Click on words to see what they mean.

तच्छ्रुत्वा राजशार्दूल विश्वामित्रस्य भाषितम् ।मुहूर्तमिव निःसंज्ञः संज्ञावानिदमब्रवीत् ॥ १ ॥
ऊनषोडशवर्षो मे रामो राजीवलोचनः ।न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥ २ ॥
इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः ।अनया संवृतो गत्वा योधाहं तैर्निशाचरैः ॥ ३ ॥
इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः ।योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि ॥ ४ ॥
अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि ।यावत्प्राणान्धरिष्यामि तावद्योत्स्ये निशाचरैः ॥ ५ ॥
निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता ।अहं तत्र गमिष्यामि न राम नेतुमर्हसि ॥ ६ ॥
बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् ।न चास्त्रबलसंयुक्तो न च युद्धविशारदः ।न चासौ रक्षसां योग्यः कूटयुद्धा हि ते ध्रुवम् ॥ ७ ॥
विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ।जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि ॥ ८ ॥
यदि वा राघवं ब्रह्मन्नेतुमिच्छसि सुव्रत ।चतुरङ्गसमायुक्तं मया सह च तं नय ॥ ९ ॥
षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक ।दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि ॥ १० ॥
चतुर्णामात्मजानां हि प्रीतिः परमिका मम ।ज्येष्ठं धर्मप्रधानं च न रामं नेतुमर्हसि ॥ ११ ॥
किं वीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते ।कथं प्रमाणाः के चैतान्रक्षन्ति मुनिपुंगव ॥ १२ ॥
कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् ।मामकैर्वा बलैर्ब्रह्मन्मया वा कूटयोधिनाम् ॥ १३ ॥
सर्वं मे शंस भगवन्कथं तेषां मया रणे ।स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः ॥ १४ ॥
तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत ।पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः ॥ १५ ॥
स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ।महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः ॥ १६ ॥
श्रूयते हि महावीर्यो रावणो राक्षसाधिपः ।साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ॥ १७ ॥
यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः ।तेन संचोदितौ तौ तु राक्षसौ सुमहाबलौ ।मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ॥ १८ ॥
इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा ।न हि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः ॥ १९ ॥
स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके ।देवदानवगन्धर्वा यक्षाः पतगपन्नगाः ॥ २० ॥
न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ।स हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः ॥ २१ ॥
तेन चाहं न शक्तोऽस्मि संयोद्धुं तस्य वा बलैः ।सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः ॥ २२ ॥
कथमप्यमरप्रख्यं संग्रामाणामकोविदम् ।बालं मे तनयं ब्रह्मन्नैव दास्यामि पुत्रकम् ॥ २३ ॥
अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः ।यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् ॥ २४ ॥
मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ।तयोरन्यतरेणाहं योद्धा स्यां ससुहृद्गणः ॥ २५ ॥
« »