Click on words to see what they mean.

उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् ।अविदूरे स्थितं रामं प्रत्युवाच विभीषणः ॥ १ ॥
स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः ।अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् ॥ २ ॥
तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः ।विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् ॥ ३ ॥
कृतप्रयत्नकर्माणो विभीषण वनौकसः ।रत्नैरर्थैश्च विविभैर्भूषणैश्चाभिपूजय ॥ ४ ॥
सहैभिरर्दिता लङ्का निर्जिता राक्षसेश्वर ।हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः ॥ ५ ॥
एवं संमानिताश्चेमे मानार्हा मानद त्वया ।भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः ॥ ६ ॥
त्यागिनं संग्रहीतारं सानुक्रोशं यशस्विनम् ।यतस्त्वामवगच्छन्ति ततः संबोधयामि ते ॥ ७ ॥
एवमुक्तस्तु रामेण वानरांस्तान्विभीषणः ।रत्नार्थैः संविभागेन सर्वानेवान्वपूजयत् ॥ ८ ॥
ततस्तान्पूजितान्दृष्ट्वा रत्नैरर्थैश्च यूथपान् ।आरुरोह ततो रामस्तद्विमानमनुत्तमम् ॥ ९ ॥
अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् ।लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ॥ १० ॥
अब्रवीच्च विमानस्थः काकुत्स्थः सर्ववानरान् ।सुग्रीवं च महावीर्यं राक्षसं च विभीषणम् ॥ ११ ॥
मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः ।अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत ॥ १२ ॥
यत्तु कार्यं वयस्येन सुहृदा वा परंतप ।कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा ।किष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः ॥ १३ ॥
स्वराज्ये वस लङ्कायां मया दत्ते विभीषण ।न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ॥ १४ ॥
अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम ।अभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामि वः ॥ १५ ॥
एवमुक्तास्तु रामेण वानरास्ते महाबलाः ।ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः ।अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् ॥ १६ ॥
दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च ।अचिरेणागमिष्यामः स्वान्गृहान्नृपतेः सुत ॥ १७ ॥
एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः ।अब्रवीद्राघवः श्रीमान्ससुग्रीवविभीषणान् ॥ १८ ॥
प्रियात्प्रियतरं लब्धं यदहं ससुहृज्जनः ।सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ॥ १९ ॥
क्षिप्रमारोह सुग्रीव विमानं वानरैः सह ।त्वमध्यारोह सामात्यो राक्षसेन्द्रविभीषण ॥ २० ॥
ततस्तत्पुष्पकं दिव्यं सुग्रीवः सह सेनया ।अध्यारोहत्त्वरञ्शीघ्रं सामात्यश्च विभीषणः ॥ २१ ॥
तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् ।राघवेणाभ्यनुज्ञातमुत्पपात विहायसं ॥ २२ ॥
ययौ तेन विमानेन हंसयुक्तेन भास्वता ।प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ॥ २३ ॥
« »