Click on words to see what they mean.

स जित्वा भ्रातरं राम धनदं राक्षसाधिपः ।महासेनप्रसूतिं तु ययौ शरवणं ततः ॥ १ ॥
अथापश्यद्दशग्रीवो रौक्मं शरवणं तदा ।गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥ २ ॥
पर्वतं स समासाद्य किंचिद्रम्यवनान्तरम् ।अपश्यत्पुष्पकं तत्र राम विष्टम्भितं दिवि ॥ ३ ॥
विष्टब्धं पुष्पकं दृष्ट्वा कामगं ह्यगमं कृतम् ।राक्षसश्चिन्तयामास सचिवैस्तैः समावृतः ॥ ४ ॥
किमिदं यन्निमित्तं मे न च गच्छति पुष्पकम् ।पर्वतस्योपरिस्थस्य कस्य कर्म त्विदं भवेत् ॥ ५ ॥
ततोऽब्रवीद्दशग्रीवं मारीचो बुद्धिकोविदः ।नैतन्निष्कारणं राजन्पुष्पकोऽयं न गच्छति ॥ ६ ॥
ततः पार्श्वमुपागम्य भवस्यानुचरो बली ।नन्दीश्वर उवाचेदं राक्षसेन्द्रमशङ्कितः ॥ ७ ॥
निवर्तस्व दशग्रीव शैले क्रीडति शंकरः ॥ ८ ॥
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ।प्राणिनामेव सर्वेषामगम्यः पर्वतः कृतः ॥ ९ ॥
स रोषात्ताम्रनयनः पुष्पकादवरुह्य च ।कोऽयं शंकर इत्युक्त्वा शैलमूलमुपागमत् ॥ १० ॥
नन्दीश्वरमथापश्यदविदूरस्थितं प्रभुम् ।दीप्तं शूलमवष्टभ्य द्वितीयमिव शंकरम् ॥ ११ ॥
स वानरमुखं दृष्ट्वा तमवज्ञाय राक्षसः ।प्रहासं मुमुचे मौर्ख्यात्सतोय इव तोयदः ॥ १२ ॥
संक्रुद्धो भगवान्नन्दी शंकरस्यापरा तनुः ।अब्रवीद्राक्षसं तत्र दशग्रीवमुपस्थितम् ॥ १३ ॥
यस्माद्वानरमूर्तिं मां दृष्ट्वा राक्षसदुर्मते ।मौर्ख्यात्त्वमवजानीषे परिहासं च मुञ्चसि ॥ १४ ॥
तस्मान्मद्रूपसंयुक्ता मद्वीर्यसमतेजसः ।उत्पत्स्यन्ते वधार्थं हि कुलस्य तव वानराः ॥ १५ ॥
किं त्विदानीं मया शक्यं कर्तुं यत्त्वां निशाचर ।न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ॥ १६ ॥
अचिन्तयित्वा स तदा नन्दिवाक्यं निशाचरः ।पर्वतं तं समासाद्य वाक्यमेतदुवाच ह ॥ १७ ॥
पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः ।तदेतच्छैलमुन्मूलं करोमि तव गोपते ॥ १८ ॥
केन प्रभावेन भवस्तत्र क्रीडति राजवत् ।विज्ञातव्यं न जानीषे भयस्थानमुपस्थितम् ॥ १९ ॥
एवमुक्त्वा ततो राजन्भुजान्प्रक्षिप्य पर्वते ।तोलयामास तं शैलं समृगव्यालपादपम् ॥ २० ॥
ततो राम महादेवः प्रहसन्वीक्ष्य तत्कृतम् ।पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ॥ २१ ॥
ततस्ते पीडितास्तस्य शैलस्याधो गता भुजाः ।विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ॥ २२ ॥
रक्षसा तेन रोषाच्च भुजानां पीडनात्तथा ।मुक्तो विरावः सुमहांस्त्रैलोक्यं येन पूरितम् ॥ २३ ॥
मानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम् ।देवताश्चापि संक्षुब्धाश्चलिताः स्वेषु कर्मसु ॥ २४ ॥
ततः प्रीतो महादेवः शैलाग्रे विष्ठितस्तदा ।मुक्त्वा तस्य भुजान्राजन्प्राह वाक्यं दशाननम् ॥ २५ ॥
प्रीतोऽस्मि तव वीर्याच्च शौण्डीर्याच्च निशाचर ।रवतो वेदना मुक्तः स्वरः परमदारुणः ॥ २६ ॥
यस्माल्लोकत्रयं त्वेतद्रावितं भयमागतम् ।तस्मात्त्वं रावणो नाम नाम्ना तेन भविष्यसि ॥ २७ ॥
देवता मानुषा यक्षा ये चान्ये जगतीतले ।एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ॥ २८ ॥
गच्छ पौलस्त्य विस्रब्धः पथा येन त्वमिच्छसि ।मया त्वमभ्यनुज्ञातो राक्षसाधिप गम्यताम् ॥ २९ ॥
साक्षान्महेश्वरेणैवं कृतनामा स रावणः ।अभिवाद्य महादेवं विमानं तत्समारुहत् ॥ ३० ॥
ततो महीतले राम परिचक्राम रावणः ।क्षत्रियान्सुमहावीर्यान्बाधमानस्ततस्ततः ॥ ३१ ॥
« »