Click on words to see what they mean.

स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः ।भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ॥ १ ॥
मातंग इव सिंहेन गरुडेनेव पन्नगः ।अभिभूतोऽभवद्राजा राघवेण महात्मना ॥ २ ॥
ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् ।स्मरन्राघवबाणानां विव्यथे राक्षसेश्वरः ॥ ३ ॥
स काञ्चनमयं दिव्यमाश्रित्य परमासनम् ।विक्प्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ॥ ४ ॥
सर्वं तत्खलु मे मोघं यत्तप्तं परमं तपः ।यत्समानो महेन्द्रेण मानुषेणास्मि निर्जितः ॥ ५ ॥
इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम् ।मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा ॥ ६ ॥
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः ।अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् ॥ ७ ॥
एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ ।राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु ॥ ८ ॥
स चाप्रतिमगम्भीरो देवदानवदर्पहा ।ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् ॥ ९ ॥
स पराजितमात्मानं प्रहस्तं च निषूदितम् ।ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः ॥ १० ॥
द्वारेषु यत्नः क्रियतां प्राकाराश्चाधिरुह्यताम् ।निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् ॥ ११ ॥
नव षट्सप्त चाष्टौ च मासान्स्वपिति राक्षसः ।तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् ॥ १२ ॥
स हि संख्ये महाबाहुः ककुदं सर्वरक्षसाम् ।वानरान्राजपुत्रौ च क्षिप्रमेव वधिष्यति ॥ १३ ॥
कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः ।रामेणाभिनिरस्तस्य संग्रामोऽस्मिन्सुदारुणे ॥ १४ ॥
भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ।किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि ॥ १५ ॥
ईदृशे व्यसने प्राप्ते यो न साह्याय कल्पते ।ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः ॥ १६ ॥
जग्मुः परमसंभ्रान्ताः कुम्भकर्णनिवेशनम् ।ते रावणसमादिष्टा मांसशोणितभोजनाः ॥ १७ ॥
गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः ।तां प्रविश्य महाद्वारां सर्वतो योजनायताम् ॥ १८ ॥
कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम् ।प्रतिष्ठमानाः कृच्छ्रेण यत्नात्प्रविविशुर्गुहाम् ॥ १९ ॥
तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम् ।ददृशुर्नैरृतव्याघ्रं शयानं भीमदर्शनम् ॥ २० ॥
ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् ।कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन् ॥ २१ ॥
ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् ।त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् ॥ २२ ॥
भीमनासापुटं तं तु पातालविपुलाननम् ।ददृशुर्नैरृतव्याघ्रं कुम्भकर्णं महाबलम् ॥ २३ ॥
ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा ।मांसानां मेरुसंकाशं राशिं परमतर्पणम् ॥ २४ ॥
मृगाणां महिषाणां च वराहाणां च संचयान् ।चक्रुर्नैरृतशार्दूला राशिमन्नस्य चाद्भुतम् ॥ २५ ॥
ततः शोणितकुम्भांश्च मद्यानि विविधानि च ।पुरस्तात्कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः ॥ २६ ॥
लिलिपुश्च परार्ध्येन चन्दनेन परंतपम् ।दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः ॥ २७ ॥
धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परंतपम् ।जलदा इव चोनेदुर्यातुधानाः सहस्रशः ॥ २८ ॥
शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् ।तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः ॥ २९ ॥
नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः ।कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् ॥ ३० ॥
सशङ्खभेरीपटहप्रणादमास्फोटितक्ष्वेडितसिंहनादम् ।दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहंगाः सहसा निपेतुः ॥ ३१ ॥
यदा भृशं तैर्निनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः ।ततो मुसुण्डीमुसलानि सर्वे रक्षोगणास्ते जगृहुर्गदाश्च ॥ ३२ ॥
तं शैलशृङ्गैर्मुसलैर्गदाभिर्वृक्षैस्तलैर्मुद्गरमुष्टिभिश्च ।सुखप्रसुप्तं भुवि कुम्भकर्णं रक्षांस्युदग्राणि तदा निजघ्नुः ॥ ३३ ॥
तस्य निश्वासवातेन कुम्भकर्णस्य रक्षसः ।राक्षसा बलवन्तोऽपि स्थातुं नाशक्नुवन्पुरः ॥ ३४ ॥
ततोऽस्य पुरतो गाढं राक्षसा भीमविक्रमाः ।मृदङ्गपणवान्भेरीः शङ्खकुम्भगणांस्तथा ।दशराक्षससाहस्रं युगपत्पर्यवादयन् ॥ ३५ ॥
नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन् ।अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः ॥ ३६ ॥
यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा ।ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् ॥ ३७ ॥
अश्वानुष्ट्रान्खरान्नागाञ्जघ्नुर्दण्डकशाङ्कुशैः ।भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् ॥ ३८ ॥
निजघ्नुश्चास्य गात्राणि महाकाष्ठकटं करैः ।मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः ॥ ३९ ॥
तेन शब्देन महता लङ्का समभिपूरिता ।सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते ॥ ४० ॥
ततः सहस्रं भेरीणां युगपत्समहन्यत ।मृष्टकाञ्चनकोणानामसक्तानां समन्ततः ॥ ४१ ॥
एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यत ।शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः ॥ ४२ ॥
महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः ।तद्रक्षोबोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् ॥ ४३ ॥
अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् ।केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च ।न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ॥ ४४ ॥
अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः ।मूर्ध्नि वक्षसि गात्रेषु पातयन्कूटमुद्गरान् ॥ ४५ ॥
रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः ।वध्यमानो महाकायो न प्राबुध्यत राक्षसः ॥ ४६ ॥
वारणानां सहस्रं तु शरीरेऽस्य प्रधावितम् ।कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत ॥ ४७ ॥
स पात्यमानैर्गिरिशृङ्गवृक्षैरचिन्तयंस्तान्विपुलान्प्रहारान् ।निद्राक्षयात्क्षुद्भयपीडितश्च विजृम्भमाणः सहसोत्पपात ॥ ४८ ॥
स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू गिरिशृङ्गसारौ ।विवृत्य वक्त्रं वडवामुखाभं निशाचरोऽसौ विकृतं जजृम्भे ॥ ४९ ॥
तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम् ।ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ॥ ५० ॥
विजृम्भमाणोऽतिबलः प्रतिबुद्धो निशाचरः ।निश्वासश्चास्य संजज्ञे पर्वतादिव मारुतः ॥ ५१ ॥
रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ ।तपान्ते सबलाकस्य मेघस्येव विवर्षतः ॥ ५२ ॥
तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी ।ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ॥ ५३ ॥
आदद्बुभुक्षितो मांसं शोणितं तृषितोऽपिबत् ।मेदः कुम्भं च मद्यं च पपौ शक्ररिपुस्तदा ॥ ५४ ॥
ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः ।शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ॥ ५५ ॥
स सर्वान्सान्त्वयामास नैरृतान्नैरृतर्षभः ।बोधनाद्विस्मितश्चापि राक्षसानिदमब्रवीत् ॥ ५६ ॥
किमर्थमहमाहत्य भवद्भिः प्रतिबोधितः ।कच्चित्सुकुशलं राज्ञो भयं वा नेह किंचन ॥ ५७ ॥
