Click on words to see what they mean.

प्रतिगृह्य च तत्सर्वमुपानयमुपाहृतम् ।वानरान्सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ॥ १ ॥
विसर्जयित्वा स हरीञ्शूरांस्तान्कृतकर्मणः ।मेने कृतार्थमात्मानं राघवं च महाबलम् ॥ २ ॥
स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् ।अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं संप्रहर्षयन् ।किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते ॥ ३ ॥
तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् ।सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह ॥ ४ ॥
एवं भवतु गच्छामः स्थेयं त्वच्छासने मया ।तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्ष्मणम् ॥ ५ ॥
विसर्जयामास तदा तारामन्याश्च योषितः ।एतेत्युच्चैर्हरिवरान्सुग्रीवः समुदाहरत् ॥ ६ ॥
तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः ।बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः ॥ ७ ॥
तानुवाच ततः प्राप्तान्राजार्कसदृशप्रभः ।उपस्थापयत क्षिप्रं शिबिकां मम वानराः ॥ ८ ॥
श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः ।समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् ॥ ९ ॥
तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः ।लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् ॥ १० ॥
इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम् ।बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः ॥ ११ ॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।शुक्लैश्च बालव्यजनैर्धूयमानैः समन्ततः ॥ १२ ॥
शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः ।निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् ॥ १३ ॥
स वानरशतैस्तीष्क्णैर्बहुभिः शस्त्रपाणिभिः ।परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ॥ १४ ॥
स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् ।अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः ॥ १५ ॥
आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत् ।कृताञ्जलौ स्थिते तस्मिन्वानराश्चभवंस्तथा ॥ १६ ॥
तटाकमिव तद्दृष्ट्वा रामः कुड्मलपङ्कजम् ।वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् ॥ १७ ॥
पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् ।प्रेंणा च बहुमानाच्च राघवः परिषस्वजे ॥ १८ ॥
परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् ।तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः ॥ १९ ॥
धर्ममर्थं च कामं च काले यस्तु निषेवते ।विभज्य सततं वीर स राजा हरिसत्तम ॥ २० ॥
हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते ।स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ॥ २१ ॥
अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः ।त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते ॥ २२ ॥
उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन ।संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः ॥ २३ ॥
एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् ॥ २४ ॥
प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ।त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया ॥ २५ ॥
तव देवप्रसदाच्च भ्रातुश्च जयतां वर ।कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः ॥ २६ ॥
एते वानरमुख्याश्च शतशः शत्रुसूदन ।प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् ॥ २७ ॥
ऋक्षाश्चावहिताः शूरा गोलाङ्गूलाश्च राघव ।कान्तार वनदुर्गाणामभिज्ञा घोरदर्शनाः ॥ २८ ॥
देवगन्धर्वपुत्राश्च वानराः कामरूपिणः ।स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव ॥ २९ ॥
शतैः शतसहस्रैश्च कोटिभिश्च प्लवंगमाः ।अयुतैश्चावृता वीरा शङ्कुभिश्च परंतप ॥ ३० ॥
अर्बुदैरर्बुदशतैर्मध्यैश्चान्तैश्च वानराः ।समुद्रैश्च परार्धैश्च हरयो हरियूथपाः ॥ ३१ ॥
आगमिष्यन्ति ते राजन्महेन्द्रसमविक्रमाः ।मेरुमन्दरसंकाशा विन्ध्यमेरुकृतालयाः ॥ ३२ ॥
ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम् ।निहत्य रावणं संख्ये ह्यानयिष्यन्ति मैथिलीम् ॥ ३३ ॥
ततस्तमुद्योगमवेक्ष्य बुद्धिमान्हरिप्रवीरस्य निदेशवर्तिनः ।बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः ॥ ३४ ॥
« »