राम दाशरथे वीर वीर्यं ते श्रूयतेऽधुतम् ।धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥ १ ॥
तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया ।तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं शुभम् ॥ २ ॥
तदिदं घोरसंकाशं जामदग्न्यं महद्धनुः ।पूरयस्व शरेणैव स्वबलं दर्शयस्व च ॥ ३ ॥
तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे ।द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यमिदं तव ॥ ४ ॥
तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा ।विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् ॥ ५ ॥
क्षत्ररोषात्प्रशान्तस्त्वं ब्राह्मणस्य महायशाः ।बालानां मम पुत्राणामभयं दातुमर्हसि ॥ ६ ॥
भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् ।सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि ॥ ७ ॥
स त्वं धर्मपरो भूत्वा काश्यपाय वसुंधराम् ।दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः ॥ ८ ॥
मम सर्वविनाशाय संप्राप्तस्त्वं महामुने ।न चैकस्मिन्हते रामे सर्वे जीवामहे वयम् ॥ ९ ॥
ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान् ।अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत ॥ १० ॥
इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते ।दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ॥ ११ ॥
अतिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे ।त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया ॥ १२ ॥
इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः ।समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम् ॥ १३ ॥
तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् ।शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया ॥ १४ ॥
अभिप्रायं तु विज्ञाय देवतानां पितामहः ।विरोधं जनयामास तयोः सत्यवतां वरः ॥ १५ ॥
विरोधे च महद्युद्धमभवद्रोमहर्षणम् ।शितिकण्ठस्य विष्णोश्च परस्परजयैषिणोः ॥ १६ ॥
तदा तज्जृम्भितं शैवं धनुर्भीमपराक्रमम् ।हुंकारेण महादेवः स्तम्भितोऽथ त्रिलोचनः ॥ १७ ॥
देवैस्तदा समागम्य सर्षिसंघैः सचारणैः ।याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ ॥ १८ ॥
जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः ।अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ॥ १९ ॥
धनू रुद्रस्तु संक्रुद्धो विदेहेषु महायशाः ।देवरातस्य राजर्षेर्ददौ हस्ते ससायकम् ॥ २० ॥
इदं च विष्णवं राम धनुः परपुरंजयम् ।ऋचीके भार्गवे प्रादाद्विष्णुः स न्यासमुत्तमम् ॥ २१ ॥
ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः ।पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः ॥ २२ ॥
न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते ।अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः ॥ २३ ॥
वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् ।क्षत्रमुत्सादयं रोषाज्जातं जातमनेकशः ॥ २४ ॥
पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने ।यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे ॥ २५ ॥
दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः ।श्रुतवान्धनुषो भेदं ततोऽहं द्रुतमागतः ॥ २६ ॥
तदिदं वैष्णवं राम पितृपैतामहं महत् ।क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् ॥ २७ ॥
योजयस्व धनुः श्रेष्ठे शरं परपुरंजयम् ।यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः ॥ २८ ॥