Click on words to see what they mean.

रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् ।जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ॥ १ ॥
तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा ।उपास्य स शिवां संध्यां विषयान्तं व्यगाहत ॥ २ ॥
ग्रामान्विकृष्टसीमांस्तान्पुष्पितानि वनानि च ।पश्यन्नतिययौ शीघ्रं शरैरिव हयोत्तमैः ॥ ३ ॥
शृण्वन्वाचो मनुष्याणां ग्रामसंवासवासिनाम् ।राजानं धिग्दशरथं कामस्य वशमागतम् ॥ ४ ॥
हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी ।तीक्ष्णा संभिन्नमर्यादा तीक्ष्णे कर्मणि वर्तते ॥ ५ ॥
या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् ।वन वासे महाप्राज्ञं सानुक्रोशमतन्द्रितम् ॥ ६ ॥
एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् ।शृण्वन्नतिययौ वीरः कोसलान्कोसलेश्वरः ॥ ७ ॥
ततो वेदश्रुतिं नाम शिववारिवहां नदीम् ।उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् ॥ ८ ॥
गत्वा तु सुचिरं कालं ततः शीतजलां नदीम् ।गोमतीं गोयुतानूपामतरत्सागरंगमाम् ॥ ९ ॥
गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः ।मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् ॥ १० ॥
स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा ।स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत् ॥ ११ ॥
सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः ।हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः ॥ १२ ॥
कदाहं पुनरागम्य सरय्वाः पुष्पिते वने ।मृगयां पर्याटष्यामि मात्रा पित्रा च संगतः ॥ १३ ॥
नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने ।रतिर्ह्येषातुला लोके राजर्षिगणसंमता ॥ १४ ॥
स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा ।तं तमर्थमभिप्रेत्य ययौवाक्यमुदीरयन् ॥ १५ ॥
« »