गते पुरोहिते रामः स्नातो नियतमानसः ।सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥ १ ॥
प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा ।महते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥ २ ॥
शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् ।ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥ ३ ॥
वाग्यतः सह वैदेह्या भूत्वा नियतमानसः ।श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥ ४ ॥
एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः ।अलंकारविधिं कृत्स्नं कारयामास वेश्मनः ॥ ५ ॥
तत्र शृण्वन्सुखा वाचः सूतमागधबन्दिनाम् ।पूर्वां संध्यामुपासीनो जजाप यतमानसः ॥ ६ ॥
तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् ।विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥ ७ ॥
तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा ।अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥ ८ ॥
कृतोपवासं तु तदा वैदेह्या सह राघवम् ।अयोध्या निलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥ ९ ॥
ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् ।प्रभातां रजनीं दृष्ट्वा चक्रे शोभां परां पुनः ॥ १० ॥
सिताभ्रशिखराभेषु देवतायतनेषु च ।चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च ॥ ११ ॥
नानापण्यसमृद्धेषु वणिजामापणेषु च ।कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥ १२ ॥
सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च ।ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥ १३ ॥
नटनर्तकसंघानां गायकानां च गायताम् ।मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥ १४ ॥
रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः ।रामाभिषेके संप्राप्ते चत्वरेषु गृहेषु च ॥ १५ ॥
बाला अपि क्रीडमाना गृहद्वारेषु संघशः ।रामाभिषेकसंयुक्ताश्चक्रुरेव मिथः कथाः ॥ १६ ॥
कृतपुष्पोपहारश्च धूपगन्धाधिवासितः ।राजमार्गः कृतः श्रीमान्पौरै रामाभिषेचने ॥ १७ ॥
प्रकाशीकरणार्थं च निशागमनशङ्कया ।दीपवृक्षांस्तथा चक्रुरनु रथ्यासु सर्वशः ॥ १८ ॥
अलंकारं पुरस्यैवं कृत्वा तत्पुरवासिनः ।आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् ॥ १९ ॥
समेत्य संघशः सर्वे चत्वरेषु सभासु च ।कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥ २० ॥
अहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः ।ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति ॥ २१ ॥
सर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः ।चिराय भविता गोप्ता दृष्टलोकपरावरः ॥ २२ ॥
अनुद्धतमना विद्वान्धर्मात्मा भ्रातृवत्सलः ।यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥ २३ ॥
चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः ।यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥ २४ ॥
एवंविधं कथयतां पौराणां शुश्रुवुस्तदा ।दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः ॥ २५ ॥
ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् ।रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥ २६ ॥
जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निःस्वनः ।पर्वसूदीर्णवेगस्य सागरस्येव निःस्वनः ॥ २७ ॥
ततस्तदिन्द्रक्षयसंनिभं पुरं दिदृक्षुभिर्जानपदैरुपागतैः ।समन्ततः सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम् ॥ २८ ॥