Click on words to see what they mean.

स तदन्तःपुरद्वारं समतीत्य जनाकुलम् ।प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥ १ ॥
प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः ।अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् ॥ २ ॥
तत्र काषायिणो वृद्धान्वेत्रपाणीन्स्वलंकृतान् ।ददर्श विष्ठितान्द्वारि स्त्र्यध्यक्षान्सुसमाहितान् ॥ ३ ॥
ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः ।सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥ ४ ॥
प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः ।तत्रैवानाययामास राघवः प्रियकाम्यया ॥ ५ ॥
तं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम् ।दादर्श सूतः पर्यङ्के सौवणो सोत्तरच्छदे ॥ ६ ॥
वराहरुधिराभेण शुचिना च सुगन्धिना ।अनुलिप्तं परार्ध्येन चन्दनेन परंतपम् ॥ ७ ॥
स्थितया पार्श्वतश्चापि वालव्यजनहस्तया ।उपेतं सीतया भूयश्चित्रया शशिनं यथा ॥ ८ ॥
तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा ।ववन्दे वरदं बन्दी नियमज्ञो विनीतवत् ॥ ९ ॥
प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने ।राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥ १० ॥
कौसल्या सुप्रभा देव पिता त्वं द्रष्टुमिच्छति ।महिष्या सह कैकेय्या गम्यतां तत्र माचिरम् ॥ ११ ॥
एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः ।ततः संमानयामास सीतामिदमुवाच ह ॥ १२ ॥
देवि देवश्च देवी च समागम्य मदन्तरे ।मन्त्रेयेते ध्रुवं किंचिदभिषेचनसंहितम् ॥ १३ ॥
लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा ।संचोदयति राजानं मदर्थं मदिरेक्षणा ॥ १४ ॥
यादृशी परिषत्तत्र तादृशो दूत आगतः ।ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥ १५ ॥
हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिः ।सह त्वं परिवारेण सुखमास्स्व रमस्य च ॥ १६ ॥
पतिसंमानिता सीता भर्तारमसितेक्षणा ।आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥ १७ ॥
स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ।ततः पावकसंकाशमारुरोह रथोत्तमम् ॥ १८ ॥
मुष्णन्तमिव चक्षूंषि प्रभया हेमवर्चसं ।करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः ॥ १९ ॥
हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् ।प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया ॥ २० ॥
स पर्जन्य इवाकाशे स्वनवानभिनादयन् ।निकेतान्निर्ययौ श्रीमान्महाभ्रादिव चन्द्रमाः ॥ २१ ॥
छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ।जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः ॥ २२ ॥
ततो हलहलाशब्दस्तुमुलः समजायत ।तस्य निष्क्रममाणस्य जनौघस्य समन्ततः ॥ २३ ॥
स राघवस्तत्र कथाप्रलापं शुश्राव लोकस्य समागतस्य ।आत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरे जनस्य ॥ २४ ॥
एष श्रियं गच्छति राघवोऽद्य राजप्रसादाद्विपुलां गमिष्यन् ।एते वयं सर्वसमृद्धकामा येषामयं नो भविता प्रशास्ता ।लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय ॥ २५ ॥
स घोषवद्भिश्च हयैः सनागैः पुरःसरैः स्वस्तिकसूतमागधैः ।महीयमानः प्रवरैश्च वादकैरभिष्टुतो वैश्रवणो यथा ययौ ॥ २६ ॥
करेणुमातङ्गरथाश्वसंकुलं महाजनौघैः परिपूर्णचत्वरम् ।प्रभूतरत्नं बहुपण्यसंचयं ददर्श रामो रुचिरं महापथम् ॥ २७ ॥
« »