Click on words to see what they mean.

ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः ।शोचतामेव रजनी दुःखेन व्यत्यवर्तत ॥ १ ॥
रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः ।मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥ २ ॥
तूष्णीं ते समुपासीना न कश्चित्किंचिदब्रवीत् ।भरतस्तु सुहृन्मध्ये रामवचनमब्रवीत् ॥ ३ ॥
सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥ ४ ॥
महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे ।दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥ ५ ॥
गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः ।अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥ ६ ॥
सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते ।राम तेन तु दुर्जीवं यः परानुपजीवति ॥ ७ ॥
यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः ।ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः ॥ ८ ॥
स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत् ।स तां नानुभवेत्प्रीतिं यस्य हेतोः प्रभावितः ॥ ९ ॥
एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि ।यदि त्वमस्मानृषभो भर्ता भृत्यान्न शाधि हि ॥ १० ॥
श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः ।प्रतपन्तमिवादित्यं राज्ये स्थितमरिंदमम् ॥ ११ ॥
तवानुयाने काकुत्ष्ठ मत्ता नर्दन्तु कुञ्जराः ।अन्तःपुर गता नार्यो नन्दन्तु सुसमाहिताः ॥ १२ ॥
तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः ।भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः ॥ १३ ॥
तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् ।रामः कृतात्मा भरतं समाश्वासयदात्मवान् ॥ १४ ॥
नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः ।इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥ १५ ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ १६ ॥
यथा फलानं पक्वानां नान्यत्र पतनाद्भयम् ।एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ १७ ॥
यथागारं दृढस्थूणं जीर्णं भूत्वावसीदति ।तथावसीदन्ति नरा जरामृत्युवशं गताः ॥ १८ ॥
अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥ १९ ॥
आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ २० ॥
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।गत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते ॥ २१ ॥
गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः ।जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥ २२ ॥
नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ ।आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ २३ ॥
हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिहागतम् ।ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः ॥ २४ ॥
यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।समेत्य च व्यपेयातां कालमासाद्य कंचन ॥ २५ ॥
एवं भार्याश्च पुत्राश्च ज्ञातयश्च वसूनि च ।समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥ २६ ॥
नात्र कश्चिद्यथा भावं प्राणी समभिवर्तते ।तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः ॥ २७ ॥
यथा हि सार्थं गच्छन्तं ब्रूयात्कश्चित्पथि स्थितः ।अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ २८ ॥
एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः ।तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ॥ २९ ॥
वयसः पतमानस्य स्रोतसो वानिवर्तिनः ।आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ॥ ३० ॥
धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः ।धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः ॥ ३१ ॥
भृत्यानां भरणात्सम्यक्प्रजानां परिपालनात् ।अर्थादानाच्च धार्मेण पिता नस्त्रिदिवं गतः ॥ ३२ ॥
इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् ।उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥ ३३ ॥
स जीर्णं मानुषं देहं परित्यज्य पिता हि नः ।दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥ ३४ ॥
तं तु नैवं विधः कश्चित्प्राज्ञः शोचितुमर्हति ।त्वद्विधो यद्विधश्चापि श्रुतवान्बुद्धिमत्तरः ॥ ३५ ॥
एते बहुविधाः शोका विलाप रुदिते तथा ।वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ ३६ ॥
