Click on words to see what they mean.

तस्मिन्हते राक्षससैन्यपाले प्लवंगमानामृषभेण युद्धे ।भीमायुधं सागरतुल्यवेगं प्रदुद्रुवे राक्षसराजसैन्यम् ॥ १ ॥
गत्वा तु रक्षोऽधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम् ।तच्चापि तेषां वचनं निशम्य रक्षोऽधिपः क्रोधवशं जगाम ॥ २ ॥
संख्ये प्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः ।उवाच तान्नैरृतयोधमुख्यानिन्द्रो यथा चामरयोधमुख्यान् ॥ ३ ॥
नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः ।सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥ ४ ॥
सोऽहं रिपुविनाशाय विजयायाविचारयन् ।स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् ॥ ५ ॥
अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् ।निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः ॥ ६ ॥
स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरंगोत्तमराजियुक्तम् ।प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ॥ ७ ॥
स शङ्खभेरीपटह प्रणादैरास्फोटितक्ष्वेडितसिंहनादैः ।पुण्यैः स्तवैश्चाप्यभिपूज्यमानस्तदा ययौ राक्षसराजमुख्यः ॥ ८ ॥
स शैलजीमूतनिकाश रूपैर्मांसाशनैः पावकदीप्तनेत्रैः ।बभौ वृतो राक्षसराजमुख्यैर्भूतैर्वृतो रुद्र इवामरेशः ॥ ९ ॥
ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् ।महार्णवाभ्रस्तनितं ददर्श समुद्यतं पादपशैलहस्तम् ॥ १० ॥
तद्राक्षसानीकमतिप्रचण्डमालोक्य रामो भुजगेन्द्रबाहुः ।विभीषणं शस्त्रभृतां वरिष्ठमुवाच सेनानुगतः पृथुश्रीः ॥ ११ ॥
नानापताकाध्वजशस्त्रजुष्टं प्रासासिशूलायुधचक्रजुष्टम् ।सैन्यं नगेन्द्रोपमनागजुष्टं कस्येदमक्षोभ्यमभीरुजुष्टम् ॥ १२ ॥
ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः ।शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुंगवानाम् ॥ १३ ॥
योऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः ।प्रकम्पयन्नागशिरोऽभ्युपैति ह्यकम्पनं त्वेनमवेहि राजन् ॥ १४ ॥
योऽसौ रथस्थो मृगराजकेतुर्धून्वन्धनुः शक्रधनुःप्रकाशम् ।करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः ॥ १५ ॥
यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोऽतिरथोऽतिवीर्यः ।विस्फारयंश्चापमतुल्यमानं नाम्नातिकायोऽतिविवृद्धकायः ॥ १६ ॥
योऽसौ नवार्कोदितताम्रचक्षुरारुह्य घण्टानिनदप्रणादम् ।गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः ॥ १७ ॥
योऽसौ हयं काञ्चनचित्रभाण्डमारुह्य संध्याभ्रगिरिप्रकाशम् ।प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषाशनितुल्यवेगः ॥ १८ ॥
यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किंकरवज्रवेगम् ।वृषेन्द्रमास्थाय गिरिप्रकाशमायाति सोऽसौ त्रिशिरा यशस्वी ॥ १९ ॥
असौ च जीमूतनिकाश रूपः कुम्भः पृथुव्यूढसुजातवक्षाः ।समाहितः पन्नगराजकेतुर्विस्फारयन्भाति धनुर्विधून्वन् ॥ २० ॥
यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य ।आयाति रक्षोबलकेतुभूतः सोऽसौ निकुम्भोऽद्भुतघोरकर्मा ॥ २१ ॥
यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम् ।रथं समास्थाय विभात्युदग्रो नरान्तकोऽसौ नगशृङ्गयोधी ॥ २२ ॥
यश्चैष नानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगेन्द्रवक्त्रैः ।भूतैर्वृतो भाति विवृत्तनेत्रैः सोऽसौ सुराणामपि दर्पहन्ता ॥ २३ ॥
यत्रैतदिन्दुप्रतिमं विभातिच्छत्त्रं सितं सूक्ष्मशलाकमग्र्यम् ।अत्रैष रक्षोऽधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति ॥ २४ ॥
असौ किरीटी चलकुण्डलास्यो नागेन्द्रविन्ध्योपमभीमकायः ।महेन्द्रवैवस्वतदर्पहन्ता रक्षोऽधिपः सूर्य इवावभाति ॥ २५ ॥
