Click on words to see what they mean.

गतासुं वालिनं दृष्ट्वा राघवस्तदनन्तरम् ।अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं शत्रुतापनः ॥ १ ॥
न शोकपरितापेन श्रेयसा युज्यते मृतः ।यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ ॥ २ ॥
लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् ।न कालादुत्तरं किंचित्कर्म शक्यमुपासितुम् ॥ ३ ॥
नियतः कारणं लोके नियतिः कर्मसाधनम् ।नियतिः सर्वभूतानां नियोगेष्विह कारणम् ॥ ४ ॥
न कर्ता कस्यचित्कश्चिन्नियोगे चापि नेश्वरः ।स्वभावे वर्तते लोकस्तस्य कालः परायणम् ॥ ५ ॥
न कालः कालमत्येति न कालः परिहीयते ।स्वभावं वा समासाद्य न कश्चिदतिवर्तते ॥ ६ ॥
न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः ।न मित्रज्ञातिसंबन्धः कारणं नात्मनो वशः ॥ ७ ॥
किं तु काल परीणामो द्रष्टव्यः साधु पश्यता ।धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः ॥ ८ ॥
इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम् ।धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वर ॥ ९ ॥
स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना ।स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता ॥ १० ॥
एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः ।तदलं परितापेन प्राप्तकालमुपास्यताम् ॥ ११ ॥
वचनान्ते तु रामस्य लक्ष्मणः परवीरहा ।अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसं ॥ १२ ॥
कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् ।ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति ॥ १३ ॥
समाज्ञापय काष्ठानि शुष्काणि च बहूनि च ।चन्दनानि च दिव्यानि वालिसंस्कारकारणात् ॥ १४ ॥
समाश्वासय चैनं त्वमङ्गदं दीनचेतसं ।मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम् ॥ १५ ॥
अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च ।घृतं तैलमथो गन्धान्यच्चात्र समनन्तरम् ॥ १६ ॥
त्वं तार शिबिकां शीघ्रमादायागच्छ संभ्रमात् ।त्वरा गुणवती युक्ता ह्यस्मिन्काले विशेषतः ॥ १७ ॥
सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः ।समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम् ॥ १८ ॥
एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः ।तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा ॥ १९ ॥
लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्तमानसः ।प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः ॥ २० ॥
आदाय शिबिकां तारः स तु पर्यापयत्पुनः ।वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः ॥ २१ ॥
ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा ।आरोपयत विक्रोशन्नङ्गदेन सहैव तु ॥ २२ ॥
आरोप्य शिबिकां चैव वालिनं गतजीवितम् ।अलंकारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम् ॥ २३ ॥
आज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरः ।और्ध्वदेहिकमार्यस्य क्रियतामनुरूपतः ॥ २४ ॥
विश्राणयन्तो रत्नानि विविधानि बहूनि च ।अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम् ॥ २५ ॥
राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः ।तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकम् ॥ २६ ॥
अङ्गदमप्रिगृह्याशु तारप्रभृतयस्तथा ।क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः ॥ २७ ॥
ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः ।अनुजग्मुर्हि भर्तारं क्रोशन्त्यः करुणस्वनाः ॥ २८ ॥
तासां रुदितशब्देन वानरीणां वनान्तरे ।वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः ॥ २९ ॥
पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते ।चितां चक्रुः सुबहवो वानरा वनचारिणः ॥ ३० ॥
अवरोप्य ततः स्कन्धाच्छिबिकां वहनोचिताः ।तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः ॥ ३१ ॥
ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम् ।आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता ॥ ३२ ॥
जनं च पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् ।प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद ।अस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा ॥ ३३ ॥
एष त्वां रामरूपेण कालः कर्षति वानर ।येन स्म विधवाः सर्वाः कृता एकेषुणा रणे ॥ ३४ ॥
इमास्तास्तव राजेन्द्रवानर्यो वल्लभाः सदा ।पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे ॥ ३५ ॥
तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः ।इदानीं नेक्षसे कस्मात्सुग्रीवं प्लवगेश्वरम् ॥ ३६ ॥
एते हि सचिवा राजंस्तारप्रभृतयस्तव ।पुरवासिजनश्चायं परिवार्यासतेऽनघ ॥ ३७ ॥
विसर्जयैनान्प्रवलान्यथोचितमरिंदम ।ततः क्रीडामहे सर्वा वनेषु मदिरोत्कटाः ॥ ३८ ॥
एवं विलपतीं तारां पतिशोकपरिप्लुताम् ।उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः ॥ ३९ ॥
सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन् ।चितामारोपयामास शोकेनाभिहतेन्द्रियः ॥ ४० ॥
ततोऽग्निं विधिवद्दत्त्वा सोऽपसव्यं चकार ह ।पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः ॥ ४१ ॥
संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवंगमाः ।आजग्मुरुदकं कर्तुं नदीं शीतजलां शुभाम् ॥ ४२ ॥
ततस्ते सहितास्तत्र अङ्गदं स्थाप्य चाग्रतः ।सुग्रीवतारासहिताः सिषिचुर्वालिने जलम् ॥ ४३ ॥
सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः ।समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् ॥ ४४ ॥
« »