मेधावी तु ततो ध्यात्वा स किंचिदिदमुत्तमम् ।लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥ १ ॥
इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् ।अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः ॥ २ ॥
ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्र कारणात् ।जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा ॥ ३ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥ ४ ॥
ताः समेत्य यथान्यायं तस्मिन्सदसि देवताः ।अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं महत् ॥ ५ ॥
भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः ।सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥ ६ ॥
त्वया तस्मै वरो दत्तः प्रीतेन भगवन्पुरा ।मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥ ७ ॥
उद्वेजयति लोकांस्त्रीनुच्छ्रितान्द्वेष्टि दुर्मतिः ।शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥ ८ ॥
ऋषीन्यक्षान्सगन्धर्वानसुरान्ब्राह्मणांस्तथा ।अतिक्रामति दुर्धर्षो वरदानेन मोहितः ॥ ९ ॥
नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः ।चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ॥ १० ॥
तन्महन्नो भयं तस्माद्राक्षसाद्घोरदर्शनात् ।वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि ॥ ११ ॥
एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत् ।हन्तायं विहितस्तस्य वधोपायो दुरात्मनः ॥ १२ ॥
तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् ।अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥ १३ ॥
नाकीर्तयदवज्ञानात्तद्रक्षो मानुषांस्तदा ।तस्मात्स मानुषाद्वध्यो मृत्युर्नान्योऽस्य विद्यते ॥ १४ ॥
एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् ।देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा ॥ १५ ॥
एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः ।ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः ॥ १६ ॥
तमब्रुवन्सुराः सर्वे समभिष्टूय संनताः ।त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया ॥ १७ ॥
राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभो ।धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः ।तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च ।विष्णो पुत्रत्वमागच्छ कृत्वात्मानं चतुर्विधम् ॥ १८ ॥
तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ।अवध्यं दैवतैर्विष्णो समरे जहि रावणम् ॥ १९ ॥
स हि देवान्सगन्धर्वान्सिद्धांश्च ऋषिसत्तमान् ।राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते ॥ २० ॥
तदुद्धतं रावणमृद्धतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् ।विरावणं साधु तपस्विकण्टकं तपस्विनामुद्धर तं भयावहम् ॥ २१ ॥