प्रत्युवाच ततो रामो विभीषणमरिंदमम् ।अहो दीप्तो महातेजा रावणो राक्षसेश्वरः ॥ २६ ॥
आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर्भाति रावणः ।सुव्यक्तं लक्षये ह्यस्य रूपं तेजःसमावृतम् ॥ २७ ॥
देवदानववीराणां वपुर्नैवंविधं भवेत् ।यादृशं राक्षसेन्द्रस्य वपुरेतत्प्रकाशते ॥ २८ ॥
सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः ।सर्वे दीप्तायुधधरा योधश्चास्य महौजसः ॥ २९ ॥
भाति राक्षसराजोऽसौ प्रदीप्तैर्भीमविक्रमैः ।भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ॥ ३० ॥
एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् ।लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ॥ ३१ ॥
ततः स रक्षोऽधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि ।द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः ॥ ३२ ॥
विसर्जयित्वा सहसा ततस्तान्गतेषु रक्षःसु यथानियोगम् ।व्यदारयद्वानरसागरौघं महाझषः पूर्ममिवार्णवौघम् ॥ ३३ ॥
तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम् ।महत्समुत्पाट्य महीधराग्रं दुद्राव रक्षोऽधिपतिं हरीशः ॥ ३४ ॥
तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय ।तमापतन्तं सहसा समीक्ष्य बिभेद बाणैस्तपनीयपुङ्खैः ॥ ३५ ॥
तस्मिन्प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विकीर्णे पतिते पृथिव्याम् ।महाहिकल्पं शरमन्तकाभं समाददे राक्षसलोकनाथः ॥ ३६ ॥
स तं गृहीत्वानिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम् ।बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः ॥ ३७ ॥
स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुः शिताग्रः ।सुग्रीवमासाद्य बिभेद वेगाद्गुहेरिता क्रौचमिवोग्रशक्तिः ॥ ३८ ॥
स सायकार्तो विपरीतचेताः कूजन्पृथिव्यां निपपात वीरः ।तं प्रेक्ष्य भूमौ पतितं विसंज्मं नेदुः प्रहृष्टा युधि यातुधानाः ॥ ३९ ॥
ततो गवाक्षो गवयः सुदंष्ट्रस्तथर्षभो ज्योतिमुखो नलश्च ।शैलान्समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ॥ ४० ॥
तेषां प्रहारान्स चकार मेघान्रक्षोऽधिपो बाणगणैः शिताग्रैः ।तान्वानरेन्द्रानपि बाणजालैर्बिभेद जाम्बूनदचित्रपुङ्खैः ॥ ४१ ॥
ते वानरेन्द्रास्त्रिदशारिबाणैर्भिन्ना निपेतुर्भुवि भीमरूपाः ।ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः ॥ ४२ ॥
ते वध्यमानाः पतिताग्र्यवीरा नानद्यमाना भयशल्यविद्धाः ।शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम् ॥ ४३ ॥
ततो महात्मा स धनुर्धनुष्मानादाय रामः सहरा जगाम ।तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच वाक्यं परमार्थयुक्तम् ॥ ४४ ॥
काममार्यः सुपर्याप्तो वधायास्य दुरात्मनः ।विधमिष्याम्यहं नीचमनुजानीहि मां विभो ॥ ४५ ॥
तमब्रवीन्महातेजा रामः सत्यपराक्रमः ।गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे ॥ ४६ ॥
रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः ।त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः ॥ ४७ ॥
तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च गोपय ।चक्षुषा धनुषा यत्नाद्रक्षात्मानं समाहितः ॥ ४८ ॥
राघवस्य वचः श्रुत्वा संपरिष्वज्य पूज्य च ।अभिवाद्य ततो रामं ययौ सौमित्रिराहवम् ॥ ४९ ॥
स रावणं वारणहस्तबाहुर्ददर्श दीप्तोद्यतभीमचापम् ।प्रच्छादयन्तं शरवृष्टिजालैस्तान्वानरान्भिन्नविकीर्णदेहान् ॥ ५० ॥
तमालोक्य महातेजा हनूमान्मारुतात्मजा ।निवार्य शरजालानि प्रदुद्राव स रावणम् ॥ ५१ ॥
रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम् ।त्रासयन्रावणं धीमान्हनूमान्वाक्यमब्रवीत् ॥ ५२ ॥
