Click on words to see what they mean.

अथ तां जातसंतापां तेन वाक्येन मोहिताम् ।सरमा ह्लादयामास पृतिवीं द्यौरिवाम्भसा ॥ १ ॥
ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः ।उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी ॥ २ ॥
उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे ।निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् ॥ ३ ॥
न हि मे क्रममाणाया निरालम्बे विहायसि ।समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा ॥ ४ ॥
एवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत् ।मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया ॥ ५ ॥
समर्था गगनं गन्तुमपि वा त्वं रसातलम् ।अवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे ॥ ६ ॥
मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव ।ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ॥ ७ ॥
स हि मायाबलः क्रूरो रावणः शत्रुरावणः ।मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी ॥ ८ ॥
तर्जापयति मां नित्यं भर्त्सापयति चासकृत् ।राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः ॥ ९ ॥
उद्विग्ना शङ्किता चास्मि न च स्वस्थं मनो मम ।तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गताः ॥ १० ॥
यदि नाम कथा तस्य निश्चितं वापि यद्भवेत् ।निवेदयेथाः सर्वं तत्परो मे स्यादनुग्रहः ॥ ११ ॥
सा त्वेवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी ।उवाच वचनं तस्याः स्पृशन्ती बाष्पविक्लवम् ॥ १२ ॥
एष ते यद्यभिप्रायस्तस्माद्गच्छामि जानकि ।गृह्य शत्रोरभिप्रायमुपावृत्तां च पश्य माम् ॥ १३ ॥
एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः ।शुश्राव कथितं तस्य रावणस्य समन्त्रिणः ॥ १४ ॥
सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः ।पुनरेवागमत्क्षिप्रमशोकवनिकां तदा ॥ १५ ॥
सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम् ।प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम् ॥ १६ ॥
तां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम् ।परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् ॥ १७ ॥
इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः ।क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः ॥ १८ ॥
एवमुक्ता तु सरमा सीतया वेपमानया ।कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः ॥ १९ ॥
जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः ।अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः ॥ २० ॥
दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली ।निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् ॥ २१ ॥
लङ्घनं च समुद्रस्य दर्शनं च हनूमतः ।वधं च रक्षसां युद्धे कः कुर्यान्मानुषो भुवि ॥ २२ ॥
एवं स मन्त्रिवृद्धैश्च मात्रा च बहु भाषितः ।न त्वामुत्सहते मोक्तुमर्तह्मर्थपरो यथा ॥ २३ ॥
नोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि ।सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते ॥ २४ ॥
तदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता ।भयान्न शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे ।राक्षसानां च सर्वेषामात्मनश्च वधेन हि ॥ २५ ॥
निहत्य रावणं संख्ये सर्वथा निशितैः शरैः ।प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे ॥ २६ ॥
एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः ।श्रुतो वै सर्वसैन्यानां कम्पयन्धरणीतलम् ॥ २७ ॥
श्रुत्वा तु तं वानरसैन्यशब्दं लङ्कागता राक्षसराजभृत्याः ।नष्टौजसो दैन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषैः ॥ २८ ॥
« »