Click on words to see what they mean.

ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् ।न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः ॥ १ ॥
रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः ।विधानं द्विगुणं श्रुत्वा प्रासादं सोऽध्यरोहत ॥ २ ॥
स ददर्शावृतां लङ्कां सशैलवनकाननाम् ।असंख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ॥ ३ ॥
स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् ।कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् ॥ ४ ॥
स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः ।राघवं हरियूथांश्च ददर्शायतलोचनः ॥ ५ ॥
प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः ।राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ॥ ६ ॥
ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः ।लङ्कामेवाह्यवर्तन्त सालतालशिलायुधाः ॥ ७ ॥
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवंगमाः ।प्रासादाग्राणि चोच्चानि ममन्तुस्तोरणानि च ॥ ८ ॥
पारिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः ।पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ॥ ९ ॥
ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः ।कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा ॥ १० ॥
काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवंगमाः ।कैलासशिखराभानि गोपुराणि प्रमथ्य च ॥ ११ ॥
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः ।लङ्कां तामभ्यवर्तन्त महावारणसंनिभाः ॥ १२ ॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ १३ ॥
इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवंगमाः ।अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ॥ १४ ॥
वीरबाहुः सुबाहुश्च नलश्च वनगोचरः ।निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः ॥ १५ ॥
एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ॥ १६ ॥
पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः ।आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ॥ १७ ॥
दक्षिणद्वारमागम्य वीरः शतबलिः कपिः ।आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ॥ १८ ॥
सुषेणः पश्चिमद्वारं गतस्तारा पिता हरिः ।आवृत्य बलवांस्तस्थौ षष्टि कोटिभिरावृतः ॥ १९ ॥
उत्तरद्वारमासाद्य रामः सौमित्रिणा सह ।आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ॥ २० ॥
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः ।वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्वतः ॥ २१ ॥
ऋष्काणां भीमवेगानां धूम्रः शत्रुनिबर्हणः ।वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥ २२ ॥
संनद्धस्तु महावीर्यो गदापाणिर्विभीषणः ।वृतो यस्तैस्तु सचिवैस्तस्थौ तत्र महाबलः ॥ २३ ॥
गजो गवाक्षो गवयः शरभो गन्धमादनः ।समन्तात्परिघावन्तो ररक्षुर्हरिवाहिनीम् ॥ २४ ॥
ततः कोपपरीतात्मा रावणो राक्षसेश्वरः ।निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा ॥ २५ ॥
निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः ।समये पूर्यमाणस्य वेगा इव महोदधेः ॥ २६ ॥
एतस्मिन्नन्तरे घोरः संग्रामः समपद्यत ।रक्षसां वानराणां च यथा देवासुरे पुरा ॥ २७ ॥
ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः ।निजघ्नुर्वानरान्घोराः कथयन्तः स्वविक्रमान् ॥ २८ ॥
तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः ।राक्षसास्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः ॥ २९ ॥
राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् ।भिण्डिपालैश्च खड्गैश्च शूलैश्चैव व्यदारयन् ॥ ३० ॥
वानराश्चापि संक्रुद्धाः प्राकारस्थान्महीगताः ।राक्षसान्पातयामासुः समाप्लुत्य प्लवंगमाः ॥ ३१ ॥
स संप्रहारस्तुमुलो मांसशोणितकर्दमः ।रक्षसां वानराणां च संबभूवाद्भुतोपमाः ॥ ३२ ॥
« »