Click on words to see what they mean.

अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ।आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ॥ १ ॥
शार्दूलमृगसंघुष्टं सिंहैर्भीमरवैर्वृतम् ।नानागुल्मलतागूढं बहुपादपसंकुलम् ॥ २ ॥
ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् ।मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् ॥ ३ ॥
तस्य शैलस्य शिखरे महतीमायतां गुहाम् ।प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह ॥ ४ ॥
अवसत्तत्र धर्मात्मा राघवः सहलक्ष्मणः ।बहुदृश्यदरीकुञ्जे तस्मिन्प्रस्रवणे गिरौ ॥ ५ ॥
सुसुखेऽपि बहुद्रव्ये तस्मिन्हि धरणीधरे ।वसतस्तस्य रामस्य रतिरल्पापि नाभवत् ।हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् ॥ ६ ॥
उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः ।आविवेश न तं निद्रा निशासु शयनं गतम् ॥ ७ ॥
तत्समुत्थेन शोकेन बाष्पोपहतचेतसं ।तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् ।तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन्वचः ॥ ८ ॥
अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि ।शोचतो ह्यवसीदन्ति सर्वार्था विदितं हि ते ॥ ९ ॥
भवान्क्रियापरो लोके भवान्देवपरायणः ।आस्तिको धर्मशीलश्च व्यवसायी च राघव ॥ १० ॥
न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः ।समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम् ॥ ११ ॥
समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु ।ततः सपरिवारं तं निर्मूलं कुरु राक्षसं ॥ १२ ॥
पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् ।परिवर्तयितुं शक्तः किमङ्ग पुन रावणम् ॥ १३ ॥
अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये ।दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम् ॥ १४ ॥
लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् ।राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत् ॥ १५ ॥
वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च ।सत्यविक्रम युक्तेन तदुक्तं लक्ष्मण त्वया ॥ १६ ॥
एष शोकः परित्यक्तः सर्वकार्यावसादकः ।विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् ॥ १७ ॥
शरत्कालं प्रतीक्षेऽहमियं प्रावृडुपस्थिता ।ततः सराष्ट्रं सगणं राक्षसं तं निहन्म्यहम् ॥ १८ ॥
तस्य तद्वचनं श्रुत्वा हृष्टो रामस्य लक्ष्मणः ।पुनरेवाब्रवीद्वाक्यं सौमित्रिर्मित्रनन्दनः ॥ १९ ॥
एतत्ते सदृशं वाक्यमुक्तं शत्रुनिबर्हण ।इदानीमसि काकुत्स्थ प्रकृतिं स्वामुपागतः ॥ २० ॥
विज्ञाय ह्यात्मनो वीर्यं तथ्यं भवितुमर्हसि ।एतत्सदृशमुक्तं ते श्रुतस्याभिजनस्य च ॥ २१ ॥
तस्मात्पुरुषशार्दूल चिन्तयञ्शत्रुनिग्रहम् ।वर्षारात्रमनुप्राप्तमतिक्रामय राघव ॥ २२ ॥
नियम्य कोपं प्रतिपाल्यतां शरत्क्षमस्व मासांश्चतुरो मया सह ।वसाचलेऽस्मिन्मृगराजसेविते संवर्धयञ्शत्रुवधे समुद्यतः ॥ २३ ॥
« »