Click on words to see what they mean.

तानुवाच हरिश्रेष्ठो हनूमान्वानरर्षभः ।अव्यग्रमनसो यूयं मधु सेवत वानराः ॥ १ ॥
श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः ।प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु ॥ २ ॥
अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ।अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् ॥ ३ ॥
अन्दगस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः ।साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् ॥ ४ ॥
पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम् ।जग्मुर्मधुवनं यत्र नदीवेग इव द्रुतम् ॥ ५ ॥
ते प्रहृष्टा मधुवनं पालानाक्रम्य वीर्यतः ।अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् ॥ ६ ॥
उत्पत्य च ततः सर्वे वनपालान्समागताः ।ताडयन्ति स्म शतशः सक्तान्मधुवने तदा ॥ ७ ॥
मधूनि द्रोणमात्राणि बहुभिः परिगृह्य ते ।घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे ॥ ८ ॥
केचित्पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः ।मधूच्चिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः ॥ ९ ॥
अपरे वृक्षमूलेषु शाखां गृह्य व्यवस्थितः ।अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते ॥ १० ॥
उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् ।क्षिपन्त्यपि तथान्योन्यं स्खलन्त्यपि तथापरे ॥ ११ ॥
केचित्क्ष्वेडान्प्रकुर्वन्ति केचित्कूजन्ति हृष्टवत् ।हरयो मधुना मत्ताः केचित्सुप्ता महीतले ॥ १२ ॥
येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु ।तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः ॥ १३ ॥
जानुभिश्च प्रकृष्टाश्च देवमार्गं च दर्शिताः ।अब्रुवन्परमोद्विग्ना गत्वा दधिमुखं वचः ॥ १४ ॥
हनूमता दत्तवरैर्हतं मधुवनं बलात् ।वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः ॥ १५ ॥
ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः ।हतं मधुवनं श्रुत्वा सान्त्वयामास तान्हरीन् ॥ १६ ॥
एतागच्छत गच्छामो वानरानतिदर्पितान् ।बलेनावारयिष्यामो मधु भक्षयतो वयम् ॥ १७ ॥
श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः ।पुनर्वीरा मधुवनं तेनैव सहिता ययुः ॥ १८ ॥
मध्ये चैषां दधिमुखः प्रगृह्य सुमहातरुम् ।समभ्यधावद्वेगेना ते च सर्वे प्लवंगमाः ॥ १९ ॥
ते शिलाः पादपांश्चापि पाषाणांश्चापि वानराः ।गृहीत्वाभ्यागमन्क्रुद्धा यत्र ते कपिकुञ्जराः ॥ २० ॥
ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् ।त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः ॥ २१ ॥
वृक्षस्थांश्च तलस्थांश्च वानरान्बलदर्पितान् ।अभ्यक्रामन्त ते वीराः पालास्तत्र सहस्रशः ॥ २२ ॥
अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुंगवाः ।अभ्यधावन्त वेगेन हनूमत्प्रमुखास्तदा ॥ २३ ॥
तं सवृक्षं महाबाहुमापतन्तं महाबलम् ।आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः ॥ २४ ॥
मदान्धश न वेदैनमार्यकोऽयं ममेति सः ।अथैनं निष्पिपेषाशु वेगवद्वसुधातले ॥ २५ ॥
स भग्नबाहुर्विमुखो विह्वलः शोणितोक्षितः ।मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः ॥ २६ ॥
स कथंचिद्विमुक्तस्तैर्वानरैर्वानरर्षभः ।उवाचैकान्तमागम्य भृत्यांस्तान्समुपागतान् ॥ २७ ॥
एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः ।सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ॥ २८ ॥
सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिव ।अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ॥ २९ ॥
इष्टं मधुवनं ह्येतत्सुग्रीवस्य महात्मनः ।पितृपैतामहं दिव्यं देवैरपि दुरासदम् ॥ ३० ॥
स वानरानिमान्सर्वान्मधुलुब्धान्गतायुषः ।घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ॥ ३१ ॥
वध्या ह्येते दुरात्मानो नृपाज्ञा परिभाविनः ।अमर्षप्रभवो रोषः सफलो नो भविष्यति ॥ ३२ ॥
एवमुक्त्वा दधिमुखो वनपालान्महाबलः ।जगाम सहसोत्पत्य वनपालैः समन्वितः ॥ ३३ ॥
निमेषान्तरमात्रेण स हि प्राप्तो वनालयः ।सहस्रांशुसुतो धीमान्सुग्रीवो यत्र वानरः ॥ ३४ ॥
रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च ।समप्रतिष्ठां जगतीमाकाशान्निपपात ह ॥ ३५ ॥
स निपत्य महावीर्यः सर्वैस्तैः परिवारितः ।हरिर्दधिमुखः पालैः पालानां परमेश्वरः ॥ ३६ ॥
स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् ।सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ॥ ३७ ॥
« »