Click on words to see what they mean.

तस्य त्वेवं प्रभावस्य धर्मज्ञस्य महात्मनः ।सुतार्थं तप्यमानस्य नासीद्वंशकरः सुतः ॥ १ ॥
चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् ॥ २ ॥
स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥ ३ ॥
ततोऽब्रवीदिदं राजा सुमन्त्रं मन्त्रिसत्तमम् ।शीघ्रमानय मे सर्वान्गुरूंस्तान्सपुरोहितान् ॥ ४ ॥
एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् ।ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः ॥ ५ ॥
सनत्कुमारो भगवान्पूर्वं कथितवान्कथाम् ।ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति ॥ ६ ॥
काश्यपस्य तु पुत्रोऽस्ति विभाण्डक इति श्रुतः ।ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति ॥ ७ ॥
स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ।नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ॥ ८ ॥
द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ।लोकेषु प्रथितं राजन्विप्रैश्च कथितं सदा ॥ ९ ॥
तस्यैवं वर्तमानस्य कालः समभिवर्तत ।अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् ॥ १० ॥
एतस्मिन्नेव काले तु लोमपादः प्रतापवान् ।अङ्गेषु प्रथितो राजा भविष्यति महाबलः ॥ ११ ॥
तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा ।अनावृष्टिः सुघोरा वै सर्वभूतभयावहा ॥ १२ ॥
अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ।ब्राह्मणाञ्श्रुतवृद्धांश्च समानीय प्रवक्ष्यति ॥ १३ ॥
भवन्तः श्रुतधर्माणो लोकचारित्रवेदिनः ।समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् ॥ १४ ॥
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः ।विभाण्डकसुतं राजन्सर्वोपायैरिहानय ॥ १५ ॥
आनाय्य च महीपाल ऋश्यशृङ्गं सुसत्कृतम् ।प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥ १६ ॥
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते ।केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥ १७ ॥
ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् ।पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान् ॥ १८ ॥
ते तु राज्ञो वचः श्रुत्वा व्यथिता वनताननाः ।न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥ १९ ॥
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान्क्षमान् ।आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥ २० ॥
एवमङ्गाधिपेनैव गणिकाभिरृषेः सुतः ।आनीतोऽवर्षयद्देवः शान्ता चास्मै प्रदीयते ॥ २१ ॥
ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति ।सनत्कुमारकथितमेतावद्व्याहृतं मया ॥ २२ ॥
अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत ।यथर्ष्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम् ॥ २३ ॥
« »