Click on words to see what they mean.

स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः ।विसृजन्नेव बाणौघान्सुषेणं वाक्यमब्रवीत् ॥ १ ॥
एष रावणवेगेन लक्ष्मणः पतितः क्षितौ ।सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ॥ २ ॥
शोणितार्द्रमिमं वीरं प्राणैरिष्टतरं मम ।पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः ॥ ३ ॥
अयं स समरश्लाघी भ्राता मे शुभलक्षणः ।यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन वा ॥ ४ ॥
लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः ।सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता ।चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते ॥ ५ ॥
भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना ।परं विषादमापन्नो विललापाकुलेन्द्रियः ॥ ६ ॥
न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया ।भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु ॥ ७ ॥
किं मे राज्येन किं प्राणैर्युद्धे कार्यं न विद्यते ।यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः ॥ ८ ॥
राममाश्वासयन्वीरः सुषेणो वाक्यमब्रवीत् ।न मृतोऽयं महाबाहुर्लक्ष्मणो लक्ष्मिवर्धनः ॥ ९ ॥
न चास्य विकृतं वक्त्रं नापि श्यामं न निष्प्रभम् ।सुप्रभं च प्रसन्नं च मुखमस्याभिलक्ष्यते ॥ १० ॥
पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने ।एवं न विद्यते रूपं गतासूनां विशां पते ।मां विषादं कृथा वीर सप्राणोऽयमरिंदम ॥ ११ ॥
आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले ।सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः ॥ १२ ॥
एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः ।समीपस्थमुवाचेदं हनूमन्तमभित्वरन् ॥ १३ ॥
सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् ।पूर्वं हि कथितो योऽसौ वीर जाम्बवता शुभः ॥ १४ ॥
दक्षिणे शिखरे तस्य जातामोषधिमानय ।विशल्यकरणी नाम विशल्यकरणीं शुभाम् ॥ १५ ॥
सौवर्णकरणीं चापि तथा संजीवनीमपि ।संधानकरणीं चापि गत्वा शीघ्रमिहानय ।संजीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः ॥ १६ ॥
इत्येवमुक्तो हनुमान्गत्वा चौषधिपर्वतम् ।चिन्तामभ्यगमच्छ्रीमानजानंस्ता महौषधीः ॥ १७ ॥
तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः ।इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः ॥ १८ ॥
अगृह्य यदि गच्छामि विशल्यकरणीमहम् ।कालात्ययेन दोषः स्याद्वैक्लव्यं च महद्भवेत् ॥ १९ ॥
इति संचिन्त्य हनुमान्गत्वा क्षिप्रं महाबलः ।उत्पपात गृहीत्वा तु हनूमाञ्शिखरं गिरेः ॥ २० ॥
ओषधीर्नावगछामि ता अहं हरिपुंगव ।तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया ॥ २१ ॥
एवं कथयमानं तं प्रशस्य पवनात्मजम् ।सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः ॥ २२ ॥
ततः संक्षोदयित्वा तामोषधिं वानरोत्तमः ।लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः ॥ २३ ॥
सशल्यः स समाघ्राय लक्ष्मणः परवीरहा ।विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् ॥ २४ ॥
समुत्थितं ते हरयो भूतलात्प्रेक्ष्य लक्ष्मणम् ।साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् ॥ २५ ॥
एह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा ।सस्वजे स्नेहगाढं च बाष्पपर्याकुलेक्षणः ॥ २६ ॥
अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा ।दिष्ट्या त्वां वीर पश्यामि मरणात्पुनरागतम् ॥ २७ ॥
न हि मे जीवितेनार्थः सीतया च जयेन वा ।को हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते ॥ २८ ॥
इत्येवं वदतस्तस्य राघवस्य महात्मनः ।खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ॥ २९ ॥
तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम ।लघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि ॥ ३० ॥
न प्रतिज्ञां हि कुर्वन्ति वितथां साधवोऽनघ ।लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् ॥ ३१ ॥
नैराश्यमुपगन्तुं ते तदलं मत्कृतेऽनघ ।वधेन रावणस्याद्य प्रतिज्ञामनुपालय ॥ ३२ ॥
न जीवन्यास्यते शत्रुस्तव बाणपथं गतः ।नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः ॥ ३३ ॥
अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः ।यावदस्तं न यात्येष कृतकर्मा दिवाकरः ॥ ३४ ॥
« »