Click on words to see what they mean.

तौ तथा युध्यमानौ तु समरे रामरावणौ ।ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ॥ १ ॥
अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ ।परस्परवधे युक्तौ घोररूपौ बभूवतुः ॥ २ ॥
मण्डलानि च वीथीश्च गतप्रत्यागतानि च ।दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम् ॥ ३ ॥
अर्दयन्रावणं रामो राघवं चापि रावणः ।गतिवेगं समापन्नौ प्रवर्तन निवर्तने ॥ ४ ॥
क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ ।चेरतुः संयुगमहीं सासारौ जलदाविव ॥ ५ ॥
दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे ।परस्परस्याभिमुखौ पुनरेव च तस्थतुः ॥ ६ ॥
धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् ।पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा ॥ ७ ॥
रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः ।चतुर्भिश्चतुरो दीप्तान्हयान्प्रत्यपसर्पयत् ॥ ८ ॥
स क्रोधवशमापन्नो हयानामपसर्पणे ।मुमोच निशितान्बाणान्राघवाय निशाचरः ॥ ९ ॥
सोऽतिविद्धो बलवता दशग्रीवेण राघवः ।जगाम न विकारं च न चापि व्यथितोऽभवत् ॥ १० ॥
चिक्षेप च पुनर्बाणान्वज्रपातसमस्वनान् ।सारथिं वज्रहस्तस्य समुद्दिश्य निशाचरः ॥ ११ ॥
मातलेस्तु महावेगाः शरीरे पतिताः शराः ।न सूक्ष्ममपि संमोहं व्यथां वा प्रददुर्युधि ॥ १२ ॥
तया धर्षणया क्रोद्धो मातलेर्न तथात्मनः ।चकार शरजालेन राघवो विमुखं रिपुम् ॥ १३ ॥
विंशतिं त्रिंशतं षष्टिं शतशोऽथ सहस्रशः ।मुमोच राघवो वीरः सायकान्स्यन्दने रिपोः ॥ १४ ॥
गदानां मुसलानां च परिघाणां च निस्वनैः ।शराणां पुङ्खवातैश्च क्षुभिताः सप्तसागराः ॥ १५ ॥
क्षुब्धानां सागराणां च पातालतलवासिनः ।व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः ॥ १६ ॥
चकम्पे मेदिनी कृत्स्ना सशैलवनकानना ।भास्करो निष्प्रभश्चाभून्न ववौ चापि मारुतः ॥ १७ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।चिन्तामापेदिरे सर्वे सकिंनरमहोरगाः ॥ १८ ॥
स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकास्तिष्ठन्तु शाश्वताः ।जयतां राघवः संख्ये रावणं राक्षसेश्वरम् ॥ १९ ॥
ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः ।संधाय धनुषा रामः क्षुरमाशीविषोपमम् ।रावणस्य शिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् ॥ २० ॥
तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा ।तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः ॥ २१ ॥
तत्क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ।द्वितीयं रावणशिरश्छिन्नं संयति सायकैः ॥ २२ ॥
छिन्नमात्रं च तच्छीर्षं पुनरन्यत्स्म दृश्यते ।तदप्यशनिसंकाशैश्छिन्नं रामेण सायकैः ॥ २३ ॥
एवमेव शतं छिन्नं शिरसां तुल्यवर्चसाम् ।न चैव रावणस्यान्तो दृश्यते जीवितक्षये ॥ २४ ॥
ततः सर्वास्त्रविद्वीरः कौसल्यानन्दिवर्धनः ।मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः ॥ २५ ॥
मारीचो निहतो यैस्तु खरो यैस्तु सुदूषणः ।क्रञ्चारण्ये विराधस्तु कबन्धो दण्डका वने ॥ २६ ॥
त इमे सायकाः सर्वे युद्धे प्रत्ययिका मम ।किं नु तत्कारणं येन रावणे मन्दतेजसः ॥ २७ ॥
इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे ।ववर्ष शरवर्षाणि राघवो रावणोरसि ॥ २८ ॥
रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ।गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ॥ २९ ॥
देवदानवयक्षाणां पिशाचोरगरक्षसाम् ।पश्यतां तन्महद्युद्धं सर्वरात्रमवर्तत ॥ ३० ॥
नैव रत्रिं न दिवसं न मुहूर्तं न चक्षणम् ।रामरावणयोर्युद्धं विराममुपगच्छति ॥ ३१ ॥
« »