देवदानवगन्धर्वा यक्षाश्च सह राक्षसैः ।अवध्यत्वात्त्वया भग्ना वानरेभ्यस्तु ते भयम् ॥ ५३ ॥
एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः ।विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम् ॥ ५४ ॥
श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः ।संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ॥ ५५ ॥
क्षिप्रं प्रहर निःशङ्कं स्थिरां कीर्तिमवाप्नुहि ।ततस्त्वां ज्ञातिविक्रान्तं नाशयिष्यामि वानर ॥ ५६ ॥
रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत् ।प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव ॥ ५७ ॥
एवमुक्तो महातेजा रावणो राक्षसेश्वरः ।आजघानानिलसुतं तलेनोरसि वीर्यवान् ॥ ५८ ॥
स तलाभिहतस्तेन चचाल च मुहुर्मुहुः ।आजघानाभिसंक्रुद्धस्तलेनैवामरद्विषम् ॥ ५९ ॥
ततस्तलेनाभिहतो वानरेण महात्मना ।दशग्रीवः समाधूतो यथा भूमिचलेऽचलः ॥ ६० ॥
संग्रामे तं तथा दृष्ट्व रावणं तलताडितम् ।ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुराः ॥ ६१ ॥
अथाश्वस्य महातेजा रावणो वाक्यमब्रवीत् ।साधु वानरवीर्येण श्लाघनीयोऽसि मे रिपुः ॥ ६२ ॥
रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ।धिगस्तु मम वीर्यं तु यत्त्वं जीवसि रावण ॥ ६३ ॥
सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे ।ततस्त्वां मामको मुष्टिर्नयिष्यामि यथाक्षयम् ।ततो मारुतिवाक्येन क्रोधस्तस्य तदाज्वलत् ॥ ६४ ॥
संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् ।पातयामास वेगेन वानरोरसि वीर्यवान् ।हनूमान्वक्षसि व्यूधे संचचाल हतः पुनः ॥ ६५ ॥
विह्वलं तं तदा दृष्ट्वा हनूमन्तं महाबलम् ।रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् ॥ ६६ ॥
पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः ।शरैरादीपयामास नीलं हरिचमूपतिम् ॥ ६७ ॥
स शरौघसमायस्तो नीलः कपिचमूपतिः ।करेणैकेन शैलाग्रं रक्षोऽधिपतयेऽसृजत् ॥ ६८ ॥
हनूमानपि तेजस्वी समाश्वस्तो महामनाः ।विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ॥ ६९ ॥
नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् ।अन्येन युध्यमानस्य न युक्तमभिधावनम् ॥ ७० ॥
रावणोऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः ।आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह ॥ ७१ ॥
तद्विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः ।कालाग्निरिव जज्वाल क्रोधेन परवीरहा ॥ ७२ ॥
सोऽश्वकर्णान्धवान्सालांश्चूतांश्चापि सुपुष्पितान् ।अन्यांश्च विविधान्वृक्षान्नीलश्चिक्षेप संयुगे ॥ ७३ ॥
स तान्वृक्षान्समासाद्य प्रतिचिच्छेद रावणः ।अभ्यवर्षत्सुघोरेण शरवर्षेण पावकिम् ॥ ७४ ॥
अभिवृष्टः शरौघेण मेघेनेव महाचलः ।ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह ॥ ७५ ॥
पावकात्मजमालोक्य ध्वजाग्रे समवस्थितम् ।जज्वाल रावणः क्रोधात्ततो नीलो ननाद ह ॥ ७६ ॥
ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् ।लक्ष्मणोऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः ॥ ७७ ॥
रावणोऽपि महातेजाः कपिलाघवविस्मितः ।अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् ॥ ७८ ॥
ततस्ते चुक्रुशुर्हृष्टा लब्धलक्ष्याः प्लवंगमाः ।नीललाघवसंभ्रान्तं दृष्ट्वा रावणमाहवे ॥ ७९ ॥
वानराणां च नादेन संरब्धो रावणस्तदा ।संभ्रमाविष्टहृदयो न किंचित्प्रत्यपद्यत ॥ ८० ॥
आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् ।ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः ॥ ८१ ॥
ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः ।कपे लाघवयुक्तोऽसि मायया परयानया ॥ ८२ ॥
