Click on words to see what they mean.

अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा ।प्रविवेश गुहां घोरां किष्किन्धां रामशासनात् ॥ १ ॥
द्वारस्था हरयस्तत्र महाकाया महाबलाः ।बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः ॥ २ ॥
निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम् ।बभूवुर्हरयस्त्रस्ता न चैनं पर्यवारयन् ॥ ३ ॥
स तं रत्नमयीं श्रीमान्दिव्यां पुष्पितकाननाम् ।रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम् ॥ ४ ॥
हर्म्यप्रासादसंबाधां नानापण्योपशोभिताम् ।सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम् ॥ ५ ॥
देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः ।दिव्य माल्याम्बरधारैः शोभितां प्रियदर्शनैः ॥ ६ ॥
चन्दनागरुपद्मानां गन्धैः सुरभिगन्धिनाम् ।मैरेयाणां मधूनां च संमोदितमहापथाम् ॥ ७ ॥
विन्ध्यमेरुगिरिप्रस्थैः प्रासादैर्नैकभूमिभिः ।ददर्श गिरिनद्यश्च विमलास्तत्र राघवः ॥ ८ ॥
अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च ।गवयस्य गवाक्षस्य गजस्य शरभस्य च ॥ ९ ॥
विद्युन्मालेश्च संपातेः सूर्याक्षस्य हनूमतः ।वीरबाहोः सुबाहोश्च नलस्य च महात्मनः ॥ १० ॥
कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा ।दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः ॥ ११ ॥
एतेषां कपिमुख्यानां राजमार्गे महात्मनाम् ।ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः ॥ १२ ॥
पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च ।प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च ॥ १३ ॥
पाण्डुरेण तु शैलेन परिक्षिप्तं दुरासदम् ।वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम् ॥ १४ ॥
शुल्कैः प्रासादशिखरैः कैलासशिखरोपमैः ।सर्वकामफलैर्वृक्षैः पुष्टितैरुपशोभितम् ॥ १५ ॥
महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसंनिभैः ।दिव्यपुष्पफलैर्वृक्षैः शीतच्छायैर्मनोरमैः ॥ १६ ॥
हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः ।दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम् ॥ १७ ॥
सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः ।अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः ॥ १८ ॥
स सप्त कक्ष्या धर्मात्मा यानासनसमावृताः ।प्रविश्य सुमहद्गुप्तं ददर्शान्तःपुरं महत् ॥ १९ ॥
हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः ।महार्हास्तरणोपेतैस्तत्र तत्रोपशोभितम् ॥ २० ॥
प्रविशन्नेव सततं शुश्राव मधुरस्वरम् ।तन्त्रीगीतसमाकीर्णं समगीतपदाक्षरम् ॥ २१ ॥
बह्वीश्च विविधाकारा रूपयौवनगर्विताः ।स्त्रियः सुग्रीवभवने ददर्श स महाबलः ॥ २२ ॥
दृष्ट्वाभिजनसंपन्नाश्चित्रमाल्यकृतस्रजः ।वरमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः ॥ २३ ॥
नातृप्तान्नाति च व्यग्रान्नानुदात्तपरिच्छदान् ।सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः ॥ २४ ॥
ततः सुग्रीवमासीनं काञ्चने परमासने ।महार्हास्तरणोपेते ददर्शादित्यसंनिभम् ॥ २५ ॥
दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम् ।दिव्यमाल्याम्बरधरं महेन्द्रमिव दुर्जयम् ।दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम् ॥ २६ ॥
रुमां तु वीरः परिरभ्य गाढं वरासनस्थो वरहेमवर्णः ।ददर्श सौमित्रिमदीनसत्त्वं विशालनेत्रः सुविशालनेत्रम् ॥ २७ ॥
« »