Click on words to see what they mean.

अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः ।आपृच्छ्य तौ च राजानौ जगामोत्तरपर्वतम् ॥ १ ॥
विश्वामित्रो गते राजा वैदेहं मिथिलाधिपम् ।आपृच्छ्याथ जगामाशु राजा दशरथः पुरीम् ॥ २ ॥
अथ राजा विदेहानां ददौ कन्याधनं बहु ।गवां शतसहस्राणि बहूनि मिथिलेश्वरः ॥ ३ ॥
कम्बलानां च मुख्यानां क्षौमकोट्यम्बराणि च ।हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम् ॥ ४ ॥
ददौ कन्या पिता तासां दासीदासमनुत्तमम् ।हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ॥ ५ ॥
ददौ परमसंहृष्टः कन्याधनमनुत्तमम् ।दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम् ॥ ६ ॥
प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः ।राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः ॥ ७ ॥
ऋषीन्सर्वान्पुरस्कृत्य जगाम सबलानुगः ।गच्छन्तं तु नरव्याघ्रं सर्षिसंघं सराघवम् ॥ ८ ॥
घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः ।भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥ ९ ॥
तान्दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत ।असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः ।किमिदं हृदयोत्कम्पि मनो मम विषीदति ॥ १० ॥
राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः ।उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम् ॥ ११ ॥
उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम् ।मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम् ॥ १२ ॥
तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह ।कम्पयन्मेदिनीं सर्वां पातयंश्च द्रुमाञ्शुभान् ॥ १३ ॥
तमसा संवृतः सूर्यः सर्वा न प्रबभुर्दिशः ।भस्मना चावृतं सर्वं संमूढमिव तद्बलम् ॥ १४ ॥
वसिष्ठ ऋषयश्चान्ये राजा च ससुतस्तदा ।ससंज्ञा इव तत्रासन्सर्वमन्यद्विचेतनम् ॥ १५ ॥
तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः ।ददर्श भीमसंकाशं जटामण्डलधारिणम् ॥ १६ ॥
कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम् ।ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः ॥ १७ ॥
स्कन्धे चासज्य परशुं धनुर्विद्युद्गणोपमम् ।प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा हरम् ॥ १८ ॥
तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम् ।वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः ।संगता मुनयः सर्वे संजजल्पुरथो मिथः ॥ १९ ॥
कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति ।पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः ।क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ॥ २० ॥
एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम् ।ऋषयो राम रामेति मधुरां वाचमब्रुवन् ॥ २१ ॥
प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान् ।रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत ॥ २२ ॥
« »