Click on words to see what they mean.

सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा ।यथर्ष्यशृङ्गस्त्वानीतः शृणु मे मन्त्रिभिः सह ॥ १ ॥
लोमपादमुवाचेदं सहामात्यः पुरोहितः ।उपायो निरपायोऽयमस्माभिरभिचिन्तितः ॥ २ ॥
ऋश्यशृङ्गो वनचरस्तपःस्वाध्यायने रतः ।अनभिज्ञः स नारीणां विषयाणां सुखस्य च ॥ ३ ॥
इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः ।पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥ ४ ॥
गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलंकृताः ।प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः ॥ ५ ॥
श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् ।पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तदा ॥ ६ ॥
वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत् ।आश्रमस्याविदूरेऽस्मिन्यत्नं कुर्वन्ति दर्शने ।ऋषिपुत्रस्य घोरस्य नित्यमाश्रमवासिनः ॥ ७ ॥
पितुः स नित्यसंतुष्टो नातिचक्राम चाश्रमात् ॥ ८ ॥
न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना ।स्त्री वा पुमान्वा यच्चान्यत्सत्त्वं नगरराष्ट्रजम् ॥ ९ ॥
ततः कदाचित्तं देशमाजगाम यदृच्छया ।विभाण्डकसुतस्तत्र ताश्चापश्यद्वराङ्गनाः ॥ १० ॥
ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरैः ।ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥ ११ ॥
कस्त्वं किं वर्तसे ब्रह्मञ्ज्ञातुमिच्छामहे वयम् ।एकस्त्वं विजने घोरे वने चरसि शंस नः ॥ १२ ॥
अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः ।हार्दात्तस्य मतिर्जाता आख्यातुं पितरं स्वकम् ॥ १३ ॥
पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसः ।ऋश्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि ॥ १४ ॥
इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः ।करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥ १५ ॥
ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै ।तदाश्रमपदं द्रष्टुं जग्मुः सर्वाश्च तेन ह ॥ १६ ॥
गतानां तु ततः पूजामृषिपुत्रश्चकार ह ।इदमर्घ्यमिदं पाद्यमिदं मूलं फलं च नः ॥ १७ ॥
प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः ।ऋषेर्भीताश्च शीघ्रं तु गमनाय मतिं दधुः ॥ १८ ॥
अस्माकमपि मुख्यानि फलानीमानि वै द्विज ।गृहाण प्रति भद्रं ते भक्षयस्व च मा चिरम् ॥ १९ ॥
ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः ।मोदकान्प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्शुभान् ॥ २० ॥
तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते ।अनास्वादितपूर्वाणि वने नित्यनिवासिना ॥ २१ ॥
आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च ।गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः ॥ २२ ॥
गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः ।अस्वस्थहृदयश्चासीद्दुःखं स्म परिवर्तते ॥ २३ ॥
ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान् ।मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः ॥ २४ ॥
दृष्ट्वैव च तदा विप्रमायान्तं हृष्टमानसाः ।उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः ॥ २५ ॥
एह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन् ।तत्राप्येष विधिः श्रीमान्विशेषेण भविष्यति ॥ २६ ॥
श्रुत्वा तु वचनं तासां सर्वासां हृदयंगमम् ।गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः ॥ २७ ॥
तत्र चानीयमाने तु विप्रे तस्मिन्महात्मनि ।ववर्ष सहसा देवो जगत्प्रह्लादयंस्तदा ॥ २८ ॥
वर्षेणैवागतं विप्रं विषयं स्वं नराधिपः ।प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥ २९ ॥
अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः ।वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत् ॥ ३० ॥
अन्तःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि ।शान्तां शान्तेन मनसा राजा हर्षमवाप सः ॥ ३१ ॥
एवं स न्यवसत्तत्र सर्वकामैः सुपूजितः ।ऋश्यशृङ्गो महातेजाः शान्तया सह भार्यया ॥ ३२ ॥
« »