Click on words to see what they mean.

पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि ।विवेष्टमानमुदीक्ष्य सैक्ष्वाकमिदमब्रवीत् ॥ १ ॥
पापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम् ।शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ २ ॥
आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः ।सत्यमाश्रित्य हि मया त्वं च धर्मं प्रचोदितः ॥ ३ ॥
संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः ।प्रदाय पक्षिणो राजञ्जगाम गतिमुत्तमाम् ॥ ४ ॥
तथ ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे ।याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ ॥ ५ ॥
सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः ।सत्यानुरोधात्समये वेलां खां नातिवर्तते ॥ ६ ॥
समयं च ममार्येमं यदि त्वं न करिष्यसि ।अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ ७ ॥
एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया ।नाशकत्पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ॥ ८ ॥
उद्भ्रान्तहृदयश्चापि विवर्णवनदोऽभवत् ।स धुर्यो वै परिस्पन्दन्युगचक्रान्तरं यथा ॥ ९ ॥
विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः ।कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ १० ॥
यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः ।तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया ॥ ११ ॥
ततः पापसमाचारा कैकेयी पार्थिवं पुनः ।उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता ॥ १२ ॥
किमिदं भाषसे राजन्वाक्यं गररुजोपमम् ।आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥ १३ ॥
स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् ।निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ १४ ॥
स नुन्न इव तीक्षेण प्रतोदेन हयोत्तमः ।राजा प्रदोचितोऽभीक्ष्णं कैकेयीमिदमब्रवीत् ॥ १५ ॥
धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना ।ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ १६ ॥
इति राज्ञो वचः श्रुत्वा कैकेयी तदनन्तरम् ।स्वयमेवाब्रवीत्सूतं गच्छ त्वं राममानय ॥ १७ ॥
ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति ।शोकारक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः ॥ १८ ॥
सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् ।प्रगृहीताञ्जलिः किंचित्तस्माद्देशादपाक्रमन् ॥ १९ ॥
यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः ।तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥ २० ॥
सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् ।स मन्यमानः कल्याणं हृदयेन ननन्द च ॥ २१ ॥
सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ।व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् ॥ २२ ॥
इति सूतो मतिं कृत्वा हर्षेण महता पुनः ।निर्जगाम महातेजा राघवस्य दिदृक्षया ॥ २३ ॥
ततः पुरस्तात्सहसा विनिर्गतो महीपतीन्द्वारगतान्विलोकयन् ।ददर्श पौरान्विविधान्महाधनानुपस्थितान्द्वारमुपेत्य विष्ठितान् ॥ २४ ॥
« »