Click on words to see what they mean.

भूय एव च राजेन्द्र शृणु मे वचनं हितम् ।यथा स देवप्रवरः कथायामेवमब्रवीत् ॥ १ ॥
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।राजा दशरथो नाम्ना श्रीमान्सत्यप्रतिश्रवः ॥ २ ॥
अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति ।कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ ३ ॥
पुत्रस्त्वङ्गस्य राज्ञस्तु लोमपाद इति श्रुतः ।तं स राजा दशरथो गमिष्यति महायशाः ॥ ४ ॥
अनपत्योऽस्मि धर्मात्मञ्शान्ताभर्ता मम क्रतुम् ।आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च ॥ ५ ॥
श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च ।प्रदास्यते पुत्रवन्तं शान्ता भर्तारमात्मवान् ॥ ६ ॥
प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः ।आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥ ७ ॥
तं च राजा दशरथो यष्टुकामः कृताञ्जलिः ।ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥ ८ ॥
यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः ।लभते च स तं कामं द्विजमुख्याद्विशां पतिः ॥ ९ ॥
पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः ।वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः ॥ १० ॥
एवं स देवप्रवरः पूर्वं कथितवान्कथाम् ।सनत्कुमारो भगवान्पुरा देवयुगे प्रभुः ॥ ११ ॥
स त्वं पुरुषशार्दूल तमानय सुसत्कृतम् ।स्वयमेव महाराज गत्वा सबलवाहनः ॥ १२ ॥
अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च ।सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ॥ १३ ॥
वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ।अभिचक्राम तं देशं यत्र वै मुनिपुंगवः ॥ १४ ॥
आसाद्य तं द्विजश्रेष्ठं लोमपादसमीपगम् ।ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम् ॥ १५ ॥
ततो राजा यथान्यायं पूजां चक्रे विशेषतः ।सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ॥ १६ ॥
लोमपादेन चाख्यातमृषिपुत्राय धीमते ।सख्यं संबन्धकं चैव तदा तं प्रत्यपूजयत् ॥ १७ ॥
एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ।सप्ताष्टदिवसान्राजा राजानमिदमब्रवीत् ॥ १८ ॥
शान्ता तव सुता राजन्सह भर्त्रा विशाम्पते ।मदीयं नगरं यातु कार्यं हि महदुद्यतम् ॥ १९ ॥
तथेति राजा संश्रुत्य गमनं तस्य धीमतः ।उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ॥ २० ॥
ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ।स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ॥ २१ ॥
तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ।ननन्दतुर्दशरथो लोमपादश्च वीर्यवान् ॥ २२ ॥
ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ।पौरेभ्यः प्रेषयामास दूतान्वै शीघ्रगामिनः ।क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम् ॥ २३ ॥
ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ।तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा ॥ २४ ॥
ततः स्वलंकृतं राजा नगरं प्रविवेश ह ।शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम् ॥ २५ ॥
ततः प्रमुदिताः सर्वे दृष्ट्वा तं नागरा द्विजम् ।प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा ॥ २६ ॥
अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः ।कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥ २७ ॥
अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम् ।सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् ॥ २८ ॥
पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः ।उवास तत्र सुखिता कंचित्कालं सह द्विजा ॥ २९ ॥
« »