Click on words to see what they mean.

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।हनुमन्तं स्थितं पार्श्वे सचिवं वाक्यमब्रवीत् ॥ १ ॥
महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च ।मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ॥ २ ॥
तरुणादित्यवर्णेषु भ्राजमानेषु सर्वशः ।पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि ॥ ३ ॥
आदित्यभवने चैव गिरौ संध्याभ्रसंनिभे ।पद्मतालवनं भीमं संश्रिता हरिपुंगवाः ॥ ४ ॥
अञ्जनाम्बुदसंकाशाः कुञ्जरप्रतिमौजसः ।अञ्जने परते चैव ये वसन्ति प्लवंगमाः ॥ ५ ॥
मनःशिला गुहावासा वानराः कनकप्रभाः ।मेरुपार्श्वगताश्चैव ये च धूम्रगिरिं श्रिताः ॥ ६ ॥
तरुणादित्यवर्णाश्च पर्वते ये महारुणे ।पिबन्तो मधुमैरेयं भीमवेगाः प्लवंगमाः ॥ ७ ॥
वनेषु च सुरम्येषु सुगन्धिषु महत्सु च ।तापसानां च रम्येषु वनान्तेषु समन्ततः ॥ ८ ॥
तांस्तांस्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान् ।सामदानादिभिः कल्पैराशु प्रेषय वानरान् ॥ ९ ॥
प्रेषिताः प्रथमं ये च मया दूता महाजवाः ।त्वरणार्थं तु भूयस्त्वं हरीन्संप्रेषयापरान् ॥ १० ॥
ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः ।इहानयस्व तान्सर्वाञ्शीघ्रं तु मम शासनात् ॥ ११ ॥
अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया ।हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ॥ १२ ॥
शतान्यथ सहस्राणि कोट्यश्च मम शासनात् ।प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः ॥ १३ ॥
मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम् ।घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ॥ १४ ॥
ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः ।आनयन्तु हरीन्सर्वांस्त्वरिताः शासनान्मम ॥ १५ ॥
तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः ।दिक्षु सर्वासु विक्रान्तान्प्रेषयामास वानरान् ॥ १६ ॥
ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः ।प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै ॥ १७ ॥
ते समुद्रेषु गिरिषु वनेषु च सरित्सु च ।वानरा वानरान्सर्वान्रामहेतोरचोदयन् ॥ १८ ॥
मृत्युकालोपमस्याज्ञां राजराजस्य वानराः ।सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः ॥ १९ ॥
ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाजवाः ।तिस्रः कोट्यः प्लवंगानां निर्ययुर्यत्र राघवः ॥ २० ॥
अस्तं गच्छति यत्रार्कस्तस्मिन्गिरिवरे रताः ।तप्तहेमसमाभासास्तस्मात्कोट्यो दशच्युताः ॥ २१ ॥
कैलास शिखरेभ्यश्च सिंहकेसरवर्चसाम् ।ततः कोटिसहस्राणि वानराणामुपागमन् ॥ २२ ॥
फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः ।तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥ २३ ॥
अङ्गारक समानानां भीमानां भीमकर्मणाम् ।विन्ध्याद्वानरकोटीनां सहस्राण्यपतन्द्रुतम् ॥ २४ ॥
क्षीरोदवेलानिलयास्तमालवनवासिनः ।नारिकेलाशनाश्चैव तेषां संख्या न विद्यते ॥ २५ ॥
वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवाः ।आगच्छद्वानरी सेना पिबन्तीव दिवाकरम् ॥ २६ ॥
ये तु त्वरयितुं याता वानराः सर्ववानरान् ।ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम् ॥ २७ ॥
तस्मिन्गिरिवरे रम्ये यज्ञो महेश्वरः पुरा ।सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः ॥ २८ ॥
अन्नविष्यन्दजातानि मूलानि च फलानि च ।अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः ॥ २९ ॥
तदन्न संभवं दिव्यं फलं मूलं मनोहरम् ।यः कश्चित्सकृदश्नाति मासं भवति तर्पितः ॥ ३० ॥
तानि मूलानि दिव्यानि फलानि च फलाशनाः ।औषधानि च दिव्यानि जगृहुर्हरियूथपाः ॥ ३१ ॥
तस्माच्च यज्ञायतनात्पुष्पाणि सुरभीणि च ।आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् ॥ ३२ ॥
ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् ।संचोदयित्वा त्वरितं यूथानां जग्मुरग्रतः ॥ ३३ ॥
ते तु तेन मुहूर्तेन यूथपाः शीघ्रकारिणः ।किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥ ३४ ॥
ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः ।तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् ॥ ३५ ॥
सर्वे परिगताः शैलाः समुद्राश्च वनानि च ।पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते ॥ ३६ ॥
एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः ।प्रतिजग्राह च प्रीतस्तेषां सर्वमुपायनम् ॥ ३७ ॥
« »