Click on words to see what they mean.

ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः ।उपतस्थुरुपस्थानं सहराजपुरोहिताः ॥ १ ॥
अमात्या बलमुख्याश्च मुख्या ये निगमस्य च ।राघवस्याभिषेकार्थे प्रीयमाणास्तु संगताः ॥ २ ॥
उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि ।अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम् ॥ ३ ॥
काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम् ।रामश्च सम्यगास्तीर्णो भास्वरा व्याघ्रचर्मणा ॥ ४ ॥
गङ्गायमुनयोः पुण्यात्संगमादाहृतं जलम् ।याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च ॥ ५ ॥
प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाः समाहिताः ।ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः ॥ ६ ॥
क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ।सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ।पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा ॥ ७ ॥
चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम् ।सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् ॥ ८ ॥
चन्द्रमण्डलसंकाशमातपत्रं च पाण्डुरम् ।सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् ॥ ९ ॥
पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च सुस्थितः ।प्रस्रुतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते ॥ १० ॥
अष्टौ कन्याश्च मङ्गल्याः सर्वाभरणभूषिताः ।वादित्राणि च सर्वाणि बन्दिनश्च तथापरे ॥ ११ ॥
इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् ।तथा जातीयामादाय राजपुत्राभिषेचनम् ॥ १२ ॥
ते राजवचनात्तत्र समवेता महीपतिम् ।अपश्यन्तोऽब्रुवन्को नु राज्ञो नः प्रतिवेदयेत् ॥ १३ ॥
न पश्यामश्च राजानमुदितश्च दिवाकरः ।यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः ॥ १४ ॥
इति तेषु ब्रुवाणेषु सार्वभौमान्महीपतीन् ।अब्रवीत्तानिदं सर्वान्सुमन्त्रो राजसत्कृतः ॥ १५ ॥
अयं पृच्छामि वचनात्सुखमायुष्मतामहम् ।राज्ञः संप्रतिबुद्धस्य यच्चागमनकारणम् ॥ १६ ॥
इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् ।आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् ॥ १७ ॥
गता भगवती रात्रिरहः शिवमुपस्थितम् ।बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ॥ १८ ॥
ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ।दर्शनं प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव ॥ १९ ॥
स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् ।प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् ॥ २० ॥
न चैव संप्रसुतोऽहमानयेदाशु राघवम् ।इति राजा दशरथः सूतं तत्रान्वशात्पुनः ॥ २१ ॥
स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ।निर्जगाम नृपावासान्मन्यमानः प्रियं महत् ॥ २२ ॥
प्रपन्नो राजमार्गं च पताका ध्वजशोभितम् ।स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ॥ २३ ॥
ततो ददर्श रुचिरं कैलाससदृशप्रभम् ।रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् ॥ २४ ॥
महाकपाटपिहितं वितर्दिशतशोभितम् ।काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् ॥ २५ ॥
शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् ।दामभिर्वरमाल्यानां सुमहद्भिरलंकृतम् ॥ २६ ॥
स वाजियुक्तेन रथेन सारथिर्नराकुलं राजकुलं विलोकयन् ।ततः समासाद्य महाधनं महत्प्रहृष्टरोमा स बभूव सारथिः ॥ २७ ॥
तदद्रिकूटाचलमेघसंनिभं महाविमानोत्तमवेश्मसंघवत् ।अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथार्णवम् ॥ २८ ॥
« »