Click on words to see what they mean.

ततो मूर्ध्ना निपतितं वानरं वानरर्षभः ।दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ॥ १ ॥
उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम ।अभयं ते भवेद्वीर सत्यमेवाभिधीयताम् ॥ २ ॥
स तु विश्वासितस्तेन सुग्रीवेण महात्मना ।उत्थाय च महाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् ॥ ३ ॥
नैवर्क्षरजसा राजन्न त्वया नापि वालिना ।वनं निसृष्टपूर्वं हि भक्षितं तत्तु वानरैः ॥ ४ ॥
एभिः प्रधर्षिताश्चैव वारिता वनरक्षिभिः ।मधून्यचिन्तयित्वेमान्भक्षयन्ति पिबन्ति च ॥ ५ ॥
शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरे ।निवार्यमाणास्ते सर्वे भ्रुवौ वै दर्शयन्ति हि ॥ ६ ॥
इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः ।वारयन्तो वनात्तस्मात्क्रुद्धैर्वानरपुंगवैः ॥ ७ ॥
ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभाः ।संरक्तनयनैः क्रोधाद्धरयः संप्रचालिताः ॥ ८ ॥
पाणिभिर्निहताः केचित्केचिज्जानुभिराहताः ।प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः ॥ ९ ॥
एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि ।कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ॥ १० ॥
एवं विज्ञाप्यमानं तु सुग्रीवं वानरर्षभम् ।अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ॥ ११ ॥
किमयं वानरो राजन्वनपः प्रत्युपस्थितः ।कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ॥ १२ ॥
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ १३ ॥
आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः ।अङ्गदप्रमुखैर्वीरैर्भक्षितं मधुवानरैः ॥ १४ ॥
नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः ।वनं यथाभिपन्नं तैः साधितं कर्म वानरैः ॥ १५ ॥
दृष्टा देवी न संदेहो न चान्येन हनूमता ।न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः ॥ १६ ॥
कार्यसिद्धिर्हनुमति मतिश्च हरिपुंगव ।व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् ॥ १७ ॥
जाम्बवान्यत्र नेता स्यादङ्गदस्य बलेश्वरः ।हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ॥ १८ ॥
अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल ।विचिन्त्य दक्षिणामाशामागतैर्हरिपुंगवैः ॥ १९ ॥
आगतैश्च प्रविष्टं तद्यथा मधुवनं हि तैः ।धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ।वारिताः सहिताः पालास्तथा जानुभिराहताः ॥ २० ॥
एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह ।नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ॥ २१ ॥
दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः ।अभिगम्य यथा सर्वे पिबन्ति मधु वानराः ॥ २२ ॥
न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ ।वनं दात्त वरं दिव्यं धर्षयेयुर्वनौकसः ॥ २३ ॥
ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः ।श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् ॥ २४ ॥
प्राहृष्यत भृशं रामो लक्ष्मणश्च महायशाः ।श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च ।वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ॥ २५ ॥
प्रीतोऽस्मि सौम्य यद्भुक्तं वनं तैः कृतकर्मभिः ।मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ॥ २६ ॥
इच्छामि शीघ्रं हनुमत्प्रधानान्शाखामृगांस्तान्मृगराजदर्पान् ।द्रष्टुं कृतार्थान्सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ॥ २७ ॥
« »