अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः ।लक्ष्मणं लक्ष्मिसंपन्नमिदं वचनमब्रवीत् ॥ १ ॥
परिगृह्योदकं शीतं वनानि फलवन्ति च ।बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ॥ २ ॥
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् ।निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥ ३ ॥
वाताश्च परुषं वान्ति कम्पते च वसुंधरा ।पर्वताग्राणि वेपन्ते पतन्ति धरणीधराः ॥ ४ ॥
मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वनाः ।क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ॥ ५ ॥
रक्तचन्दनसंकाशा संध्यापरमदारुणा ।ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् ॥ ६ ॥
आदित्यमभिवाश्यन्ते जनयन्तो महद्भयम् ।दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः ॥ ७ ॥
रजन्यामप्रकाशश्च संतापयति चन्द्रमाः ।कृष्णरक्तांशुपर्यन्तो यथा लोकस्य संक्षये ॥ ८ ॥
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः ।आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते ॥ ९ ॥
दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते ।युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति ॥ १० ॥
काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च ।शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः ॥ ११ ॥
क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम् ।अभियाम जवेनैव सर्वतो हरिभिर्वृताः ॥ १२ ॥
इत्येवं तु वदन्वीरो लक्ष्मणं लक्ष्मणाग्रजः ।तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः ॥ १३ ॥
अवतीर्य तु धर्मात्मा तस्माच्छैलात्स राघवः ।परैः परमदुर्धर्षं ददर्श बलमात्मनः ॥ १४ ॥
संनह्य तु ससुग्रीवः कपिराजबलं महत् ।कालज्ञो राघवः काले संयुगायाभ्यचोदयत् ॥ १५ ॥
ततः काले महाबाहुर्बलेन महता वृतः ।प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् ॥ १६ ॥
तं विभीषण सुग्रीवौ हनूमाञ्जाम्बवान्नलः ।ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्ययुस्तदा ॥ १७ ॥
ततः पश्चात्सुमहती पृतनर्क्षवनौकसाम् ।प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् ॥ १८ ॥
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहाम् ।जगृहुः कुञ्जरप्रख्या वानराः परवारणाः ॥ १९ ॥
तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ ।रावणस्य पुरीं लङ्कामासेदतुररिंदमौ ॥ २० ॥
पताकामालिनीं रम्यामुद्यानवनशोभिताम् ।चित्रवप्रां सुदुष्प्रापामुच्चप्राकारतोरणाम् ॥ २१ ॥
तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः ।यथानिदेशं संपीड्य न्यविशन्त वनौकसः ॥ २२ ॥
लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम् ।रामः सहानुजो धन्वी जुगोप च रुरोध च ॥ २३ ॥
लङ्कामुपनिविष्टश्च रामो दशरथात्मजः ।लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् ॥ २४ ॥
उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः ।नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम् ॥ २५ ॥
रावणाधिष्ठितं भीमं वरुणेनेव सागरम् ।सायुधौ राक्षसैर्भीमैरभिगुप्तं समन्ततः ।लघूनां त्रासजननं पातालमिव दानवैः ॥ २६ ॥
विन्यस्तानि च योधानां बहूनि विविधानि च ।ददर्शायुधजालानि तथैव कवचानि च ॥ २७ ॥
पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः ।अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान् ॥ २८ ॥
अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः ।ऋषभेण गवाक्षेण गजेन गवयेन च ॥ २९ ॥
हनूमान्पश्चिमद्वारं ररक्ष बलवान्कपिः ।प्रमाथि प्रघसाभ्यां च वीरैरन्यैश्च संगतः ॥ ३० ॥
मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत ।सह सर्वैर्हरिश्रेष्ठैः सुपर्णश्वसनोपमैः ॥ ३१ ॥
वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः ।निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः ॥ ३२ ॥
शासनेन तु रामस्य लक्ष्मणः सविभीषणः ।द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् ॥ ३३ ॥
पश्चिमेन तु रामस्य सुग्रीवः सह जाम्बवान् ।अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः ॥ ३४ ॥
ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः ।गृहीत्वा द्रुमशैलाग्रान्हृष्टा युद्धाय तस्थिरे ॥ ३५ ॥
सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः ।सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः ॥ ३६ ॥
दशनागबलाः केचित्केचिद्दशगुणोत्तराः ।केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ ३७ ॥
सन्ति चौघा बलाः केचित्केचिच्छतगुणोत्तराः ।अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः ॥ ३८ ॥
अद्भुतश्च विचित्रश्च तेषामासीत्समागमः ।तत्र वानरसैन्यानां शलभानामिवोद्गमः ॥ ३९ ॥
परिपूर्णमिवाकाशं संछन्नेव च मेदिनी ।लङ्कामुपनिविष्टैश्च संपतद्भिश्च वानरैः ॥ ४० ॥
शतं शतसहस्राणां पृथगृक्षवनौकसाम् ।लङ्का द्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः ॥ ४१ ॥
आवृतः स गिरिः सर्वैस्तैः समन्तात्प्लवंगमैः ।अयुतानां सहस्रं च पुरीं तामभ्यवर्तत ॥ ४२ ॥
वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः ।सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना ॥ ४३ ॥
राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः ।वानरैर्मेघसंकाशैः शक्रतुल्यपराक्रमैः ॥ ४४ ॥
