Click on words to see what they mean.

निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् ।प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ॥ १ ॥
ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम् ।आददे परिघं वीरो नगेन्द्रशिखरोपमम् ॥ २ ॥
हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् ।यमदण्डोपमं भीमं रक्षसां भयनाशनम् ॥ ३ ॥
तमाविध्य महातेजाः शक्रध्वजसमं रणे ।विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः ॥ ४ ॥
उरोगतेन निष्केण भुजस्थैरङ्गदैरपि ।कुण्डलाभ्यां च मृष्टाभ्यां मालया च विचित्रया ॥ ५ ॥
निकुम्भो भूषणैर्भाति तेन स्म परिघेण च ।यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान् ॥ ६ ॥
परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः ।प्रजज्वाल सघोषश्च विधूम इव पावकः ॥ ७ ॥
नगर्या विटपावत्या गन्धर्वभवनोत्तमैः ।सह चैवामरावत्या सर्वैश्च भवनैः सह ॥ ८ ॥
सतारागणनक्षत्रं सचन्द्रं समहाग्रहम् ।निकुम्भपरिघाघूर्णं भ्रमतीव नभस्तलम् ॥ ९ ॥
दुरासदश्च संजज्ञे परिघाभरणप्रभः ।क्रोधेन्धनो निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ॥ १० ॥
राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात् ।हनूमंस्तु विवृत्योरस्तस्थौ प्रमुखतो बली ॥ ११ ॥
परिघोपमबाहुस्तु परिघं भास्करप्रभम् ।बली बलवतस्तस्य पातयामास वक्षसि ॥ १२ ॥
स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः ।विशीर्यमाणः सहसा उल्का शतमिवाम्बरे ॥ १३ ॥
स तु तेन प्रहारेण चचाल च महाकपिः ।परिघेण समाधूतो यथा भूमिचलेऽचलः ॥ १४ ॥
स तथाभिहतस्तेन हनूमान्प्लवगोत्तमः ।मुष्टिं संवर्तयामास बलेनातिमहाबलः ॥ १५ ॥
तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान् ।अभिचिक्षेप वेगेन वेगवान्वायुविक्रमः ॥ १६ ॥
ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम् ।मुष्टिना तेन संजज्ञे ज्वाला विद्युदिवोत्थिता ॥ १७ ॥
स तु तेन प्रहारेण निकुम्भो विचचाल ह ।स्वस्थश्चापि निजग्राह हनूमन्तं महाबलम् ॥ १८ ॥
विचुक्रुशुस्तदा संख्ये भीमं लङ्कानिवासिनः ।निकुम्भेनोद्धृतं दृष्ट्वा हनूमन्तं महाबलम् ॥ १९ ॥
स तथा ह्रियमाणोऽपि कुम्भकर्णात्मजेन हि ।आजघानानिलसुतो वज्रवेगेन मुष्टिना ॥ २० ॥
आत्मानं मोचयित्वाथ क्षितावभ्यवपद्यत ।हनूमानुन्ममथाशु निकुम्भं मारुतात्मजः ॥ २१ ॥
निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च ।उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान् ॥ २२ ॥
परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम् ।उत्पाटयामास शिरो भैरवं नदतो महत् ॥ २३ ॥
अथ विनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम् ।दशरथसुतराक्षसेन्द्रचम्वोर्भृशतरमागतरोषयोः सुभीमम् ॥ २४ ॥
« »