अथ वा ध्रुवमन्येभ्यो भयं परमुपस्थितम् ।यदर्थमेव त्वरितैर्भवद्भिः प्रतिबोधितः ॥ ५८ ॥
अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् ।पातयिष्ये महेन्द्रं वा शातयिष्ये तथानलम् ॥ ५९ ॥
न ह्यल्पकारणे सुप्तं बोधयिष्यति मां भृशम् ।तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् ॥ ६० ॥
एवं ब्रुवाणं संरब्धं कुम्भकर्णमरिंदमम् ।यूपाक्षः सचिवो राज्ञः कृताञ्जलिरुवाच ह ॥ ६१ ॥
न नो देवकृतं किंचिद्भयमस्ति कदाचन ।न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् ।यादृशं मानुषं राजन्भयमस्मानुपस्थितम् ॥ ६२ ॥
वानरैः पर्वताकारैर्लङ्केयं परिवारिता ।सीताहरणसंतप्ताद्रामान्नस्तुमुलं भयम् ॥ ६३ ॥
एकेन वानरेणेयं पूर्वं दग्धा महापुरी ।कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः ॥ ६४ ॥
स्वयं रक्षोऽधिपश्चापि पौलस्त्यो देवकण्टकः ।मृतेति संयुगे मुक्तारामेणादित्यतेजसा ॥ ६५ ॥
यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः ।कृतः स इह रामेण विमुक्तः प्राणसंशयात् ॥ ६६ ॥
स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् ।कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ॥ ६७ ॥
सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् ।राघवं च रणे हत्वा पश्चाद्द्रक्ष्यामि रावणम् ॥ ६८ ॥
राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः ।रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् ॥ ६९ ॥
तत्तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम् ।महोदरो नैरृतयोधमुख्यः कृताञ्जलिर्वाक्यमिदं बभाषे ॥ ७० ॥
रावणस्य वचः श्रुत्वा गुणदोषु विमृश्य च ।पश्चादपि महाबाहो शत्रून्युधि विजेष्यसि ॥ ७१ ॥
महोदरवचः श्रुत्वा राक्षसैः परिवारितः ।कुम्भकर्णो महातेजाः संप्रतस्थे महाबलः ॥ ७२ ॥
तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् ।राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ॥ ७३ ॥
ततो गत्वा दशग्रीवमासीनं परमासने ।ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः ॥ ७४ ॥
प्रबुद्धः कुम्भकर्णोऽसौ भ्राता ते राक्षसर्षभ ।कथं तत्रैव निर्यातु द्रक्ष्यसे तमिहागतम् ॥ ७५ ॥
रावणस्त्वब्रवीद्धृष्टो यथान्यायं च पूजितम् ।द्रष्टुमेनमिहेच्छामि यथान्यायं च पूजितम् ॥ ७६ ॥
तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः ।कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ॥ ७७ ॥
द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुंगवः ।गमने क्रियतां बुद्धिर्भ्रातरं संप्रहर्षय ॥ ७८ ॥
कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् ।तथेत्युक्त्वा महावीर्यः शयनादुत्पपात ह ॥ ७९ ॥
प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः ।पिपासुस्त्वरयामास पानं बलसमीरणम् ॥ ८० ॥
ततस्ते त्वरितास्तस्य राज्षसा रावणाज्ञया ।मद्यं भक्ष्यांश्च विविधान्क्षिप्रमेवोपहारयन् ॥ ८१ ॥
पीत्वा घटसहस्रं स गमनायोपचक्रमे ॥ ८२ ॥
ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः ।कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः ॥ ८३ ॥
भ्रातुः स भवनं गच्छन्रक्षोबलसमन्वितः ।कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ ८४ ॥
स राजमार्गं वपुषा प्रकाशयन्सहस्ररश्मिर्धरणीमिवांशुभिः ।जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव स्वयम्भुवः ॥ ८५ ॥
केचिच्छरण्यं शरणं स्म रामं व्रजन्ति केचिद्व्यथिताः पतन्ति ।केचिद्दिशः स्म व्यथिताः प्रयान्ति केचिद्भयार्ता भुवि शेरते स्म ॥ ८६ ॥
तमद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तमादित्यमिवात्मतेजसा ।वनौकसः प्रेक्ष्य विवृद्धमद्भुतं भयार्दिता दुद्रुविरे ततस्ततः ॥ ८७ ॥
« »