महाञ्शब्दोऽभवत्तत्र बलौघस्याभिवर्ततः ।सागरस्येव भिन्नस्य यथा स्यात्सलिलस्वनः ॥ ४५ ॥
तेन शब्देन महता सप्राकारा सतोरणा ।लङ्का प्रचलिता सर्वा सशैलवनकानना ॥ ४६ ॥
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी ।बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ॥ ४७ ॥
राघवः संनिवेश्यैवं सैन्यं स्वं रक्षसां वधे ।संमन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः ॥ ४८ ॥
आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् ।विभीषणस्यानुमते राजधर्ममनुस्मरन् ।अङ्गदं वालितनयं समाहूयेदमब्रवीत् ॥ ४९ ॥
गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात्कपे ।लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः ॥ ५० ॥
भ्रष्टश्रीकगतैश्वर्यमुमूर्षो नष्टचेतनः ।ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा ॥ ५१ ॥
नागानामथ यक्षाणां राज्ञां च रजनीचर ।यच्च पापं कृतं मोहादवलिप्तेन राक्षस ॥ ५२ ॥
नूनमद्य गतो दर्पः स्वयम्भू वरदानजः ।यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः ।दण्डं धारयमाणस्तु लङ्काद्वरे व्यवस्थितः ॥ ५३ ॥
पदवीं देवतानां च महर्षीणां च राक्षस ।राजर्षीणां च सर्वेषां गमिष्यसि मया हतः ॥ ५४ ॥
बलेन येन वै सीतां मायया राक्षसाधम ।मामतिक्रामयित्वा त्वं हृतवांस्तद्विदर्शय ॥ ५५ ॥
अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः ।न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् ॥ ५६ ॥
धर्मात्मा रक्षसां श्रेष्ठः संप्राप्तोऽयं विभीषणः ।लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् ॥ ५७ ॥
न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया ।शक्यं मूर्खसहायेन पापेनाविजितात्मना ॥ ५८ ॥
युध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस ।मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि ॥ ५९ ॥
यद्याविशसि लोकांस्त्रीन्पक्षिभूतो मनोजवः ।मम चक्षुष्पथं प्राप्य न जीवन्प्रतियास्यसि ॥ ६० ॥
ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदेकिकम् ।सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् ॥ ६१ ॥
इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा ।जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् ॥ ६२ ॥
सोऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम् ।ददर्शासीनमव्यग्रं रावणं सचिवैः सह ॥ ६३ ॥
ततस्तस्याविदूरेण निपत्य हरिपुंगवः ।दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः ॥ ६४ ॥
तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् ।सामात्यं श्रावयामास निवेद्यात्मानमात्मना ॥ ६५ ॥
दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः ॥ ६६ ॥
आह त्वां राघवो रामः कौसल्यानन्दवर्धनः ।निष्पत्य प्रतियुध्यस्व नृशंसं पुरुषाधम ॥ ६७ ॥
हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् ।निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि ॥ ६८ ॥
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ॥ ६९ ॥
विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि ।न चेत्सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि ॥ ७० ॥
इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुंगवे ।अमर्षवशमापन्नो निशाचरगणेश्वरः ॥ ७१ ॥
ततः स रोषताम्राक्षः शशास सचिवांस्तदा ।गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत् ॥ ७२ ॥
रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः ।जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः ॥ ७३ ॥
ग्राहयामास तारेयः स्वयमात्मानमात्मना ।बलं दर्शयितुं वीरो यातुधानगणे तदा ॥ ७४ ॥
स तान्बाहुद्वये सक्तानादाय पतगानिव ।प्रासादं शैलसंकाशमुत्पापाताङ्गदस्तदा ॥ ७५ ॥
तेऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः ।भुमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ॥ ७६ ॥
ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम् ।तत्पफाल तदाक्रान्तं दशग्रीवस्य पश्यतः ॥ ७७ ॥
भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः ।विनद्य सुमहानादमुत्पपात विहायसा ॥ ७८ ॥
रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् ।विनाशं चात्मनः पश्यन्निःश्वासपरमोऽभवत् ॥ ७९ ॥
रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवंगमैः ।वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत ॥ ८० ॥
सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः ।बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः ॥ ८१ ॥
चतुर्द्वाराणि सर्वाणि सुग्रीववचनात्कपिः ।पर्याक्रमत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ॥ ८२ ॥
तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम् ।लङ्कामुपनिविष्टानां सागरं चातिवर्तताम् ॥ ८३ ॥
राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथापरे ।अपरे समरोद्धर्षाद्धर्षमेवोपपेदिरे ॥ ८४ ॥
कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम् ।ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम् ॥ ८५ ॥
तस्मिन्महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम् ।प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः ॥ ८६ ॥