तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् ।समन्युः कौशिको वाक्यं प्रत्युवच महीपतिम् ॥ १ ॥
पूर्ह्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि ।रागवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ॥ २ ॥
यदिदं ते क्षमं राजन्गमिष्यामि यथागतम् ।मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः ॥ ३ ॥
तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः ।चचाल वसुधा कृत्स्ना विवेश च भयं सुरान् ॥ ४ ॥
त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः ।नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥ ५ ॥
इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः ।धृतिमान्सुव्रतः श्रीमान्न धर्मं हातुमर्हसि ॥ ६ ॥
त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः ।स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ॥ ७ ॥
संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव ।इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय ॥ ८ ॥
कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः ।गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥ ९ ॥
एष विग्रहवान्धर्म एष वीर्यवतां वरः ।एष बुद्ध्याधिको लोके तपसश्च परायणम् ॥ १० ॥
एषोऽस्त्रान्विविधान्वेत्ति त्रैलोक्ये सचराचरे ।नैनमन्यः पुमान्वेत्ति न च वेत्स्यन्ति केचन ॥ ११ ॥
न देवा नर्षयः केचिन्नासुरा न च राक्षसाः ।गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः ॥ १२ ॥
सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः ।कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति ॥ १३ ॥
तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः ।नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः ॥ १४ ॥
जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे ।ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥ १५ ॥
पञ्चाशतं सुताँल्लेभे जया नाम वरान्पुरा ।वधायासुरसैन्यानाममेयान्कामरूपिणः ॥ १६ ॥
सुप्रभाजनयच्चापि पुत्रान्पञ्चाशतं पुनः ।संहारान्नाम दुर्धर्षान्दुराक्रामान्बलीयसः ॥ १७ ॥
तानि चास्त्राणि वेत्त्येष यथावत्कुशिकात्मजः ।अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित् ॥ १८ ॥
एवं वीर्यो महातेजा विश्वामित्रो महातपाः ।न रामगमने राजन्संशयं गन्तुमर्हसि ॥ १९ ॥