Click on words to see what they mean.

ततस्तदमृतास्वादं गृध्रराजेन भाषितम् ।निशम्य वदतो हृष्टास्ते वचः प्लवगर्षभाः ॥ १ ॥
जाम्बवान्वै हरिश्रेष्ठः सह सर्वैः प्लवंगमैः ।भूतलात्सहसोत्थाय गृध्रराजानमब्रवीत् ॥ २ ॥
क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् ।तदाख्यातु भवान्सर्वं गतिर्भव वनौकसाम् ॥ ३ ॥
को दाशरथिबाणानां वज्रवेगनिपातिनाम् ।स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ॥ ४ ॥
स हरीन्प्रीतिसंयुक्तान्सीता श्रुतिसमाहितान् ।पुनराश्वासयन्प्रीत इदं वचनमब्रवीत् ॥ ५ ॥
श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् ।येन चापि ममाख्यातं यत्र चायतलोचना ॥ ६ ॥
अहमस्मिन्गिरौ दुर्गे बहुयोजनमायते ।चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः ॥ ७ ॥
तं मामेवंगतं पुत्रः सुपार्श्वो नाम नामतः ।आहारेण यथाकालं बिभर्ति पततां वरः ॥ ८ ॥
तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजंगमाः ।मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् ॥ ९ ॥
स कदाचित्क्षुधार्तस्य मम चाहारकाङ्क्षिणः ।गतसूर्योऽहनि प्राप्तो मम पुत्रो ह्यनामिषः ॥ १० ॥
स मया वृद्धभावाच्च कोपाच्च परिभर्त्सितः ।क्षुत्पिपासा परीतेन कुमारः पततां वरः ॥ ११ ॥
स ममाहारसंरोधात्पीडितः प्रीतिवर्धनः ।अनुमान्य यथातत्त्वमिदं वचनमब्रवीत् ॥ १२ ॥
अहं तात यथाकालमामिषार्थी खमाप्लुतः ।महेन्द्रस्य गिरेर्द्वारमावृत्य च समास्थितः ॥ १३ ॥
तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम् ।पन्थानमेकोऽध्यवसं संनिरोद्धुमवाङ्मुखः ॥ १४ ॥
तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम् ।स्त्रियमादाय गच्छन्वै भिन्नाञ्जनचयोपमः ॥ १५ ॥
सोऽहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः ।तेन साम्ना विनीतेन पन्थानमभियाचितः ॥ १६ ॥
न हि सामोपपन्नानां प्रहर्ता विद्यते क्वचित् ।नीचेष्वपि जनः कश्चित्किमङ्ग बत मद्विधः ॥ १७ ॥
स यातस्तेजसा व्योम संक्षिपन्निव वेगतः ।अथाहं खे चरैर्भूतैरभिगम्य सभाजितः ॥ १८ ॥
दिष्ट्या जीवसि तातेति अब्रुवन्मां महर्षयः ।कथंचित्सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम् ॥ १९ ॥
एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः ।स च मे रावणो राजा रक्षसां प्रतिवेदितः ॥ २० ॥
हरन्दाशरथेर्भार्यां रामस्य जनकात्मजाम् ।भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् ॥ २१ ॥
रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम् ।एष कालात्ययस्तावदिति वाक्यविदां वरः ॥ २२ ॥
एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् ।तच्छ्रुत्वापि हि मे बुद्धिर्नासीत्काचित्पराक्रमे ॥ २३ ॥
अपक्षो हि कथं पक्षी कर्म किंचिदुपक्रमेत् ।यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना ॥ २४ ॥
श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् ।वाङ्मतिभ्यां हि सार्वेषां करिष्यामि प्रियं हि वः ।यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः ॥ २५ ॥
ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः ।सहिताः कपिराजेन देवैरपि दुरासदाः ॥ २६ ॥
रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः ।त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे ॥ २७ ॥
कामं खलु दशग्रीवस्तेजोबलसमन्वितः ।भवतां तु समर्थानां न किंचिदपि दुष्करम् ॥ २८ ॥
तदलं कालसंगेन क्रियतां बुद्धिनिश्चयः ।न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ २९ ॥
« »