ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवासनम् ।शाखामृगमहामात्राः परिवार्योपतस्थिरे ॥ १ ॥
अभिगम्य महाबाहुं राममक्लिष्टकारिणम् ।स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः ॥ २ ॥
ततः काञ्चनशैलाभस्तरुणार्कनिभाननः ।अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः ॥ ३ ॥
भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत् ।वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो ॥ ४ ॥
भवता समनुज्ञातः प्रविश्य नगरं शुभम् ।संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः ॥ ५ ॥
स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि ।अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः ॥ ६ ॥
इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसि ।कुरुष्व स्वामि संबन्धं वानरान्संप्रहर्षयन् ॥ ७ ॥
एवमुक्तो हनुमता राघवः परवीरहा ।प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः ॥ ८ ॥
चतुर्दशसमाः सौम्य ग्रामं वा यदि वा पुरम् ।न प्रवेक्ष्यामि हनुमन्पितुर्निर्देशपालकः ॥ ९ ॥
सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः ।प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम् ॥ १० ॥
एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत् ।इममप्यङ्गदं वीर यौवराज्येऽभिषेचय ॥ ११ ॥
पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः ।प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिताः ॥ १२ ॥
नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् ।अस्मिन्वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः ॥ १३ ॥
इयं गिरिगुहा रम्या विशाला युक्तमारुता ।प्रभूतसलिला सौम्य प्रभूतकमलोत्पला ॥ १४ ॥
कार्तिके समनुप्राप्ते त्वं रावणवधे यत ।एष नः समयः सौम्य प्रविश त्वं स्वमालयम् ।अभिषिञ्चस्व राज्ये च सुहृदः संप्रहर्षय ॥ १५ ॥
इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः ।प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् ॥ १६ ॥
तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् ।अभिवाद्य प्रहृष्टानि सर्वतः पर्यवारयन् ॥ १७ ॥
ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् ।प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः ॥ १८ ॥
सुग्रीवः प्रकृतीः सर्वाः संभाष्योत्थाप्य वीर्यवान् ।भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः ॥ १९ ॥
प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं वानरर्षभम् ।अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः ॥ २० ॥
तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम् ।शुक्ले च बालव्यजने हेमदण्डे यशस्करे ॥ २१ ॥
तथा सर्वाणि रत्नानि सर्वबीजौषधानि च ।सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च ॥ २२ ॥
शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् ।सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च ॥ २३ ॥
चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून् ।अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी ॥ २४ ॥
दधिचर्म च वैयाघ्रं वाराही चाप्युपानहौ ।समालम्भनमादाय रोचनां समनःशिलाम् ।आजग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश ॥ २५ ॥
ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि ।रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान् ॥ २६ ॥
ततः कुशपरिस्तीर्णं समिद्धं जातवेदसं ।मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः ॥ २७ ॥
ततो हेमप्रतिष्ठाने वरास्तरणसंवृते ।प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ॥ २८ ॥
प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने ।नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः ॥ २९ ॥
आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः ।अपः कनककुम्भेषु निधाय विमलाः शुभाः ॥ ३० ॥
शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः ।शास्त्रदृष्टेन विधिना महर्षिविहितेन च ॥ ३१ ॥
गजो गवाक्षो गवयः शरभो गन्धमादनः ।मैन्दश्च द्विविदश्चैव हनूमाञ्जाम्बवान्नलः ॥ ३२ ॥
अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना ।सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ३३ ॥
अभिषिक्ते तु सुग्रीवे सर्वे वानरपुंगवाः ।प्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः ॥ ३४ ॥
रामस्य तु वचः कुर्वन्सुग्रीवो हरिपुंगवः ।अङ्गदं संपरिष्वज्य यौवराज्येऽभिषेचयत् ॥ ३५ ॥
अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवंगमाः ।साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन् ॥ ३६ ॥
हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता ।बभूव नगरी रम्या क्षिकिन्धा गिरिगह्वरे ॥ ३७ ॥
निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः ।रुमां च भार्यां प्रतिलभ्य वीर्यवानवाप राज्यं त्रिदशाधिपो यथा ॥ ३८ ॥