Click on words to see what they mean.

ततः शूर्पणखा दीना रावणं लोकरावणम् ।अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत् ॥ १ ॥
प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः ।समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे ॥ २ ॥
सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् ।लुब्धं न बहु मन्यन्ते श्मशानाग्निमिव प्रजाः ॥ ३ ॥
स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः ।स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति ॥ ४ ॥
अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम् ।वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः ॥ ५ ॥
ये न रक्षन्ति विषयमस्वाधीना नराधिपः ।ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ॥ ६ ॥
आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः ।अयुक्तचारश्चपलः कथं राजा भविष्यसि ॥ ७ ॥
येषां चारश्च कोशश्च नयश्च जयतां वर ।अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः ॥ ८ ॥
यस्मात्पश्यन्ति दूरस्थान्सर्वानर्थान्नराधिपाः ।चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः ॥ ९ ॥
अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम् ।स्वजनं च जनस्थानं हतं यो नावबुध्यसे ॥ १० ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।हतान्येकेन रामेण खरश्च सहदूषणः ॥ ११ ॥
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ।धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा ॥ १२ ॥
त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावण ।विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे ॥ १३ ॥
तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम् ।व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् ॥ १४ ॥
अतिमानिनमग्राह्यमात्मसंभावितं नरम् ।क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम् ॥ १५ ॥
नानुतिष्ठति कार्याणि भयेषु न बिभेति च ।क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भविष्यति ॥ १६ ॥
शुष्ककाष्ठैर्भवेत्कार्यं लोष्टैरपि च पांसुभिः ।न तु स्थानात्परिभ्रष्टैः कार्यं स्याद्वसुधाधिपैः ॥ १७ ॥
उपभुक्तं यथा वासः स्रजो वा मृदिता यथा ।एवं राज्यात्परिभ्रष्टः समर्थोऽपि निरर्थकः ॥ १८ ॥
अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः ।कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ॥ १९ ॥
नयनाभ्यां प्रसुप्तोऽपि जागर्ति नयचक्षुषा ।व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः ॥ २० ॥
त्वं तु रावणदुर्बुद्धिर्गुणैरेतैर्विवर्जितः ।यस्य तेऽविदितश्चारै रक्षसां सुमहान्वधः ॥ २१ ॥
परावमन्ता विषयेषु संगतो नदेश कालप्रविभाग तत्त्ववित् ।अयुक्तबुद्धिर्गुणदोषनिश्चये विपन्नराज्यो न चिराद्विपत्स्यते ॥ २२ ॥
इति स्वदोषान्परिकीर्तितांस्तया समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः ।धनेन दर्पेण बलेन चान्वितो विचिन्तयामास चिरं स रावणः ॥ २३ ॥
« »