Click on words to see what they mean.

निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम् ।रावणः परमामर्षी प्रजज्वालानलो यथा ॥ १ ॥
नैरृतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्छितः ।खरपुत्रं विशालाक्षं मकराक्षमचोदयत् ॥ २ ॥
गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः ।राघवं लक्ष्मणं चैव जहि तौ सवनौकसौ ॥ ३ ॥
रावणस्य वचः श्रुत्वा शूरो मानी खरात्मजः ।बाढमित्यब्रवीद्धृष्टो मकराक्षो निशाचरः ॥ ४ ॥
सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् ।निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली ॥ ५ ॥
समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीदिदम् ।रथमानीयतां शीघ्रं सैन्यं चानीयतां त्वरात् ॥ ६ ॥
तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः ।स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ॥ ७ ॥
प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः ।सूतं संचोदयामास शीघ्रं मे रथमावह ॥ ८ ॥
अथ तान्राक्षसान्सर्वान्मकराक्षोऽब्रवीदिदम् ।यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः ॥ ९ ॥
अहं राक्षसराजेन रावणेन महात्मना ।आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ॥ १० ॥
अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः ।शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः ॥ ११ ॥
अद्य शूलनिपातैश्च वानराणां महाचमूम् ।प्रदहिष्यामि संप्राप्तां शुष्केन्धनमिवानलः ॥ १२ ॥
मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः ।सर्वे नानायुधोपेता बलवन्तः समाहिताः ॥ १३ ॥
ते कामरूपिणः शूरा दंष्ट्रिणः पिङ्गलेक्षणाः ।मातंगा इव नर्दन्तो ध्वस्तकेशा भयानकाः ॥ १४ ॥
परिवार्य महाकाया महाकायं खरात्मजम् ।अभिजग्मुस्तदा हृष्टाश्चालयन्तो वसुंधराम् ॥ १५ ॥
शङ्खभेरीसहस्राणामाहतानां समन्ततः ।क्ष्वेडितास्फोटितानां च ततः शब्दो महानभूत् ॥ १६ ॥
प्रभ्रष्टोऽथ करात्तस्य प्रतोदः सारथेस्तदा ।पपात सहसा चैव ध्वजस्तस्य च रक्षसः ॥ १७ ॥
तस्य ते रथसंयुक्ता हया विक्रमवर्जिताः ।चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः ॥ १८ ॥
प्रवाति पवनस्तस्य सपांसुः खरदारुणः ।निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ॥ १९ ॥
तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः ।अचिन्त्यनिर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ॥ २० ॥
घनगजमहिषाङ्गतुल्यवर्णाः समरमुखेष्वसकृद्गदासिभिन्नाः ।अहमहमिति युद्धकौशलास्ते रजनिचराः परिबभ्रमुर्नदन्तः ॥ २१ ॥
« »