जीवितं खलु रक्षस्व यदि शक्नोषि वानर ।तानि तान्यात्मरूपाणि सृजसे त्वमनेकशः ॥ ८३ ॥
तथापि त्वां मया मुक्तः सायकोऽस्त्रप्रयोजितः ।जीवितं परिरक्षन्तं जीविताद्भ्रंशयिष्यति ॥ ८४ ॥
एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः ।संधाय बाणमस्त्रेण चमूपतिमताडयत् ॥ ८५ ॥
सोऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः ।निर्दह्यमानः सहसा निपपात महीतले ॥ ८६ ॥
पितृमाहात्म्य संयोगादात्मनश्चापि तेजसा ।जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत ॥ ८७ ॥
विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः ।रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ॥ ८८ ॥
तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम् ।अन्वेहि मामेव निशाचरेन्द्र न वानरांस्त्वं प्रति योद्धुमर्हसि ॥ ८९ ॥
स तस्य वाक्यं परिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा ।आसाद्य सौमित्रिमवस्थितं तं कोपान्वितं वाक्यमुवाच रक्षः ॥ ९० ॥
दिष्ट्यासि मे राघव दृष्टिमार्गं प्राप्तोऽन्तगामी विपरीतबुद्धिः ।अस्मिन्क्षणे यास्यसि मृत्युदेशं संसाद्यमानो मम बाणजालैः ॥ ९१ ॥
तमाह सौमित्रिरविस्मयानो गर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम् ।राजन्न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ ॥ ९२ ॥
जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च ।अवस्थितोऽहं शरचापपाणिरागच्छ किं मोघविकत्थनेन ॥ ९३ ॥
स एवमुक्तः कुपितः ससर्ज रक्षोऽधिपः सप्तशरान्सुपुङ्खान् ।ताँल्लक्ष्मणः काञ्चनचित्रपुङ्खैश्चिच्छेद बाणैर्निशिताग्रधारैः ॥ ९४ ॥
तान्प्रेक्षमाणः सहसा निकृत्तान्निकृत्तभोगानिव पन्नगेन्द्रान् ।लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान्निशितान्पृषत्कान् ॥ ९५ ॥
स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसंप्रयुक्तम् ।क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ॥ ९६ ॥
स लक्ष्मणश्चाशु शराञ्शिताग्रान्महेन्द्रवज्राशनितुल्यवेगान् ।संधाय चापे ज्वलनप्रकाशान्ससर्ज रक्षोऽधिपतेर्वधाय ॥ ९७ ॥
स तान्प्रचिच्छेद हि राक्षसेन्द्रश्छित्त्वा च ताँल्लक्ष्मणमाजघान ।शरेण कालाग्निसमप्रभेण स्वयम्भुदत्तेन ललाटदेशे ॥ ९८ ॥
स लक्ष्मणो रावणसायकार्तश्चचाल चापं शिथिलं प्रगृह्य ।पुनश्च संज्ञां प्रतिलभ्य कृच्छ्राच्चिच्छेद चापं त्रिदशेन्द्रशत्रोः ॥ ९९ ॥
निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रैः ।स सायकार्तो विचचाल राजा कृच्छ्राच्च संज्ञां पुनराससाद ॥ १०० ॥
स कृत्तचापः शरताडितश्च स्वेदार्द्रगात्रो रुधिरावसिक्तः ।जग्राह शक्तिं समुदग्रशक्तिः स्वयम्भुदत्तां युधि देवशत्रुः ॥ १०१ ॥
स तां विधूमानलसंनिकाशां वित्रासनीं वानरवाहिनीनाम् ।चिक्षेप शक्तिं तरसा ज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः ॥ १०२ ॥
तामापतन्तीं भरतानुजोऽस्त्रैर्जघान बाणैश्च हुताग्निकल्पैः ।तथापि सा तस्य विवेश शक्तिर्भुजान्तरं दाशरथेर्विशालम् ॥ १०३ ॥
शक्त्या ब्राम्या तु सौमित्रिस्ताडितस्तु स्तनान्तरे ।विष्णोरचिन्त्यं स्वं भागमात्मानं प्रत्यनुस्मरत् ॥ १०४ ॥
ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः ।तं पीडयित्वा बाहुभ्यामप्रभुर्लङ्घनेऽभवत् ॥ १०५ ॥
हिमवान्मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः ।शक्यं भुजाभ्यामुद्धर्तुं न संख्ये भरतानुजः ॥ १०६ ॥
अथैनं वैष्णवं भागं मानुषं देहमास्थितम् ।विसंज्ञं लक्ष्मणं दृष्ट्वा रावणो विस्मितोऽभवत् ॥ १०७ ॥
अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत् ।आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ॥ १०८ ॥
तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः ।जानुभ्यामपतद्भूमौ चचाल च पपात च ॥ १०९ ॥
विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् ।ऋषयो वानराश्चैव नेदुर्देवाः सवासवाः ॥ ११० ॥
हनूमानपि तेजस्वी लक्ष्मणं रावणार्दितम् ।अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् ॥ १११ ॥
वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः ।शत्रूणामप्रकम्प्योऽपि लघुत्वमगमत्कपेः ॥ ११२ ॥
तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् ।रावणस्य रथे तस्मिन्स्थानं पुनरुपागमत् ॥ ११३ ॥
रावणोऽपि महातेजाः प्राप्य संज्ञां महाहवे ।आददे निशितान्बाणाञ्जग्राह च महद्धनुः ॥ ११४ ॥
आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः ।विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ॥ ११५ ॥
निपातितमहावीरां वानराणां महाचमूम् ।राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ॥ ११६ ॥
अथैनमुपसंगम्य हनूमान्वाक्यमब्रवीत् ।मम पृष्ठं समारुह्य रक्षसं शास्तुमर्हसि ॥ ११७ ॥
तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् ।आरोहत्सहसा शूरो हनूमन्तं महाकपिम् ।रथस्थं रावणं संख्ये ददर्श मनुजाधिपः ॥ ११८ ॥
तमालोक्य महातेजाः प्रदुद्राव स राघवः ।वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ॥ ११९ ॥
ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिस्वनम् ।गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ॥ १२० ॥
तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम् ।क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि ॥ १२१ ॥
यदीन्द्रवैवस्वत भास्करान्वा स्वयम्भुवैश्वानरशंकरान्वा ।गमिष्यसि त्वं दश वा दिशो वा तथापि मे नाद्य गतो विमोक्ष्यसे ॥ १२२ ॥
यश्चैष शक्त्याभिहतस्त्वयाद्य इच्छन्विषादं सहसाभ्युपेतः ।स एष रक्षोगणराज मृत्युः सपुत्रदारस्य तवाद्य युद्धे ॥ १२३ ॥
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् ।आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः ॥ १२४ ॥
राक्षसेनाहवे तस्य ताडितस्यापि सायकैः ।स्वभावतेजोयुक्तस्य भूयस्तेजो व्यवर्धत ॥ १२५ ॥
ततो रामो महातेजा रावणेन कृतव्रणम् ।दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान् ॥ १२६ ॥
तस्याभिसंक्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम् ।ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शरैः सुपुङ्खैः ॥ १२७ ॥
अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसंनिभेन ।भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः ॥ १२८ ॥
यो वज्रपाताशनिसंनिपातान्न चुक्षुभे नापि चचाल राजा ।स रामबाणाभिहतो भृशार्तश्चचाल चापं च मुमोच वीरः ॥ १२९ ॥
तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम् ।तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोऽधिपतेर्महात्माः ॥ १३० ॥
तं निर्विषाशीविषसंनिकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम् ।गतश्रियं कृत्तकिरीटकूटमुवाच रामो युधि राक्षसेन्द्रम् ॥ १३१ ॥
कृतं त्वया कर्म महत्सुभीमं हतप्रवीरश्च कृतस्त्वयाहम् ।तस्मात्परिश्रान्त इति व्यवस्य न त्वं शरैर्मृत्युवशं नयामि ॥ १३२ ॥
स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः ।शरार्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स्म राजा ॥ १३३ ॥
तस्मिन्प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ ।हरीन्विशल्यान्सहलक्ष्मणेन चकार रामः परमाहवाग्रे ॥ १३४ ॥
तस्मिन्प्रभग्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश्च ।ससागराः सर्षिमहोरगाश्च तथैव भूम्यम्बुचराश्च हृष्टाः ॥ १३५ ॥
« »