Click on words to see what they mean.

अनुगम्य निवृत्तानां रामं नगरवासिनाम् ।उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम् ॥ १ ॥
स्वं स्वं निलयमागम्य पुत्रदारैः समावृताः ।अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः ॥ २ ॥
न चाहृष्यन्न चामोदन्वणिजो न प्रसारयन् ।न चाशोभन्त पण्यानि नापचन्गृहमेधिनः ॥ ३ ॥
नष्टं दृष्ट्वा नाभ्यनन्दन्विपुलं वा धनागमम् ।पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ ४ ॥
गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम् ।व्यगर्हयन्तो दुःखार्ता वाग्भिस्तोत्रैरिव द्विपान् ॥ ५ ॥
किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा ।पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम् ॥ ६ ॥
एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया ।योऽनुगच्छति काकुत्स्थं रामं परिचरन्वने ॥ ७ ॥
आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च ।येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि ॥ ८ ॥
शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः ।आपगाश्च महानूपाः सानुमन्तश्च पर्वताः ॥ ९ ॥
काननं वापि शैलं वा यं रामोऽभिगमिष्यति ।प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् ॥ १० ॥
विचित्रकुसुमापीडा बहुमञ्जरिधारिणः ।अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम् ॥ ११ ॥
विदर्शयन्तो विविधान्भूयश्चित्रांश्च निर्झरान् ।पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् ॥ १२ ॥
यत्र रामो भयं नात्र नास्ति तत्र पराभवः ।स हि शूरो महाबाहुः पुत्रो दशरथस्य च ॥ १३ ॥
पुरा भवति नो दूरादनुगच्छाम राघवम् ।पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः ।स हि नाथो जनस्यास्य स गतिः स परायणम् ॥ १४ ॥
वयं परिचरिष्यामः सीतां यूयं तु राघवम् ।इति पौरस्त्रियो भर्तॄन्दुःखार्तास्तत्तदब्रुवन् ॥ १५ ॥
युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति ।सीता नारीजनस्यास्य योगक्षेमं करिष्यति ॥ १६ ॥
को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च ।संप्रीयेतामनोज्ञेन वासेन हृतचेतसा ॥ १७ ॥
कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत् ।न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः ॥ १८ ॥
यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् ।कं सा परिहरेदन्यं कैकेयी कुलपांसनी ॥ १९ ॥
कैकेय्या न वयं राज्ये भृतका निवसेमहि ।जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे ॥ २० ॥
या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा ।कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम् ॥ २१ ॥
न हि प्रव्रजिते रामे जीविष्यति महीपतिः ।मृते दशरथे व्यक्तं विलोपस्तदनन्तरम् ॥ २२ ॥
ते विषं पिबतालोड्य क्षीणपुण्याः सुदुर्गताः ।राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत ॥ २३ ॥
मिथ्या प्रव्राजितो रामः सभार्यः सहलक्ष्मणः ।भरते संनिषृष्टाः स्मः सौनिके पशवो यथा ॥ २४ ॥
तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः ।चुक्रुशुर्भृशसंतप्ता मृत्योरिव भयागमे ॥ २५ ॥
तथा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते ।विलप्य दीना रुरुदुर्विचेतसः सुतैर्हि तासामधिको हि सोऽभवत् ॥ २६ ॥
« »