अथ राजन्महाबाहुर्विचरन्स महीतलम् ।हिमवद्वनमासाद्य परिचक्राम रावणः ॥ १ ॥
तत्रापश्यत वै कन्यां कृष्टाजिनजटाधराम् ।आर्षेण विधिना युक्तां तपन्तीं देवतामिव ॥ २ ॥
स दृष्ट्वा रूपसंपन्नां कन्यां तां सुमहाव्रताम् ।काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ॥ ३ ॥
किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते ।न हि युक्ता तवैतस्य रूपस्येयं प्रतिक्रिया ॥ ४ ॥
कस्यासि दुहिता भद्रे को वा भर्ता तवानघे ।पृच्छतः शंस मे शीघ्रं को वा हेतुस्तपोऽर्जने ॥ ५ ॥
एवमुक्ता तु सा कन्या तेनानार्येण रक्षसा ।अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना ॥ ६ ॥
कुशध्वजो नाम पिता ब्रह्मर्षिर्मम धार्मिकः ।बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः ॥ ७ ॥
तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः ।संभूता वान्मयी कन्या नाम्ना वेदवती स्मृता ॥ ८ ॥
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः ।ते चापि गत्वा पितरं वरणं रोचयन्ति मे ॥ ९ ॥
न च मां स पिता तेभ्यो दत्तवान्राक्षसेश्वर ।कारणं तद्वदिष्यामि निशामय महाभुज ॥ १० ॥
पितुस्तु मम जामाता विष्णुः किल सुरोत्तमः ।अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता ॥ ११ ॥
दातुमिच्छति धर्मात्मा तच्छ्रुत्वा बलदर्पितः ।शम्भुर्नाम ततो राजा दैत्यानां कुपितोऽभवत् ।तेन रात्रौ प्रसुप्तो मे पिता पापेन हिंसितः ॥ १२ ॥
ततो मे जननी दीना तच्छरीरं पितुर्मम ।परिष्वज्य महाभागा प्रविष्टा दहनं सह ॥ १३ ॥
ततो मनोरथं सत्यं पितुर्नारायणं प्रति ।करोमीति ममेच्छा च हृदये साधु विष्ठिता ॥ १४ ॥
अहं प्रेतगतस्यापि करिष्ये काङ्क्षितं पितुः ।इति प्रतिज्ञामारुह्य चरामि विपुलं तपः ॥ १५ ॥
एतत्ते सर्वमाख्यातं मया राक्षसपुंगव ।आश्रितां विद्धि मां धर्मं नारायणपतीच्छया ॥ १६ ॥
विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन ।जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ॥ १७ ॥
सोऽब्रवीद्रावणस्तत्र तां कन्यां सुमहाव्रताम् ।अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ॥ १८ ॥
अवलिप्तासि सुश्रोणि यस्यास्ते मतिरीदृशी ।वृद्धानां मृगशावाक्षि भ्राजते धर्मसंचयः ॥ १९ ॥
त्वं सर्वगुणसंपन्ना नार्हसे कर्तुमीदृशम् ।त्रैलोक्यसुन्दरी भीरु यौवने वार्धकं विधिम् ॥ २० ॥
कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे ।वीर्येण तपसा चैव भोगेन च बलेन च ।न मयासौ समो भद्रे यं त्वं कामयसेऽङ्गने ॥ २१ ॥
मा मैवमिति सा कन्या तमुवाच निशाचरम् ।मूर्धजेषु च तां रक्षः कराग्रेण परामृशत् ॥ २२ ॥
ततो वेदवती क्रुद्धा केशान्हस्तेन साच्छिनत् ।उवाचाग्निं समाधाय मरणाय कृतत्वरा ॥ २३ ॥
धर्षितायास्त्वयानार्य नेदानीं मम जीवितम् ।रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ॥ २४ ॥
यस्मात्तु धर्षिता चाहमपापा चाप्यनाथवत् ।तस्मात्तव वधार्थं वै समुत्पत्स्याम्यहं पुनः ॥ २५ ॥
न हि शक्यः स्त्रिया पाप हन्तुं त्वं तु विशेषतः ।शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् ॥ २६ ॥
यदि त्वस्ति मया किंचित्कृतं दत्तं हुतं तथा ।तेन ह्ययोनिजा साध्वी भवेयं धर्मिणः सुता ॥ २७ ॥
एवमुक्त्वा प्रविष्टा सा ज्वलन्तं वै हुताशनम् ।पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ॥ २८ ॥
पूर्वं क्रोधहतः शत्रुर्ययासौ निहतस्त्वया ।समुपाश्रित्य शैलाभं तव वीर्यममानुषम् ॥ २९ ॥
एवमेषा महाभागा मर्त्येषूत्पद्यते पुनः ।क्षेत्रे हलमुखग्रस्ते वेद्यामग्निशिखोपमा ॥ ३० ॥
एषा वेदवती नाम पूर्वमासीत्कृते युगे ।त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः ।सीतोत्पन्नेति सीतैषा मानुषैः पुनरुच्यते ॥ ३१ ॥