु कः सोऽस्ति यो न जानाति मे बलम् ।भ्रातरं येन निर्जित्य विमानमिदमाहृतम् ॥ ९ ॥
ततो मरुत्तो नृपतिस्तं राक्षसमथाब्रवीत् ।धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः ॥ १० ॥
नाधर्मसहितं श्लाघ्यं न लोकप्रतिसंहितम् ।कर्म दौरात्म्यकं कृत्वा श्लाघसे भ्रातृनिर्जयात् ॥ ११ ॥
किं त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् ।श्रुतपूर्वं हि न मया यादृशं भाषसे स्वयम् ॥ १२ ॥
ततः शरासनं गृह्य सायकांश्च स पार्थिवः ।रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ॥ १३ ॥
सोऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः ।श्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः ॥ १४ ॥
माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ।दीक्षितस्य कुतो युद्धं क्रूरत्वं दीक्षिते कुतः ॥ १५ ॥
संशयश्च रणे नित्यं राक्षसश्चैष दुर्जयः ।स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः ।विसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत् ॥ १६ ॥
ततस्तं निर्जितं मत्वा घोषयामास वै शुकः ।रावणो जितवांश्चेति हर्षान्नादं च मुक्तवान् ॥ १७ ॥
तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् ।वितृप्तो रुधिरैस्तेषां पुनः संप्रययौ महीम् ॥ १८ ॥
रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः ।ततः स्वां योनिमासाद्य तानि सत्त्वान्यथाब्रुवन् ॥ १९ ॥
हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् ।प्रीतोऽस्मि तव धर्मज्ञ उपकाराद्विहंगम ॥ २० ॥
मम नेत्रसहस्रं यत्तत्ते बर्हे भविष्यति ।वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम् ॥ २१ ॥
नीलाः किल पुरा बर्हा मयूराणां नराधिप ।सुराधिपाद्वरं प्राप्य गताः सर्वे विचित्रताम् ॥ २२ ॥
धर्मराजोऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् ।पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य च वचः शृणु ॥ २३ ॥
यथान्ये विविधै रोगैः पीड्यन्ते प्राणिनो मया ।ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ॥ २४ ॥
मृत्युतस्ते भयं नास्ति वरान्मम विहंगम ।यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ॥ २५ ॥
ये च मद्विषयस्थास्तु मानवाः क्षुधयार्दिताः ।त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ॥ २६ ॥
वरुणस्त्वब्रवीद्धंसं गङ्गातोयविचारिणम् ।श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ॥ २७ ॥
वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसंनिभः ।भविष्यति तवोदग्रः शुक्लफेनसमप्रभः ॥ २८ ॥
मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि ।प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ॥ २९ ॥
हंसानां हि पुरा राम न वर्णः सर्वपाण्डुरः ।पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ॥ ३० ॥
अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् ।हैरण्यं संप्रयच्छामि वर्णं प्रीतिस्तवाप्यहम् ॥ ३१ ॥
सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् ।एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ॥ ३२ ॥
एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः ।निवृत्ते सह राज्ञा वै पुनः स्वभवनं गताः ॥ ३३ ॥
« »