स स्वस्थो भव मा शोचो यात्वा चावस तां पुरीम् ।तथा पित्रा नियुक्तोऽसि वशिना वदताम्व्वर ॥ ३७ ॥
यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा ।तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम् ॥ ३८ ॥
न मया शासनं तस्य त्यक्तुं न्याय्यमरिंदम ।तत्त्वयापि सदा मान्यं स वै बन्धुः स नः पिता ॥ ३९ ॥
एवमुक्त्वा तु विरते रामे वचनमर्थवत् ।उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः ॥ ४० ॥
को हि स्यादीदृशो लोके यादृशस्त्वमरिंदम ।न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत् ॥ ४१ ॥
संमतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ।यथा मृतस्तथा जीवन्यथासति तथा सति ॥ ४२ ॥
यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः ।स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥ ४३ ॥
अमरोपमसत्त्वस्त्वं महात्मा सत्यसंगरः ।सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव ॥ ४४ ॥
न त्वामेवं गुणैर्युक्तं प्रभवाभवकोविदम् ।अविषह्यतमं दुःखमासादयितुमर्हति ॥ ४५ ॥
प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् ।क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥ ४६ ॥
धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम् ।हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ॥ ४७ ॥
कथं दशरथाज्जातः शुद्धाभिजनकर्मणः ।जानन्धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम् ॥ ४८ ॥
गुरुः क्रियावान्वृद्धश्च राजा प्रेतः पितेति च ।तातं न परिगर्हेयं दैवतं चेति संसदि ॥ ४९ ॥
को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् ।स्त्रियाः प्रियचिकीर्षुः सन्कुर्याद्धर्मज्ञ धर्मवित् ॥ ५० ॥
अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः ।राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता ॥ ५१ ॥
साध्वर्थमभिसंधाय क्रोधान्मोहाच्च साहसात् ।तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥ ५२ ॥
पितुर्हि समतिक्रान्तं पुत्रो यः साधु मन्यते ।तदपत्यं मतं लोके विपरीतमतोऽन्यथा ॥ ५३ ॥
तदपत्यं भवानस्तु मा भवान्दुष्कृतं पितुः ।अभिपत्तत्कृतं कर्म लोके धीरविगर्हितम् ॥ ५४ ॥
कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः ।पौरजानपदान्सर्वांस्त्रातु सर्वमिदं भवान् ॥ ५५ ॥
क्व चारण्यं क्व च क्षात्रं क्व जटाः क्व च पालनम् ।ईदृशं व्याहतं कर्म न भवान्कर्तुमर्हति ॥ ५६ ॥
अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि ।धर्मेण चतुरो वर्णान्पालयन्क्लेशमाप्नुहि ॥ ५७ ॥
चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् ।आहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ॥ ५८ ॥
श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् ।स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ ५९ ॥
हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् ।भवता च विना भूतो न वर्तयितुमुत्सहे ॥ ६० ॥
इदं निखिलमव्यग्रं पित्र्यं राज्यमकण्टकम् ।अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः ॥ ६१ ॥
इहैव त्वाभिषिञ्चन्तु धर्मज्ञ सह बान्धवैः ।ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः ॥ ६२ ॥
अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज ।विजित्य तरसा लोकान्मरुद्भिरिव वासवः ॥ ६३ ॥
ऋणानि त्रीण्यपाकुर्वन्दुर्हृदः साधु निर्दहन् ।सुहृदस्तर्पयन्कामैस्त्वमेवात्रानुशाधि माम् ॥ ६४ ॥
अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने ।अद्य भीताः पालयन्तां दुर्हृदस्ते दिशो दश ॥ ६५ ॥
आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।अद्य तत्र भवन्तं च पितरं रक्ष किल्बिषात् ॥ ६६ ॥
शिरसा त्वाभियाचेऽहं कुरुष्व करुणां मयि ।बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः ॥ ६७ ॥
अथ वा पृष्ठतः कृत्वा वनमेव भवानितः ।गमिष्यति गमिष्यामि भवता सार्धमप्यहम् ॥ ६८ ॥
तथापि रामो भरतेन ताम्यत प्रसाद्यमानः शिरसा महीपतिः ।न चैव चक्रे गमनाय सत्त्ववान्मतिं पितुस्तद्वचने प्रतिष्ठितः ॥ ६९ ॥
तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखितः ।न यात्ययोध्यामिति दुःखितोऽभवत्स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः ॥ ७० ॥
तमृत्विजो नैगमयूथवल्लभास्तथा विसंज्ञाश्रुकलाश्च मातरः ।तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं च ययाचिरे सह ॥ ७१ ॥
« »