Click on words to see what they mean.

सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः ।प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ॥ १ ॥
यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा ।यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ॥ २ ॥
संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः ।द्रवतो मार्गमासाद्य हयानिव सुसारथिः ॥ ३ ॥
वामः कामो मनुष्याणां यस्मिन्किल निबध्यते ।जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ॥ ४ ॥
एतस्मात्कारणान्न तां घतयामि वरानने ।वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् ॥ ५ ॥
परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् ।तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः ॥ ६ ॥
एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः ।क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ॥ ७ ॥
द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः ।ततः शयनमारोह मम त्वं वरवर्णिनि ॥ ८ ॥
द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् ।मम त्वां प्रातराशार्थमारभन्ते महानसे ॥ ९ ॥
तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम् ।देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः ॥ १० ॥
ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः ।सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ॥ ११ ॥
ताभिराश्वासिता सीता रावणं राक्षसाधिपम् ।उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् ॥ १२ ॥
नूनं न ते जनः कश्चिदसिन्निःश्रेयसे स्थितः ।निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् ॥ १३ ॥
मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः ।त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः ॥ १४ ॥
राक्षसाधम रामस्य भार्याममिततेजसः ।उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे ॥ १५ ॥
यथा दृप्तश्च मातङ्गः शशश्च सहितौ वने ।तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः ॥ १६ ॥
स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे ।चक्षुषो विषयं तस्य न तावदुपगच्छसि ॥ १७ ॥
इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले ।क्षितौ न पतिते कस्मान्मामनार्यनिरीक्षितः ॥ १८ ॥
तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च ।कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते ॥ १९ ॥
असंदेशात्तु रामस्य तपसश्चानुपालनात् ।न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा ॥ २० ॥
नापहर्तुमहं शक्या तस्य रामस्य धीमतः ।विधिस्तव वधार्थाय विहितो नात्र संशयः ॥ २१ ॥
शूरेण धनदभ्राता बलैः समुदितेन च ।अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम् ॥ २२ ॥
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः ।विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ॥ २३ ॥
नीलजीमूतसंकाशो महाभुजशिरोधरः ।सिंहसत्त्वगतिः श्रीमान्दीप्तजिह्वोग्रलोचनः ॥ २४ ॥
चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः ।रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः ॥ २५ ॥
श्रोणीसूत्रेण महता मेककेन सुसंवृतः ।अमृतोत्पादनद्धेन भुजंगेनेव मन्दरः ॥ २६ ॥
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः ।रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ॥ २७ ॥
अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः ।उवाच रावणः सीतां भुजंग इव निःश्वसन् ॥ २८ ॥
अनयेनाभिसंपन्नमर्थहीनमनुव्रते ।नाशयाम्यहमद्य त्वां सूर्यः संध्यामिवौजसा ॥ २९ ॥
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ।संदिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः ॥ ३० ॥
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा ।गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् ॥ ३१ ॥
हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम् ।एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ॥ ३२ ॥
अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् ।अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् ।अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् ॥ ३३ ॥
यथा मद्वशगा सीता क्षिप्रं भवति जानकी ।तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ॥ ३४ ॥
प्रतिलोमानुलोमैश्च सामदानादिभेदनैः ।आवर्तयत वैदेहीं दण्डस्योद्यमनेन च ॥ ३५ ॥
इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः ।काममन्युपरीतात्मा जानकीं पर्यतर्जयत् ॥ ३६ ॥
उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी ।परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ॥ ३७ ॥
मया क्रीड महाराजसीतया किं तवानया ।अकामां कामयानस्य शरीरमुपतप्यते ।इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ॥ ३८ ॥
एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली ।ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ॥ ३९ ॥
देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः ।परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् ॥ ४० ॥
स मैथिलीं धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः ।विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम् ॥ ४१ ॥
« »