ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः ।जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ॥ १ ॥
उपायः को वधे तस्य राक्षसाधिपतेः सुराः ।यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥ २ ॥
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् ।मानुषीं तनुमास्थाय रावणं जहि संयुगे ॥ ३ ॥
स हि तेपे तपस्तीव्रं दीर्घकालमरिंदम ।येन तुष्टोऽभवद्ब्रह्मा लोककृल्लोकपूजितः ॥ ४ ॥
संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः ।नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् ॥ ५ ॥
अवज्ञाताः पुरा तेन वरदानेन मानवाः ।तस्मात्तस्य वधो दृष्टो मानुषेभ्यः परंतप ॥ ६ ॥
इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान् ।पितरं रोचयामास तदा दशरथं नृपम् ॥ ७ ॥
स चाप्यपुत्रो नृपतिस्तस्मिन्काले महाद्युतिः ।अयजत्पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ॥ ८ ॥
ततो वै यजमानस्य पावकादतुलप्रभम् ।प्रादुर्भूतं महद्भूतं महावीर्यं महाबलम् ॥ ९ ॥
कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् ।स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् ॥ १० ॥
शुभलक्षणसंपन्नं दिव्याभरणभूषितम् ।शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥ ११ ॥
दिवाकरसमाकारं दीप्तानलशिखोपमम् ।तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ॥ १२ ॥
दिव्यपायससंपूर्णां पात्रीं पत्नीमिव प्रियाम् ।प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥ १३ ॥
समवेक्ष्याब्रवीद्वाक्यमिदं दशरथं नृपम् ।प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥ १४ ॥
ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः ।भगवन्स्वागतं तेऽस्तु किमहं करवाणि ते ॥ १५ ॥
अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् ।राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥ १६ ॥
इदं तु नरशार्दूल पायसं देवनिर्मितम् ।प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ॥ १७ ॥
भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै ।तासु त्वं लप्स्यसे पुत्रान्यदर्थं यजसे नृप ॥ १८ ॥
तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् ।पात्रीं देवान्नसंपूर्णां देवदत्तां हिरण्मयीम् ॥ १९ ॥
अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् ।मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ॥ २० ॥
ततो दशरथः प्राप्य पायसं देवनिर्मितम् ।बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥ २१ ॥
ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् ।संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत ॥ २२ ॥
हर्षरश्मिभिरुद्योतं तस्यान्तःपुरमाबभौ ।शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः ॥ २३ ॥
सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् ।पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥ २४ ॥
कौसल्यायै नरपतिः पायसार्धं ददौ तदा ।अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ।कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् ॥ २५ ॥
प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ।अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः ॥ २६ ॥
एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥ २७ ॥
तास्त्वेतत्पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः ।संमानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥ २८ ॥