Click on words to see what they mean.

पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः ।उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥ १ ॥
सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः ।विष्णोः सहायान्बलिनः सृजध्वं कामरूपिणः ॥ २ ॥
मायाविदश्च शूरांश्च वायुवेगसमाञ्जवे ।नयज्ञान्बुद्धिसंपन्नान्विष्णुतुल्यपराक्रमान् ॥ ३ ॥
असंहार्यानुपायज्ञान्दिव्यसंहननान्वितान् ।सर्वास्त्रगुणसंपन्नानमृतप्राशनानिव ॥ ४ ॥
अप्सरःसु च मुख्यासु गन्धर्वीणां तनूषु च ।यक्षपन्नगकन्यासु ऋष्कविद्याधरीषु च ॥ ५ ॥
किंनरीणां च गात्रेषु वानरीणां तनूषु च ।सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥ ६ ॥
ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् ।जनयामासुरेवं ते पुत्रान्वानररूपिणः ॥ ७ ॥
ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः ।चारणाश्च सुतान्वीरान्ससृजुर्वनचारिणः ॥ ८ ॥
ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः ।अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ॥ ९ ॥
ते गजाचलसंकाशा वपुष्मन्तो महाबलाः ।ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ॥ १० ॥
यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ।अजायत समस्तेन तस्य तस्य सुतः पृथक् ॥ ११ ॥
गोलाङ्गूलीषु चोत्पन्नाः केचित्संमतविक्रमाः ।ऋक्षीषु च तथा जाता वानराः किंनरीषु च ॥ १२ ॥
शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ।नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः ॥ १३ ॥
विचालयेयुः शैलेन्द्रान्भेदयेयुः स्थिरान्द्रुमान् ।क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् ॥ १४ ॥
दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम् ।नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान् ॥ १५ ॥
गृह्णीयुरपि मातङ्गान्मत्तान्प्रव्रजतो वने ।नर्दमानांश्च नादेन पातयेयुर्विहंगमान् ॥ १६ ॥
ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् ।शतं शतसहस्राणि यूथपानां महात्मनाम् ।बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन्हरीन् ॥ १७ ॥
अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः ।अन्ये नानाविधाञ्शैलान्काननानि च भेजिरे ॥ १८ ॥
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ।भ्रातरावुपतस्थुस्ते सर्व एव हरीश्वराः ॥ १९ ॥
तैर्मेघवृन्दाचलकूटकल्पैर्महाबलैर्वानरयूथपालैः ।बभूव भूर्भीमशरीररूपैः समावृता रामसहायहेतोः ॥ २० ॥
« »